________________
७३६
तृतीये काण्डेध्यानमासादयति । प्रायः पूर्व विदेव तदनन्तरं ध्यानान्तरे वर्तमानः क्षायिकक्षान-दर्शन-चारित्र-वी. र्यातिशयसंपत्समन्वितो भगवान् केवली जायत इति स च अत्यन्तापुनर्भवसंपदङ्गनासमालिङ्गिततनुः कृतकृत्यः अचिन्त्यज्ञानाद्यैश्वर्यमाहात्म्यातिशयपरमभक्तिनम्रामरेश्वरादिवन्द्यचरणः अन्तर्मुहूर्तम् देशोनां वा पूर्वकोटिं भवोपग्राहिकर्मवशाद् विहरन् यदा अन्तर्मुहूर्तपरिशेषायुष्कस्तत्तुल्यस्थितिनाम५गोत्र वेदनीयश्च भवति तदा मनो-वार-बादरकाययोगं निरुध्य सूक्ष्मकाययोगोपगः सूक्ष्मक्रियाऽप्र. तिपाति शुक्लध्यानं तृतीयमध्यास्ते यदा पुनरन्तर्मुहूर्तस्थितिकायुष्ककर्माधिकतरस्थितिशेषकर्मत्रयो भवत्यसौ तदा आयुष्ककर्मस्थितिसमानस्थितिशेषकर्मसंपादनार्थ समुद्धातमाश्रित्य दण्ड-कपाटमन्थलोकापूरणानि स्वात्मप्रदेशविसरणतश्चतुर्भिः समयैर्विधाय तावद्भिरेव तैः पुनस्तान् उपसंहृत्य स्वप्रदेशविश(स)रणसमीकृतभवोपग्राहिकर्मा स्वशरीरपरिमाणो भूत्वा ततः तृतीयं शुक्लध्यानभेदं परिस१०मापय्य पुनश्चतुर्थ शुक्लध्यानमारभते तत् पुनर्विगतप्राणापानप्रचाराशेषकाय-वार-मनोयोगसर्वदेश
परिस्पन्दत्वाद् विगतक्रियानिवर्ति इत्युच्यते तत्र च सर्वबन्धास्रवनिरोधः अशेषकर्मपरिक्षयसामोपपत्तेः तदेव च निश्शेषभवदुःखविटपिदावानलकल्पं साक्षाद् मोक्षकारणम् तद्ध्यानवांश्च अयोगिकेघली निःशेषितमलकलङ्कोऽवाप्तशुद्धनिजस्वभाव ऊर्ध्वगतिपरिणामस्वाभाव्यात् निवातप्रदेशप्रदीपशि
खावद ऊध्र्व गच्छति एकसमयेन आलोकान्तात् विनिमुक्ताशेषबन्धनस्य प्राप्तनिजस्वरूपस्य आत्मनो १५ लोकान्ते अवस्थानं मोक्षः “बन्धवियोगो मोक्षः" [ ] इति वचनात् ।
अत्र च जीवाजीवयोः आगमादिव अध्यक्षाऽनुमानतोऽपि सिद्धिः प्रदर्शिता आस्रवस्यापि तथैव, कर्मयोग्यपुद्गलात्मप्रदेशानां परस्परानुप्रवेशस्वभावस्य तु बन्धस्य अनुपलब्धावपि अध्यक्षतः अनुमानात् प्रतिपत्तिः । तथाहि-अशेषज्ञेयज्ञानस्वभावस्य आत्मनः स्वविषयेऽप्रवृत्तिर्विशिष्टद्रव्यसंवम्धनिमित्ता, पीतहापूरपुरुषस्वविषयज्ञानाऽप्रवृत्तिवत्, यञ्च ज्ञानस्य स्खविषयप्रतिबन्धकं द्रव्यं तद् २० ज्ञानावरणादि वस्तुसत् पुद्गलरूपं कर्म, आत्मनश्च सकलशेयज्ञानस्वभावता स्वविषयाप्रवृत्तिश्च छद्म
