Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 183
________________ द्वितीये काण्डेच । यथा प्रथमतीर्थकृत एव चतुर्दशभक्तनिषेधेनाष्टापदनगे दशसहस्रकेवलिसहितस्य निर्वाणगतिप्रतिपादकानि सूत्राणि । यदपि 'अतिशयदर्शनान्निरवशेषदोषावरणहानेः' इत्याद्याशङ्कय विकल्पद्वैयमुत्थाप्य परिहृतम् तत्रापि नास्माभिः सर्वज्ञत्वादेरभावः साध्यते येन धर्मिणोऽभावात् प्रकृतसाध्यसिद्धिर्न भवेत् किन्तु यद्यतिशयदर्शनान्नैर्मल्यप्रतिपत्तिवद् आत्यन्तिकी शरीरस्थितिस्तस्य ५साध्येत तदा मुक्तेरभावः प्रसज्यते एवेति प्रसङ्गसाधनं भवदभिप्रेतव्याप्तिबलात् क्रियत इति न प्रामुक्तदोषावकाशः । द्वितीयपक्षेऽपि 'न केवलिभुक्तिः सिध्यति नाप्यनाहारौदारिकशरीरस्य चिरतरकालस्थायित्वं विरुध्यते' इति यद्दूषणमुक्तंम् तदनुक्तोपालम्भरूपम् न ह्येवं केवलिभुत्यादिकमस्माभिः साध्यते किन्तु प्रदर्शितप्रमाणात् सर्वज्ञप्रणीतागमाच्च । 'न च यदतिशय॑वत्' इत्याद्यप्य सङ्गतम् संवत्सरमात्रशरीरस्थितिसिद्धावपि केवलिनामतोऽतिशयात् प्रभूततरकालस्थित्यसिद्धेः। १० न च तावत्कालप्रकृताहारविरहप्रतिपादकमपि केवलिनां सूत्रमुपलभ्यते । यच्चं 'संयोगस्यावस्थान मात्यन्तिकं न भवति' इत्यादि तत् सिद्धमेव साधितम् । यच्च 'सुनिश्चितासंभवद्वाधकप्रमाणत्वं प्रकृताहारविरहेऽपि चिरतरमौदारिकशरीरस्थितेः प्रतिपादकस्य सूत्रस्यास्त्येव' इत्युक्तम् तदपि प्रकृताहारविरहे केवलिप्रकृतशरीरस्थितेः प्रतिपादकस्य सूत्रस्यैवाभावादयुक्तम् । यदपि 'आहारविरहातिशयप्रतिपादकं सूत्रं प्रथमतीर्थकृदादेः' तदपि तच्छद्मस्थावस्थायां न पुनः केवल्यवस्थायाम् १५असंभवद्वाधकप्रमाणत्वं चासिद्धमनुमानस्य तदाहारप्रतिपादकस्य बाधकस्य प्रदर्शितत्वात् सूत्रसमूहस्य च व्याख्याप्रज्ञप्त्याद्यङ्गेषु तद्वाधकस्योपलम्भात् । किञ्च, सुनिश्चितासंभवद्बाधकप्रमाणत्वं न प्रमाणलक्षणं तस्य ज्ञातुमशक्यत्वात् । तथाहि-बाधकप्रमाणाभावो यद्यन्यतः प्रमाणादवसीयते तर्हि तत्रापि बाधकप्रमाणाभावनिश्चयात् प्रामाण्यनिश्चयस्तदभावनिश्चयश्चान्यतोऽबाधितप्रमाणादित्यनवस्थाप्रसक्तिः। अथ बाधानुपलम्भाद् बाधकामाव२० निश्चयः, न; उत्पत्स्यमानबाधकेऽपि बाधकोत्पत्तेः प्राग बाधानुपलब्धिसंभान्न बाधकानुपलम्भाद् बाधाभावनिश्चयः । न चानिश्चितलक्षणं प्रमाण प्रमेयव्यवस्थानिबन्धनम् अतिप्रसङ्गात्। अथ संवादादसंभवद्वाधकप्रमाणत्वनिश्चयस्तर्हि संवादित्वमेव प्रमाणलक्षणमभ्युपगमार्ह किमबाधितत्वलक्षणप्रतिज्ञानेन तच्च संवादित्वमतीन्द्रियार्थविषयस्यागमस्याप्तप्रणीतत्वान्निश्चीयते तत्प्रणीतत्वनिश्चयश्चागमैकवाक्यतया व्यवस्थितस्य केवलिभुक्तिप्रतिपादकसूत्रसमूहस्य सिद्ध एवेति भवत्यागमादपि केवलिभु १-दनादिसूत्राणि ल० भां० मां० विना। २ तचेत्थम् "ते णं काले णं ते णं समए णं उसमे अरहा कोसलिए वीस पुव्वसयसहस्साई कुमारवासमझे वसित्ता णं तेवढेि पुष्वसयसहस्साई रजवासमझे वसित्ता णं तेसीई पुव्वसयसहस्साई अगारवासमझे वसित्ता णं एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआय पाउणित्ता पडिपुण्णं पुव्वसयसहस्सं सामण्णपरियागं पाउणित्ता चउरासीई पुवसयसहस्साई सव्वाउयं पालइत्ता खीणे वेयणिजाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तचे मासे पञ्चमे पक्खे माहबहुले तस्स णं माहबहुलस्स तेरसीपक्खे णं उप्पिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंकनिसणे कालगए विइकते जाव सव्वदुक्खप्पहीणे"मू० कल्पसू० सू० २२७ पृ. ४९ द्वि०। । ३ पृ०६११ पं० ११। ४ पृ. ६११५० १४-१६। ५-त इति ल. वा. बा. भां० मा. विना । ६ पृ. ६११५० १३। पृ. ६११ पं० १६। ८पृ०६११५० १७। ९पृ. ६११ पं० १९। १० पृ० ६११ पं० २१। ११ पृ. ६११ पं०९। १२ पृ. ६१३ पं० ३४ तथा टि. १५।। १३ भगवतीतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे द्वितीयशतकीयप्रथमोद्देशके स्कन्दकतापसाधिकारे सर्वज्ञस्य भगवतो महावीरस्य शरीरं वर्णयता सूत्रकारेण तस्य नित्यभोजिलमपि 'वियडभोती' इति विशेषणेन सूचितम् । तच्चेत्थम् "तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे वियडभोती या वि होत्था । तए णं समणस्स भगवओ महावीरस्स वियभोगियस्स सरीर ओरालं सिंगार कल्लाणं सिवं धनं मंगलं सस्सिरीयं अणलंकियविभूसियं xxx सिरीए अतीव अतीव उवसोभमाणे चिट्ठई"-पृ० ११७ प्र० तथा पृ० ६१३ टि. १५। १४ “यावद् भाविन्या बाधाया अभावः”-बृ. ल. टि.। १५ “अनिश्चित एव बाधकामावो मानलक्षणं भविष्यतीत्याहन चेति"-बृ. ल.टि.।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456