________________
७४०
तृतीये काण्डे
न प्रेरकत्वम् अभावस्यापि स्वरूपेण विद्यमानत्वात् । न च स्वर्गाभावः पुरुषार्थत्वेन अभ्युपगतः । न च परस्परविविक्तोभयरूपतयाऽपि कार्यतायाः प्रेरकत्वम् उभयदोषानुषङ्गात् अन्योन्यानुषक्तोभयरूपताऽभ्युपगमे परपक्षाभ्युपगमप्रसक्तिः फलानुभवपर्यायाव्यतिरिक्तस्य कारणपर्यायात्मकस्य आत्मनः फलात्मतया परिणामात् कारण-फलपर्याययोः कथंचिद् अमेदात् एकस्यैव आत्मद्रव्यस्य तत्तद्रूपतया ५विवृत्तेः फलस्य भावाभावरूपतया प्रवर्तकत्वात् अन्यथा सर्वव्यवहारोच्छेदप्रसक्तेः।
अन्ये तु विधेः प्रवर्तकत्वमभ्युपपन्नाः त्रिकालशून्यो विधिरेव प्रवर्तकैकस्वभावः लिडोपदिश्यमानः कर्मणि पुरुषं नियोजयति स च प्रेषणाऽध्येषणादिव्यतिरिक्तस्तदनुगतश्च गोव्यक्तिषु गोत्ववत् । अध्येषणा सत्कारपूर्वको नियोगः प्रेपणा तु न्यत्कारपूर्वको नियोग एव पुरुषगताशयविशेषः प्रेषणा
ऽध्येषणाशब्दवाच्यः । न चास्य प्रेरकत्वम् व्यभिचारात् । तथाहि-अध्येषणाऽभावेऽपि प्रेषणातः १० पुरुषप्रवृत्तिरुपलभ्यते तदभावेऽपि चाध्येपणातः इति न प्रेषणादेः पुरुषप्रवर्तकत्वम् किन्तु यथोक्तो विधिर्भाव्यनिष्ठभावकव्यापारस्वभावभावनानुगते स्वर्गादिफलसंपादके धात्वर्थे पुरुषं नियोजयति । तदुक्तम्
"विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते । श्रुतः स्वर्गादिवाक्येन धात्वर्थः साध्यतां व्रजेत्” ॥
[श्लो० वा० औत्पत्तिकसू० श्लो० १४] अपरे तु मन्यन्ते धात्वर्थमात्रे फलपर्यालोचनानिरपेक्षो विधिः पुरुषं प्रेरयति स तथाभूतो लिडादिप्रत्ययाभिधेयः इति ।
सर्व एते अयुक्तवादिनः यतः विधिन अलन्धसत्ताकः पुरुषं प्रेरयति अविद्यमानस्य गगनकुसुमादेरिव प्रेरकत्वासंभवात् संभवे वा विद्यमानताप्रसक्तेः । न च अविद्यमानविध्यर्थं प्रेरणा २० प्रतिपादयितुं प्रभवति प्रतिपादने वा अविद्यमानविषयत्वेन केशोण्डुकादिज्ञानवद् न प्रमाणं भवेत् ।
न च अविद्यमानेन सह लिट्प्रत्ययस्य संबन्धः तदभावात् तस्य अवाचकत्वं स्यात् । अथ लब्धसत्ताको विधिःप्रेरकस्तदा त्रिकालशून्यता तस्य व्यावर्तेत वर्तमानकालताप्राप्तः लिट्प्रत्ययगम्यता च न स्यात् सांप्रतकाले च तस्मिन् प्रत्यक्षादेरप्यवतारात् चोदनैव धर्मे प्रमाणम् प्रमाणमेव चोदना इति न वक्तव्यं स्यात् प्रत्यक्षादेस्तत्र प्रवृत्तौ अवधारणद्वयस्यापि अनुपपत्तेः । न च सामान्याभिधायि पदं २५ विशेषाभिधायि युक्तम् औत्पत्तिकश्च शब्दस्य संबन्धः सामान्यलक्षणेन अर्थेन न विशेषेण । न च
असंबद्धपदं विशेषे विज्ञानं विधातुं समर्थम् । न च अनवगतो विधिः प्रवर्तको युक्तः । किञ्च, विधेरपि निष्पाद्यत्वात् तन्निष्पत्तये पुरुषः केन प्रेर्येत इति वक्तव्यम् । यदि विध्यन्तरेण तथा तत्रापि तदन्तरेण इति अनवस्था । अथ इच्छातः तत्रासौ प्रवर्तते तर्हि सर्वत्र तथैव प्रवर्तताम् किमप्रमाणकविधिकल्पनया? अथ नित्यो विध्यर्थः पुरुषं प्रेरयतीत्यभ्युपगमस्तर्हि तस्य लिट्प्रत्ययवाच्यता ३० व्यावर्तेत लिडस्त्रिकालशून्यार्थविषयत्वात् विध्यर्थस्य तु नित्यतया वर्तमानकालत्वात् वर्तमानकालत्वे
च तत्र अध्यक्षादेरपि अवतारात् प्रतीतार्थानुवादकत्वेन न तत्र प्रेरणा प्रमाणं स्यात् । किञ्च, नित्यत्वे लिडर्थस्य धर्मरूपता व्यावर्तेत कार्यरूपस्य अर्थस्य धर्मरूपताभ्युपगमात् चोदनैकगम्यस्य तु विध्यर्थस्य लिडा संबन्धानवगमात् न ततस्तत्प्रतिपत्तिः स्यात् । अथ अनवधारितनित्यसंबन्धमपि शब्द
शक्तिस्वाभाव्यात् तत्पदं तमर्थमेव बोधयति तर्हि गवादिपदानामपि शब्दशक्त्यैव अनवगतसंबन्धानां ३५ स्वार्थप्रत्यायकत्वं भवेत् । अथ तेषां तथाभूतानां न तत्त्वम् तर्हि विधिपदस्यापि तन्न स्यात् अत एव न पदाद् वाक्यम् पदार्थाद् वा वाक्यार्थ एकान्ततो भिन्नः अभिन्नो वा अभ्युपगन्तव्यः अन्यथा उक्तदोषानतिवृत्तेः । किञ्च, अयं विधिर्वाक्यश्रवणानन्तरं किं प्रतिभाति, उत पुरुषव्यापारान्यथानुपपत्त्या प्रतीयते? न तावद् आद्यः पक्षः वाक्यश्रवणानन्तरं पुरुषस्यैव अध्येषणादिविशिष्टतया प्रतीतेः पुरुषश्च आत्मानमेव वाक्यात् कर्मणि नियुज्यमानमवगच्छति तदवगमाच्च इच्छयैव प्रवर्तते अतः ४०प्रवृत्तिरपि अन्यथासिद्धेति नासो लिडर्थमवगमयति । किञ्च, प्रवृत्त्यन्यथानुपपत्त्या निमित्तमात्रस्यैव अवगतिर्न विध्यर्थस्य प्रत्यक्षादेरपि हेयम् उपादेयं चार्थमवगत्य निवर्तन्ते प्रवर्तन्ते वा जन्तवः । न
१ "श्रुतस्वर्गादिबाधेन"-श्लो. वा। २-ण तत्रापि वा. बा० । अत्र 'विध्यन्तरेण तदा तत्रापि' इति पाठः सुचारुः। ३-ब्दव्यक्ति-वृ. ।