SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २८ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ तिजि- युजे च ॥ ३४५॥ आभ्यां किदुमः प्रत्ययो भवति, गकारश्चान्तादेशो भवति । तिजि क्षमानिशानयोः तिग्मं- तीक्ष्णं, दीप्तं, तेजश्च । युज पी योगे, युग्मं युगलम् ॥ ३४५॥। 5 रुक्म- ग्रीष्म- कूर्म सूर्म- जाल्म- गुल्म प्रोम-परिस्तोम- सूक्ष्मादयः ||३४६॥ एते किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क् च, रुक्मंसुवणं, रूप्यं च । ग्रसेर्गीषु च, ग्रीष्मः ऋतुः । कुरते दीर्घश्च, कूर्म :- कच्छपः । षूत् प्रेरणे, इत्यस्माद्रोऽन्तश्च 10 भवति । सूर्मी- लोहप्रतिमा, चुल्लिश्च । जल घात्ये दीर्घश्च, जाल्मः निकृष्ट: । गुपच व्याकुलत्वे लश्च, गुल्मः - व्याधिः, तरुसमूहः, वनस्पतिः, सेनाङ्गं च, गुल्मम्आयस्थानम् । जिघ्रतेरोत्वं च प्रोमः यज्ञाङ्गलक्षणः सोमः । परिपूर्वात् स्तौः षत्वाभावो गुणश्च परिस्तोम :15 यज्ञविशेष: । सूचण् पशून्ये कत्वं षोऽन्तश्च । सूक्ष्म:निपुणः, सूक्ष्मम्- अणु । आदिग्रहणात् क्ष्मादयो भवन्ति । ॥३४६ ॥ सृ-पू- प्रथि चरि-कडि-कर्देरमः ॥३४७॥ एम्य अम: प्रत्ययो भवति । सूं गतो, सरमा- देवशुनी । 20 पृश् पालनपूरणयो:, परम:- उत्कृष्टः । प्रथिष् प्रख्याने, प्रथमः- आद्यः । चर भक्षणे, चरम:- पश्चिमः । कडत् मदे, कडम:- शालिः । ऋफिडादित्वाल्लत्वे कलम :- स एव । कर्द कुत्सिते शब्दे, कर्दम:- पङ्कः ॥ ३४७॥ अवेधं च वः ॥ ३४८ ॥ 25 अव रक्षणादौ, इत्यस्मादमः प्रत्ययो भवति, धश्चान्तादेशो वा भवति । अधमः, अवमश्च- हीनः ॥ ३४८ ॥ कुट्ट-वेष्टि- पूरि पिषि - सिचि गयप-वृ-महिभ्य इमः ||३४६|| एभ्यः इमः प्रत्ययो भवति । कुट्टण् कुत्सने च, कुट्टिमं30 संस्कृतभूतलम् । वेष्टि वेष्टने, वेष्टिमं- पुष्पबन्धविशेषः, भक्ष्यविशेषश्च । पूरैचि आप्यायने, पूरिमं मालाबन्धविशेषः, भक्ष्यविशेषश्च । पिप्लूंप संचूर्णने, पेषिमं भक्ष्यविशेषः । षिचींत् क्षरणे, सेचिमं - मालाविशेषः । गणण् संख्याने, गणिमं- गणितम् । ऋक् गतौ णौ पौ, अपिमं 35 बालवत्साया दुग्धम् । वृग्ट् वरणे, वरिमं- तुलोन्मेयम् । मह पूजायाम्, महिमं- पूजनीयम् ||३४६ || वयम- खचिमादयः ॥ ३५० ॥ वयमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेंग् तन्तुसन्ताने, वयादेशश्च वयिमं- माल्यं, कन्दुकः, तन्तुवाय दण्डश्च । खनूग् अवदारणे, चश्च खचिमं मणिलोहविद्धं, 40 घृतविहीनं च दधि । आदिशब्दादन्येऽपि ।। ३५० ।। उद्व-कुल्यfल-कुथि कुरिकुटि कुडि- कुसिभ्यः कुमः ।। ३५१ ॥ उत्पूर्वाद्वटे: कुल्यादिभ्यश्च किदुमः प्रत्ययो भवति । वट वेष्टने, उद्धटुमः- परिक्षेपः । कुल बन्धुसंस्त्यानयोः, कुलुम:- 45 उत्सवः । अली भूषणादौ, अलुमः प्रसाधनम्, नापितः, अग्निश्च । कुथच् पूतीभावे, कुथुम :- ऋषिः, कुथुमं - मृगाजिनम् । कुरत् शब्दे, कुरुमः कारुः, भाजनं च । कुट कौटिल्ये, कुटुमः प्रेष्यः । कुडत् बाल्ये च, कुडुमा भूमिः । कुसच् श्लेषे, कुसुमं - पुष्पम् ।। ३५१ ।। 50 कुन्दुम लिन्दुम- कुङ्कुम - विक्रम॥३५२॥ एते कुमप्रत्ययान्ता निपात्यन्ते । कुकि आदाने स्वरान्नो दश्च कुन्दुमः निचय:- गन्धद्रव्यं च । लींच् श्लेषणं, लिन्दभावश्च, लिन्दुमः- गन्धद्रव्यम् । कुके: स्वरान्नोन्तश्च । 55 कुङ्कुमं- घुसृणम् । विदुलूंती लाभे, रोन्तरच, विद्रुमःप्रवाल: । पदेष्टोऽन्तश्च । पट्टुमं- नगरम् । आदिग्रहणादन्येऽपि ।।३५२ || पट्टुमादयः कुथि - गुरूमः ||३५३|| अभ्यामूमः प्रत्ययो भवति । कुथच् पूतिभावे, कोथुम :- 60 चरणकृदृषिः । गुधच् परिवेष्टने, गोधूम:- धान्यविशेष: ॥३५३ ।। विहा - विशा-पचिभिद्यादेः केलिमः || ३५४ || विपूर्वाभ्याम् औहां त्यागे, शोंच् तक्षणे, इत्येताभ्यां पच्यादिभ्यश्च कि एलिमः प्रत्ययो भवति । विहीयते 65 त्यज्यतेऽशुचि शरीरमस्मिन्निति विहेलिम :- स्वर्गः । विश्यति तनूभवति मासि मासि कलाभिर्हीयमान इति विशेलिम :चन्द्रः, स्वर्गश्च । डुपचष् पाके, पचति असावन्नमिति पचेलिम :- अग्निः, आदित्यः, अश्वश्च । भिदुपी विदारणे, भिदेलिम :- तस्कर: । आदिशब्दात् दृशू प्रेक्षणे, दृशेलिमम् । 70 अदं प्सांक् भक्षणे, अदेलिमम् । हन हिंसागत्योः, घ्नेलिमम् । डुयानृग् याञ्चायाम्, याचेलिमम् । पांक् रक्षणे, पेलिमम् । हुकूंग् करणे, केलिमम् इत्यादयो भवन्ति ।। ३५४ || दो डिमः || ३५५ | दांम् दाने, इत्यस्मात् डिमः प्रत्ययो भवति । दाडिमः वा दाडिमी वा वृक्षजातिः || ३५५ || डिमेः कित् ॥ ३५६ ॥ Aho! Shrutgyanam 75
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy