Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
२२
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ :
5
षट् बन्धने इत्यस्माद् नः प्रत्ययो भवति, स च fear भवति । सिन:- काय, वस्त्र, बन्धश्च । सेना
चमूः ॥२६२॥
15
दीच् क्षये । दीन: कृपण:, खिन्नश्च । बुधिच् ज्ञाने, बुध्नः मूलं पृष्ठान्तः, रुद्रश्च । अव रक्षणादी, ऊनम्- अपरिपूर्णम् । मीच हिंसायाम्, मीन:- मत्स्य:, राशि ॥ २६१ ।। सेर्वा ॥२६२॥
सोरू च ॥ २६३ ॥
बुंगुट् अभिषवे, इत्यस्मान्नः प्रत्ययो भवति, ऊकारश्चा10 न्तादेशो भवति । सूना- घातस्थानम् दुहितापुत्र, प्रकृतिः, आधारस्थानं च ॥ २६३॥ रमेस्त् च ॥२६४॥
रमिं क्रीडायान् इत्यस्माद् नः प्रत्ययो भवति, तवान्तादेशो भवति । रत्नं वज्रादिः ।। २६४।।
25
क्रुशेर्वृद्धिश्च ॥२६५॥
कुशं आह्वान रोदनयो:, इत्यस्माद् नः प्रत्ययो भवत्यस्यच वृद्धिर्भवति । क्रौन :- श्वापदः ।। २६५ ।।
- सुनियो माङो डित् ॥ २६६ ॥
द्युसुनिपूर्वात् मां मानशब्दयोः इत्यस्मात् डि 20 नः प्रत्ययो भवति । द्युम्नं द्रविणम्, सुम्नं सुखम्, निम्ननतम् ॥२६६ ।।
शीङः सन्वत् ॥ २६७॥
शी स्वप्ने, इत्यस्मात्- डिद् नः प्रत्ययो भवति, स च सन्वद्भवति । शिश्न - शेपः ॥ २६७ ॥
दिन- नग्न-फेन - चिह्न - ब्रध्न घेन- स्तेन च्यौक्कादयः
॥२६८॥
।
एते प्रत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च, दिनम् अहः । नञ्पूर्वात् वसेर्गोऽन्तो धातोर्लुक्च । न वस्ते, नग्न:- अवसनः । फणे, फले:, स्फायेर्वा फेभावश्व, फेनः30 बुद्बुदसंघातः । चहेरिन्चोपान्त्यस्य चिह्नम् - अभिज्ञानम् बन्धेर्व्रध्च । ब्रघ्न:- रविः, प्रजापतिः, ब्रह्मा, स्वर्गः, पृष्ठान्तव । घयतेरेत्वं च घेना- सरस्वती, माता च; घेन:समुद्रः, ईत्वं चेत्येके, धीना । स्त्यायेस्ते च स्तेन:- चौरः च्यवतेर्वृद्धिः कोऽन्तश्च । च्यौक्नम् - अक्षस्थानम्, अनुजः, 35 क्षीणम्, अपुण्यं च । च्योक्ती - कांस्यादिपात्री । आदिशब्दादन्येऽपि ॥ २६८ ॥
वसि रसि रुचि - जि-मस्जि- देवि स्यन्दि च्यन्दिमन्दि- मण्डि मदि दहि- वह्यादेरनः ॥ २६६ ॥
एभ्यः अन: प्रत्ययो भवति । युक् मिश्रणे, यवना:जनपदः, यवनं मिश्रणम् । असूच्-क्षेपणे, असन:- बीजक: 40 रसण् आस्वादनस्नेहनयो:, रसना - जिह्वा । रुचि अभिप्रीत्यां च, रोचना-गोपित्तम्, रोचन: चन्द्र:, विपूर्वात् विरोचनःअग्नि, सूर्य, इन्दु दानवच । जि अभिभवे, जयनम्ऊर्णापट: । टुमस्जोंत् शुद्धी, मज्जनं स्नानं तोयं च । देवृङ् देवने, देवन:- अक्ष:, कितवश्च । स्यन्दोङ् स्रवणे, स्यन्दन:- 45 रथः । चदु- दीप्त्याह्लादनयो:, चन्दनं - गन्धद्रव्यम् । मदुङ् स्तुत्यादौ, मन्दनं स्तोत्रम् । मडु भूषायाम्, मण्डनमलंकारः । मदैच् हर्षे, मदन:- वृक्ष, काम, मधूच्छिष्टं च । दहं भस्मीकरणे, दहन:- अग्निः । वहीं प्रापणे, वहनं- नौः । आदिग्रहणात् पचेः पचनः अग्निः । पुनातेः पवन:- वायुः । 50 बिभर्तेः, भरणं- साधनम् । नयतेः, नयनं नेत्रम् । द्युतेः, द्योतनः सूर्यः । रचेः, रचनावैचित्र्यम् । गृञ्जः, गृञ्जनम् - अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः, प्रपतनः इत्यादयो भवन्ति ॥ २६६ ॥
अशो रश्चादौ ॥२७०॥
अशौटि व्याप्ती, इत्यस्माद् अनः प्रत्ययो भवति, रेफवादी भवति । रशना मेखला । रशिमेके प्रकृतिमुपादिशन्ति सा च राशि:, रशना, रश्मिः इत्यत्र प्रयुज्यत इत्याहुः ॥२७०॥
उन्देर्न लुक् च ॥२७१॥
60
उन्दैर् क्लेदने, इत्यस्माद् अनः प्रत्ययो भवति, नलो- ' पश्च भवति । ओदनः- भक्तम् ॥ २७९ ॥
हर्घतजघौ च ॥ २७२॥
हक हिंसागत्योः इत्यस्माद् अनः प्रत्ययो भवति, घतजावित्यादेश चास्य भवतः । घतनः- रङ्गोपजीवी, पाप- 65 कर्मा, निर्लजच । जघनं श्रोणिः ॥ २७२ ॥ |
तुदादि-वृजि- रञ्जि-निधाभ्यः कित् ॥ २७३॥
55
एभ्यः कि अनः प्रत्ययो भवति । तुदींत् व्यथने, तुदनः । क्षिपत् प्रेरणे, क्षिपणः । सुरत् ऐश्वर्यदीप्त्योः, सुरण: । बुधिच् ज्ञाते, बुधनः । पिवृच् उतौ सिवनः । एषां यथा - 70 संभवं कारकमुच्यते । लबुङ् अवस्रंसने, लम्बनः- शकुनिः । वृजैकि वर्जने, वृजिनम् अन्तरिक्षम्, निवारणं, मुण्डनं च । रञ्जी रागे, रजनं- हरिद्रा । महारजनं कुसुम्भम्, रजन:रङ्गविशेषः । डुधांग्क् धारणे च । निधनम् - अवसानम्
।।२७३॥
सू-धू -भू-स्जिभ्यो वा ॥ २७४ ॥
एभ्यः अनः प्रत्ययो भवति, स च किद्वा भवति । षूत्
Aho'! Shrutgyanam
75

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132