स्थावस्थायां प्राक् प्रदर्शितैव । औदारिकाद्यशेषशरीरनिबन्धनस्य अनेकाऽवान्तरभेदभिन्नाष्टविधकर्मात्मकस्य कार्मणशरीरस्य सर्वज्ञप्रणीतागमात् सिद्धेः कथं न ततो बन्धसिद्धिः ? न च कार्मणशरीरस्य मूर्तिमत्त्वात् सत्त्वे उपलब्धिः स्यात् अनुपलम्भाच्च तद् असत् इति वाच्यम् यतः न सर्व मूर्तिमद् उपलभ्यते सौम्यात् पिशाचादिशरीरस्येव औदारिकादिशरीरनिमित्ततयोपकल्पितस्य अनुपल२५म्मेऽपि अपह्नोतुमशक्यत्वात् । कथमनुपलभ्यमानस्य अस्तित्वं तस्येति चेत्, न; आप्तवादात् तस्य सिद्धेः । न च तदभाव औदारिकाद्यपूर्वशरीरयोग आत्मनः स्यात् । न हि रजवाकाशयोरिव मूर्तामूर्त योर्बन्धविशेषयोगः कार्मणशरीराविनाभूतश्चामुक्तेः सदात्मा इति तस्य कथंचिद् मूर्तत्वम् ततश्च औदारिकादिशरीरसंबन्धो रजु-घटयोरिव उपपत्तिमान् । अथ सूक्ष्मशरीरसिद्धावपि आस्रवनिरपेक्षाः परमाणवो वाय्वादिसूक्ष्मद्रव्यनिमित्तपरमाणुद्रव्यवद् भविष्यन्तीति न बन्धहेत्वास्रवसिद्धिः, नैतत्; ३० क्रोडीकृतचैतन्यप्रयोजनस्य अचेतनस्य आस्रवनिरपेक्षपरमाणुहेतुत्वानुपपत्तेः न हि अभ्यन्तरीकृतचैतन्यप्रयोजनस्य आकाशद्रव्यादेार-बुद्धि-शरीरारम्भादिनिरपेक्षपरमाणुजन्यता परस्यापि सिद्धा अतः तृष्णानुबद्धस्य चैतन्यस्य मनो-वाक्-कायव्यापारवतः कर्मवर्गणापुद्गलसचिवस्य कार्मणशरीरा. नुविद्धस्य तथाविधतच्छरीरनिर्वर्तकत्वम् अन्यथा तथाविधकारणप्रभवतच्छरीराभावे आत्मनो बन्धा. भावतः संसारिसत्त्वविकलं जगत् स्यादेव । तीर्थान्तरीयैरपि आतिवाहिकादिशब्दवाच्यतया अभ्युप३५ गम्यमानं कार्मणशरीरं सकलदृष्टपदार्थाविसंवाद्यहंदुक्तागमप्रतिपाद्यमवश्यमभ्युपगन्तव्यम् अन्यथा
सकलदृष्टाऽदृष्टव्यवहारोच्छेदप्रसङ्गः । न च अचेतनस्य तस्य कथं भवान्तरप्रापकत्वम् ? चेतनाधि. प्ठितस्य अचेतनस्यापि देवदत्तव्यापारप्रयुक्तदेशान्तरप्रापणशक्तिमन्नौद्रव्यवद अचेतनस्यापि तत्प्रापक. त्वाविरोधात् । न च सदा चैतन्यानुषक्तस्य तस्य अचेतनव्यपदेशयोगितेति प्राक प्रतिपादितत्वात् । तदेवम् अनुमानाऽऽगमाभ्यां बन्धस्य प्रसिद्धिः । संवरस्य तु अध्यक्षाऽनुमानाऽऽगमप्रसिद्धता
१ "कृत्स्नकर्मक्षयो मोक्षः" तत्त्वार्थसू० अ० १०-३। २-णुवृत्त्यवद भ-वृ. आ. हा० वि० ।
३-तस्यपि देव-बृ० आ० हा० वि०।-तस्यापि चेतस्यापि देव-वा.बा. । पुरस्ताद 'अचेतनस्यापि' इति पदस्य सत्त्वेन वाक्यसामजस्याय चेतनाधिष्ठितस्य देवदत्तव्यापारप्रयुक्तदेशान्तरप्रापणशक्तिमत्रौद्रव्यवद् भचेतनस्यापि तत्प्रापकत्वाविरोधात' इत्येव पाठः कल्पयितुं समुचितः प्रतिभाति ।