________________
ज्ञेयमीमांसा।
न्यायानुगतैव चैतन्यपरिणतेः स्वात्मनि स्वसंवेदनाध्यक्षसिद्धत्वात् अन्यत्र तु तत्प्रभवकार्यानुमेयत्वात् आगमस्य च तत्प्रतिपादकस्य प्रदर्शितत्वात् । निर्जरा तु ज्ञानावरणीयादेः कर्मणः केवलज्ञानसद्भावान्यथानुपपत्त्या अनुमानतः । “तपसा निर्जरा च" [ तत्त्वार्थ०९-३] इति आप्तागमतश्च अस्सदादिभिः प्रतीयते सर्वकर्मनिर्जरावद्भिस्तु स्वसंवेदनाध्यक्षतः परमपदप्राप्तिहेतोः सम्यगशानादेः खसंविदितत्वात् सर्वकर्मापगमाविर्भूतचैतन्यसुखस्वभावात्मस्वरूपस्य मोक्षस्यापि अनन्तरोक्तन्यायतः५ प्रतिपत्तिः । तथाहि-'यदुत्कर्षतारतम्याद् यस्य अपचयतारतम्यं तत्प्रकर्षनिष्ठागमने भवति तस्य आत्यन्तिकः क्षयः, यथा उष्णस्पर्शतारतम्यात् शीतस्पर्शस्य, भवति च ज्ञान-वैराग्यादेरुत्कर्षतारतम्याद् अशान-रागादेरपचयतारतम्यम्' इति अनुमानतः भगवदागमतश्च अस्मदादेरपवर्गसिद्धिः भगवतां तु केवलाध्यक्षतः इति जीवाऽजीवपदार्थद्वयाऽव्यतिरिक्तास्रवादिप्रतिपत्तिर्मुमुक्षुभिर्विधेया। तथाहि-मोक्षार्थिभिरवश्यं मोक्षः प्रमाणतः प्रतिपत्तव्यः अन्यथा तदुपायप्रवृत्त्यनुपपत्तेः न हि १० अनवगतसस्यादिसद्भावस्तदर्थी तत्प्राप्त्युपाये कृष्यादौ प्रवर्तितुमुत्सहते तदुपायप्रवृत्तिरपि उपायखरूपसंवर-निर्जरालक्षणपदार्थद्वयप्रतिपत्तिमन्तरेण अनुपपन्ना अज्ञातस्य प्रेक्षापूर्वकारिप्रवृत्तिविषयत्वानुपपत्तेः । तथाहि-अशेषकर्मवियोगलक्षणो मोक्षः संवर-निर्जराफलः तदभावे अनुपपद्यमानस्तत्प्रवृत्ति तज्ज्ञानपूर्विकामाक्षिपति । न हि अभिनवकर्मोत्पत्तौ प्राक्तनाशेषकर्मसंयोगाभावो भावे वा आत्यन्तिकः तद्वियोगः संभवतीति संवर-निर्जराज्ञानं मुमुक्षुभिरवश्यं विधातव्यम् । कर्म-१५ बन्धोऽपि संवर-निर्जरानिवर्तनीयः संसारसरित्स्रोतःप्रवर्तको ज्ञातव्यः अज्ञातस्य उपायनिवर्तनीयत्वायोगात् । अयमपि आस्रवफलत्वेन ज्ञातव्यः अन्यथा तदनुत्पत्तेः । यथा हि घटादेः स्नेहाभावे रजःसंबन्धो न घटते तथा कषायस्नेहाभावे नात्मनः कर्मरजःसंबन्ध उपपत्तिमान् । आस्रवोऽपि बन्धहेतुर्जीवाऽजीवकारणतया ज्ञातव्यः अन्यथा कारणस्य तस्य असंभवात् । न हि अज्ञातकारणं तत्कार्यतया शाल्यकुरादिवज् ज्ञातुं शक्यम् । न च जीवाजीवबहिर्भूतमास्रवस्य कारणं भवति २० तद्ध्यतिरेकेण पदार्थान्तरस्याऽसत्त्वात् जीवाजीवयोश्च परिणामित्वे सति आस्रवादिहेतुत्वम् एकान्तनित्यस्य अनित्यस्य वार्थक्रियाऽनिर्वर्तकत्वेन असत्त्वात् । तस्मात् परिणामिजीवाजीवपदार्थद्वयाव्यतिरिक्तौ कथंचित् सकारणौ हेयोपादेयरूपौ बन्ध-मोक्षौ प्रतिपत्तव्याविति सप्त पदार्थाः प्रमाणतोऽभ्युपगन्तव्याः।
