Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 329
________________ ७४० तृतीये काण्डे न प्रेरकत्वम् अभावस्यापि स्वरूपेण विद्यमानत्वात् । न च स्वर्गाभावः पुरुषार्थत्वेन अभ्युपगतः । न च परस्परविविक्तोभयरूपतयाऽपि कार्यतायाः प्रेरकत्वम् उभयदोषानुषङ्गात् अन्योन्यानुषक्तोभयरूपताऽभ्युपगमे परपक्षाभ्युपगमप्रसक्तिः फलानुभवपर्यायाव्यतिरिक्तस्य कारणपर्यायात्मकस्य आत्मनः फलात्मतया परिणामात् कारण-फलपर्याययोः कथंचिद् अमेदात् एकस्यैव आत्मद्रव्यस्य तत्तद्रूपतया ५विवृत्तेः फलस्य भावाभावरूपतया प्रवर्तकत्वात् अन्यथा सर्वव्यवहारोच्छेदप्रसक्तेः। अन्ये तु विधेः प्रवर्तकत्वमभ्युपपन्नाः त्रिकालशून्यो विधिरेव प्रवर्तकैकस्वभावः लिडोपदिश्यमानः कर्मणि पुरुषं नियोजयति स च प्रेषणाऽध्येषणादिव्यतिरिक्तस्तदनुगतश्च गोव्यक्तिषु गोत्ववत् । अध्येषणा सत्कारपूर्वको नियोगः प्रेपणा तु न्यत्कारपूर्वको नियोग एव पुरुषगताशयविशेषः प्रेषणा ऽध्येषणाशब्दवाच्यः । न चास्य प्रेरकत्वम् व्यभिचारात् । तथाहि-अध्येषणाऽभावेऽपि प्रेषणातः १० पुरुषप्रवृत्तिरुपलभ्यते तदभावेऽपि चाध्येपणातः इति न प्रेषणादेः पुरुषप्रवर्तकत्वम् किन्तु यथोक्तो विधिर्भाव्यनिष्ठभावकव्यापारस्वभावभावनानुगते स्वर्गादिफलसंपादके धात्वर्थे पुरुषं नियोजयति । तदुक्तम् "विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते । श्रुतः स्वर्गादिवाक्येन धात्वर्थः साध्यतां व्रजेत्” ॥ [श्लो० वा० औत्पत्तिकसू० श्लो० १४] अपरे तु मन्यन्ते धात्वर्थमात्रे फलपर्यालोचनानिरपेक्षो विधिः पुरुषं प्रेरयति स तथाभूतो लिडादिप्रत्ययाभिधेयः इति । सर्व एते अयुक्तवादिनः यतः विधिन अलन्धसत्ताकः पुरुषं प्रेरयति अविद्यमानस्य गगनकुसुमादेरिव प्रेरकत्वासंभवात् संभवे वा विद्यमानताप्रसक्तेः । न च अविद्यमानविध्यर्थं प्रेरणा २० प्रतिपादयितुं प्रभवति प्रतिपादने वा अविद्यमानविषयत्वेन केशोण्डुकादिज्ञानवद् न प्रमाणं भवेत् । न च अविद्यमानेन सह लिट्प्रत्ययस्य संबन्धः तदभावात् तस्य अवाचकत्वं स्यात् । अथ लब्धसत्ताको विधिःप्रेरकस्तदा त्रिकालशून्यता तस्य व्यावर्तेत वर्तमानकालताप्राप्तः लिट्प्रत्ययगम्यता च न स्यात् सांप्रतकाले च तस्मिन् प्रत्यक्षादेरप्यवतारात् चोदनैव धर्मे प्रमाणम् प्रमाणमेव चोदना इति न वक्तव्यं स्यात् प्रत्यक्षादेस्तत्र प्रवृत्तौ अवधारणद्वयस्यापि अनुपपत्तेः । न च सामान्याभिधायि पदं २५ विशेषाभिधायि युक्तम् औत्पत्तिकश्च शब्दस्य संबन्धः सामान्यलक्षणेन अर्थेन न विशेषेण । न च असंबद्धपदं विशेषे विज्ञानं विधातुं समर्थम् । न च अनवगतो विधिः प्रवर्तको युक्तः । किञ्च, विधेरपि निष्पाद्यत्वात् तन्निष्पत्तये पुरुषः केन प्रेर्येत इति वक्तव्यम् । यदि विध्यन्तरेण तथा तत्रापि तदन्तरेण इति अनवस्था । अथ इच्छातः तत्रासौ प्रवर्तते तर्हि सर्वत्र तथैव प्रवर्तताम् किमप्रमाणकविधिकल्पनया? अथ नित्यो विध्यर्थः पुरुषं प्रेरयतीत्यभ्युपगमस्तर्हि तस्य लिट्प्रत्ययवाच्यता ३० व्यावर्तेत लिडस्त्रिकालशून्यार्थविषयत्वात् विध्यर्थस्य तु नित्यतया वर्तमानकालत्वात् वर्तमानकालत्वे च तत्र अध्यक्षादेरपि अवतारात् प्रतीतार्थानुवादकत्वेन न तत्र प्रेरणा प्रमाणं स्यात् । किञ्च, नित्यत्वे लिडर्थस्य धर्मरूपता व्यावर्तेत कार्यरूपस्य अर्थस्य धर्मरूपताभ्युपगमात् चोदनैकगम्यस्य तु विध्यर्थस्य लिडा संबन्धानवगमात् न ततस्तत्प्रतिपत्तिः स्यात् । अथ अनवधारितनित्यसंबन्धमपि शब्द शक्तिस्वाभाव्यात् तत्पदं तमर्थमेव बोधयति तर्हि गवादिपदानामपि शब्दशक्त्यैव अनवगतसंबन्धानां ३५ स्वार्थप्रत्यायकत्वं भवेत् । अथ तेषां तथाभूतानां न तत्त्वम् तर्हि विधिपदस्यापि तन्न स्यात् अत एव न पदाद् वाक्यम् पदार्थाद् वा वाक्यार्थ एकान्ततो भिन्नः अभिन्नो वा अभ्युपगन्तव्यः अन्यथा उक्तदोषानतिवृत्तेः । किञ्च, अयं विधिर्वाक्यश्रवणानन्तरं किं प्रतिभाति, उत पुरुषव्यापारान्यथानुपपत्त्या प्रतीयते? न तावद् आद्यः पक्षः वाक्यश्रवणानन्तरं पुरुषस्यैव अध्येषणादिविशिष्टतया प्रतीतेः पुरुषश्च आत्मानमेव वाक्यात् कर्मणि नियुज्यमानमवगच्छति तदवगमाच्च इच्छयैव प्रवर्तते अतः ४०प्रवृत्तिरपि अन्यथासिद्धेति नासो लिडर्थमवगमयति । किञ्च, प्रवृत्त्यन्यथानुपपत्त्या निमित्तमात्रस्यैव अवगतिर्न विध्यर्थस्य प्रत्यक्षादेरपि हेयम् उपादेयं चार्थमवगत्य निवर्तन्ते प्रवर्तन्ते वा जन्तवः । न १ "श्रुतस्वर्गादिबाधेन"-श्लो. वा। २-ण तत्रापि वा. बा० । अत्र 'विध्यन्तरेण तदा तत्रापि' इति पाठः सुचारुः। ३-ब्दव्यक्ति-वृ. ।

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456