________________
२०
ज्ञेयमीमांसा ।
७३९ यैस्तु पूर्वपदानुरञ्जितं पदमेव वाक्यम् पदार्थ एव पदार्थान्तरविशेषितो वाक्यार्थोऽभ्युपगतः । तथाहि-'दण्डी' 'छत्री' इत्यादिव्यपदेशं यथा पुरुष एव समासादयति नान्यस्तद्व्यतिरिक्तः तथा 'अपाक्षीत्' 'पचति' 'पक्ष्यति' इत्याद्यतीतकालाद्यवच्छिन्नः क्रियाविशिष्टश्च देवदत्त एव प्रतीयते'अपाक्षीत्' इत्यादिशब्दानां देवदत्तशब्देन सामानाधिकरण्यात्-न तु तद्व्यतिरिक्तोऽर्थः। अथ यद्यत्र कालाद्यवच्छिन्नपुरुष एव प्रतीयते तदा 'अग्निहोत्रं जहयात' 'ग्रामं गच्छ' 'स्वाध्यायः कर्तव्यः' इति ५ लिट्-लोट-कृत्यप्रयोगेषु कस्यार्थस्य प्रतीतिः? अत्रापि कर्मणि नियुक्तः क्रियाविशिष्टोऽध्येषणादि विशिष्टश्च देवदत्त एव प्रतीयते केवलं वर्तमानादिः कालो न विशेषणत्वेन अत्र अवतिष्ठते । अथ यदि नात्रार्थातिरेकावगतिर्भावसंपादने कथं पुरुषः प्रवर्तते? यथा हि देवदत्तः 'पचति' इत्यादिवाक्यान्न प्रवर्तते तथा 'जुहुयात्' इत्यस्मादपि नैव प्रवर्तेत प्रवृत्तिनिमित्तस्य अनवबोधात् , असदेतत्; 'जुहुयात्' इत्यादिवाक्यजनितविज्ञानस्यैव प्रवर्तकत्वात् प्रवृत्तेस्तद्भावभावित्वेन उपलम्भात् १० एतद्वाक्यसमुत्थं ज्ञानं पुरुषं स्वर्गादिसाधने नियोजयद उपलभ्यते न 'पचति' आदिवाक्यसमुत्थम् । तथाहि-विध्यादिवाक्यजनितज्ञानानन्तरमिच्छा तदनन्तरं प्रयत्नः तदनन्तरं च पुरुषस्य वर्गादिफलार्थः परिस्पन्दः ततोऽपि फलपर्यन्तात् स्वर्गफलावाप्तिः इत्यभिधानात् । तेऽपि अयुक्तिकारिणः एकान्तपक्षे विशेषण-विशेष्ययोरत्यन्तभेदे अभेदे वा विशेषणानुरागस्य पद-पदार्थेष्वसंभवात् वाक्यार्थकल्पनादेरनुपपत्तेः अत एव 'अपाक्षीद् देवदत्तः' इत्यादौ न कालक्रियाविशिष्टपुरुषप्रतिपत्तिः १५ क्रियादेः पुरुषाद् भेदे संबन्धासिद्धितो व्यवच्छेदकत्वानुपपत्तेः अभेदेऽपि एकस्य तात्त्विकविशेषणविशेष्यरूपताऽसंगतेः अन्यथा अतिप्रसङ्गात् कल्पनारचितस्य तद्रूपत्वस्य सर्वत्राविशेषात् विशिष्टप्रत्ययोत्पत्तेश्च अन्यनिमित्तत्वात विरोधादिदोषस्य च तत्र प्रागेव प्रतिविहितत्वात् । एतेन लिडादियुतवाक्यजनितविज्ञानस्य प्रवर्तकत्वमेकान्तवादिप्रकल्पितं प्रतिक्षिप्तम् तद्भावभावित्वस्य अन्यथासिद्धत्वप्रतिपादनात् । यदपि अत्र
"संसर्गमोहितधियो विविक्तं धातुगोचरात् ।