यथा च संवर-निर्जरयोर्मोक्षहेतुता आस्रवस्य च बन्धनिमित्तत्वम् तथा आगमात् प्रति-२५ पत्तव्यम् तस्य च जीवाजीवादिलक्षणे दृष्टविषये वस्तुतत्त्वे सर्वदाऽविसंवादात् अदृष्टविषयेऽपि एकवाक्यतया प्रवर्तमानस्य प्रामाण्यं प्रतिपत्तव्यम् । न च वक्रधीनत्वात् तस्य अप्रामाण्यम् वक्रधीनत्वप्रमाणत्वयोर्विरोधाभावात् वक्रधीनस्यापि प्रत्यक्षस्य प्रामाण्योपलब्धेः । न च अक्षजत्वाद वस्तुप्रतिबद्धत्वेन तत्र प्रामाण्यम् न शाब्दस्य विपर्ययादिति वक्तव्यम् शाब्दस्य अत एव प्रमाणान्तरत्वो. पपत्तेः अन्यथा अनुमानादविशेषप्रसङ्गात् । तथाहि-गुणवद्वक्तप्रयुक्तशब्दप्रभवत्वादेव शाब्दम् ३० अनुमानज्ञानाद् विशिष्यते अन्यथा बाह्यार्थप्रतिबन्धस्य अत्रापि सद्भावादु नानुमानादस्य विशेषः स्यात् । यदा च परोक्षेऽपि विषये अस्य प्रामाण्यमुक्तन्यायात् तदा गुणवद्वक्तप्रयुक्तत्वेन अस्य प्रामाण्यम् अतश्च गुणवद्वक्तप्रयुक्तत्वमितीतरेतराश्रयदोषोऽपि नात्र अवकाशं लभते यथोक्तसंवादाद् अस्य प्रामाण्यनिश्चये । 'कुतोऽयमस्यात्र संवादः' इति अपेक्षायाम् 'आप्तप्रणीतत्वात्' इत्यवगमो न पुनः प्रथममेव तत्प्रणीतत्वनिश्चयाद् अस्य अर्थप्रतिपादकत्वम् प्रतिबन्धनिश्चयाद् अनुमान-३५ स्येव नापि दृष्टविषयाविसंवादिवाक्यैकवाक्यतां विरहय्य अदृष्टार्थवाक्यैकदेशस्य अन्यतः कुतश्चित् प्राक्संवादित्वनिबन्धनस्य प्रामाण्यस्य निश्चयः अभ्यासावस्थायां तु आप्तप्रणीतत्वनिश्चयात् प्रवृत्तिरदृष्टार्थवाक्यान्न वार्यत इति कुत इतरेतराश्रयावकाशः?
[ऐकान्तिकं वाच्यस्वरूपं निरसितुं लडादेरर्थविचारपक्षाः ] एकान्तवादिवाक्यात् तु दृष्टार्थेऽपि विसंवादिनः सर्वथा अप्रवृत्तिरेव निश्चितविसंवादाङ्गुल्य ४० ग्रहस्तियूथशतप्रतिपादकवाक्यादिवद् न हि एकान्तवादिवचनानां वाच्यं संभवि इत्युक्तम् । यतः सामान्यं वा तद्वाच्यं भवेत् , विशेषो वा, उभयम् , अनुभयं वेति विकल्पाः । { न तावत् सामान्यम् तस्येतरव्यावृत्तप्रतिनियतैकवस्तुरूपत्वायोगात् शब्दवाच्यत्वे घटाद्यानयनाय प्रेरितः सर्वत्र प्रवर्तेत