________________
७३८
तृतीये काण्डेन वा क्वचित् भेदनिबन्धनत्वात् प्रवृत्तेः सामान्यस्य अनर्थक्रियाकारितया च प्रवृत्तिनिबन्धनत्वायोगात् । अथापि स्यात् यदाऽयं प्रतिपत्ता वाक्यमश्रुतपूर्व शृणोति तदा पदानां संकेतकालानुभतानामर्थ सामान्यलक्षणमेव प्रतिपद्यते या तु वाक्यार्थप्रतिपत्तिः सा अपेक्षा-सन्निधानाभ्यां विशेषणविशेष्यभावात् पदार्थप्रतिपत्तिनिबन्धना न पुनस्ततो वाक्यात् तथाविधस्य तस्य स्वार्थेन सह संब५न्धाप्रतिपत्तेः वाक्यमेव च प्रवृत्ति-निवृत्तिव्यवहारक्षमम् न पदम् तस्य अनर्थक्रियाकारिसामान्यप्रतिपादकत्वेनाप्रवृत्त्यङ्गत्वात् । अत एव न विवक्षाप्रतिभासिनमर्थ प्रतिपादयन्तः शब्दा अनुमानतामासादयन्ति अगृहीतप्रतिबन्धादपि वाक्यविशेषाद् यथोक्तन्यायतो वाक्यार्थप्रतिपत्तेः । अनेनैव अमिप्रायेण सौगता वाक्यगतां चिन्तामनाहत्य पदमेव अनुमानेऽन्तर्भावितवन्तः । उक्तं च मीमांसकैः
"वाक्यार्थे तु पदार्थेभ्यः संबन्धानुगमाद् ऋते । बुद्धिरुत्पद्यते तस्माद् भिन्ना साऽप्यक्षबुद्धिवत्" ॥
[ श्लो० वा० शब्दप० श्लो० १०९] तथा, "वाक्येष्वदृष्टेष्वपि सार्थकेषु पदार्थचिन्मात्रतया प्रतीतिम् ।। दृष्ट्वानुमानव्यतिरेकभीताः क्लिष्टाः पदाभेदविचारणायाम्" ॥
[श्लो० वा० शब्दप० श्लो० १११ ] इति, १५असदेतत् ; एवंकल्पनायां पदार्थानामपि वाक्यार्थप्रतिपत्तिहेतुत्वासंभवात् । तथाहि-'घटः पटः कुम्भः' इत्यादिपदेभ्यः यथा अन्योन्याननुषक्त स्वतन्त्रसामान्यात्मकार्थप्रतिपत्तिस्तथा संबद्धपदसमूहश्रवणादपि किं न तथाभूतसामान्यप्रतिपत्तिर्भवेत् ? न हि ततः सामान्यमात्राधिगमे तत्परित्यागतो विशिष्टार्थप्रतिपत्तौ निमित्तमस्ति न वापेक्षा-सन्निधानादिकं पदार्थानां तत्प्रतिपत्तौ निमित्तम पदा
र्थस्य पदार्थान्तरं प्रत्युत्पत्तौ प्रतिपत्तौ वा अपेक्षादेरयोगात् तस्य सामान्यात्मकत्वेन उत्पत्तेरसंभ२० वात् स्वपदेभ्य एव प्रतिपत्तेः तत्रापि पदार्थान्तरापेक्षाद्यनुपपत्तेः । अर्थशक्तित एव ततो विशेषप्रति
पत्तिरिति चेत् तर्हि पदार्थानामेकार्थसंभवा प्रतिपत्तिर्यस्य तस्यापि ततस्तत्प्रतिपत्तिर्भवेत् । न च सामान्यत्यागे किश्चिन्निबन्धनम् बाधकाभावात् सति अर्थित्वे उभयप्रतिपत्ति-प्रवृत्ती स्याताम् । न च वाक्यार्थप्रत्यय एव बाधकः तेन तस्य विरोधाभावात् सामान्य-विशेषयोः साहचर्यात् सामान्यप्रत्ययस्य च विशेषप्रतिपत्ति प्रति निमित्तत्वाभ्युपगमात् निमित्तस्य च निमित्तिना अबाध्यत्वात् २५ अन्यथा तस्य तन्निमित्तत्वायोगात् । अथ प्रागपि एवमयं व्यत्पादितः-यत्र पदार्थानामेकढव्यसंभव स्तत्र पदार्थसामान्यत्यागाद् विशेषः प्रतिपत्तव्यः यथा नीलोत्पलादी, नन्वेवं सर्ववाक्यानि अस्य व्युत्पादितान्येव भवन्ति । तथाहि-यः कश्चित् संभवदेकद्रव्यार्थनिवेशः पदसमूहः स संकेतसमया. वगतसामान्यात्मकावयवार्थपरित्यागतस्तेषामेव विशेषणविशेष्यभावेन विशिष्टार्थगोचरःप्रतिपत्तव्यः, यथा 'नीलोत्पलं पश्य' इत्यादिपदसंघातः, तथा चायमपूर्ववाक्यात्मकः पदसमुदायः इति संकेतमनु३० सृत्य यदा ततस्तथाभूतमर्थ प्रत्येति तदा कथं न विशिष्टार्थवाचकं वाक्यम् ? अनेनैव च क्रमेण
शब्दविदां समयव्यवहार उपलभ्यते । यथा 'धात्वादिः क्रियादिवचनः कादिवचनश्च लडादिः' इति समयपूर्वकं प्रकृति-प्रत्ययौ प्रत्ययार्थ सह ब्रूत इति व्युत्पादितोऽनर्थक्रियाकारित्वेन सामान्यमात्रस्य विशेषनिरपेक्षस्य प्रतिपादयितुमनिष्टेः तत्परित्यागेन व्यवहारकाले विशेषमवगच्छति व्यवहारी । नच प्रकृति-प्रत्ययार्थावेव अत्र पदार्थ प्रतिपादयतः न पदमिति मन्तव्यम्,
"अशाब्दे वापि वाक्यार्थे न पदार्थेष्वशाब्दता।
वाक्यार्थस्येव नैतेषां निमित्तान्तरसंभवः" ॥ [श्लो० वा. वाक्याधि० श्लो० २३०] इत्यस्य विरोधप्रसक्तेः । न च वाक्यस्य वाक्यार्थे संकेतकरणे अनुमानात् शाब्दस्य अविशेषप्रतिपत्तिः, विशेषस्य प्राक् प्रतिपादितत्वात् केवलस्य च पदस्य प्रयोगानर्हत्वात् वाक्यस्य तु प्रयोगा. हस्य सामान्यानभिधायकत्वात् कथं सामान्यं शब्दार्थः स्यात् ?
१ लगडादिः आ० हा० वि० । लगुडादिः बृ० । नियोगखरूपप्रतिपादन-निरसनपरा अष्टसहस्रीगता चर्चाऽत्रा. नुसंधेया-पृ. ५५० १७-पृ.१०।