भावात्मानं न पश्यन्ति ये तेभ्यः स विविच्यते" ॥ [ इत्यादिना ग्रन्थसंदर्भेण प्रतिपादयन्ति-भाव एव साध्यतया लिडादिभिरभिधीयते न कर्ता "पूर्वापरीभूतं भावमाख्यातमाचष्टे" [
] इति वचनाद् भाव एव च कालत्रयशून्यः साध्यतया प्रतीयमानो विधिरिति अभिधीयते स च आत्मलाभाय प्रेरयन् पुरुषं लिडर्थः' इति, तदपि२५ अनुपपन्नम् ; भावस्य फलसापेक्षत्व-निरपेक्षत्वविकल्पद्वयेऽपि साध्यत्वानुपपत्तेः । न तावत् फलनिरपेक्षो भाव आत्मविषयसाध्यतायां पुरुषं प्रेरयितुं समर्थः, प्रेक्षापूर्वकारिणः फलविकले कर्मणि कुतश्चिदप्रवृत्तेः । अपि च, असौ भावः स्वात्मनिष्पादनाय पुरुषं प्रेरयन् निष्पन्नः अनिष्पन्नो वा प्रेरयेत् ? न तावद् निष्पन्नः तत्सद्भावस्य सिद्धत्वात् । नापि अनिष्पन्नः अविद्यमानस्य अतिप्रसङ्गतः प्रेरकत्वायोगात् । न च सामान्याकारेण विद्यमानो विशेषाकारसंपादनाय भावः पुरुषं प्रेरयतीति ३० वक्तव्यम् सामान्याकारेण विद्यमानतया तस्य साध्यत्वानुपपत्तेः विद्यमानस्य च वर्तमानत्वेन लिडर्थत्वानुपपत्तेः त्रिकालशून्यस्य लिडर्थत्वाभ्युपगमाद विशेषाकारतायाश्च संपाद्यत्वेऽपि प्रेरकत्वानुपपत्तिरित्युक्तम् । अथ फलापेक्षो भावः स्वात्मसंपादनाय पुरुषं प्रेरयतीत्यभ्युपगमस्तर्हि फलस्यैव प्रेरकत्वम् न भावस्य स्यात् तथाभ्युपगमेऽपि दोष एव-तत्रापि विद्यमानाविद्यमानविकल्पद्वयानतिवृत्तेः । तथाहि-यद्यपि सर्वाः क्रियाः प्रयोजनवत्त्वेन व्याप्ता इति तदेव भावसंपादने पुरुषं प्रेरयति ३५ तथापि तत् एकान्ततो विद्यमानं कथं पुरुषं प्रेरयेत् ? न हि यद् यस्यास्ति स तदर्थमेव लोके प्रवर्तमानो दृष्टः प्रयोजनमनुद्दिश्य प्रेरकसद्भावेऽपि कस्यचित् प्रवृत्त्यनुपलब्धेः। न च प्रयोजनस्य आत्मसंबन्धितामुत्पादयितुमसौ प्रवर्तते, आत्मसंबन्धिताया अपि विद्यमानत्वेन प्रवृत्तिविषयत्वानुपपत्तेः। किञ्च, दुःखविरहसुखस्वभावलक्षणं प्रयोजनमुपजायमानमात्मसंबन्धितयैव उपजायत इति न तदथोऽपि प्रयासः सफलः। न च प्रयोजनमविद्यमानं पुरुष प्रेरयति अविद्यमानस्य कारकत्वायोगात् ।४० कार्यतया तत् तत्र प्रेरयतीति चेत, नन साऽपि यदि भावरूपान तर्हि विद्यमानत्वात् पुरुषप्रवर्तिका भवेत् । न च विद्यमानस्य कार्यरूपता संभवति तस्य कार्यताविरोधात् । अथ अभावरूपा तथापि १-वर्तेत वृ०। २-वर्तेत बृ० । ३-वर्तते वा० बा०। ४ अयुक्तका-वा० बा० । ५-सुख भा-भां० ।
१५स०प्र०