________________
ज्ञेयमीमांसा । श्रेयस्कारिणी' इत्यादिरागहेतुविरोधानुचिन्तनं वैराग्यविचयम् । प्रेत्य स्वकृतकर्मफलोपभोगार्थ पुनः प्रादुर्भावो भवः स च अरघट्टघटीयन्त्रवद् मूत्र-पुरीषाऽन्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटरादिषु अजस्रमावर्तनम् न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतः चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यते' इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम् । 'भवन-नग-सरित्-समुद्रभूरुहादयः पृथिवीव्यवस्थिताः साऽपि घनोदधि-घनवात-तनुवातप्रतिष्ठा तेऽपि आकाशप्रतिष्ठाः५ तदपि खात्मप्रतिष्ठम् तत्र अधोमुखमल्लकसंस्थानं वर्णयन्ति अधोलोकम्' इत्यादि च संस्थानानुचिन्तनं संस्थानविचयम् । अतीन्द्रियत्वाद् हेतूदाहरणादिसद्भावेऽपि बुद्ध्यतिशयशक्तिविकलैः परलोक-बन्ध-मोक्ष-धर्माऽधर्मादिभावेषु अत्यन्त दुःखबोधेषु आप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेति आशाविचयम् । आगमविषयविप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकागमस्य कष-च्छेदतापशुद्धितः समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । एतच्च सर्व धर्मध्यानम् श्रेयोहेतुत्वात् १० एतच्च संवररूपम् अशुभास्रवप्रत्यनीकत्वात् "आस्रवनिरोधः संवरः" [ तस्वार्थ० ९-१] इति वचनात् । गुप्ति-समिति-धर्मानुप्रेक्षादीनां चास्रवप्रतिबन्धकारित्वात् । अयमपि जीवाऽजीवाभ्यां कथंचिदभिन्नः भेदाभेदैकान्ते दोषोपपत्तेः । न चायमेकान्तवादिनां घटते मिथ्याशानाद् मिथ्याज्ञानस्य निरोधानुपपत्तेः । संवरश्च द्विविधः सर्व-देशभेदात् । पीत-पद्मलेश्याबलाधानमप्रमत्तसंयतस्य अन्तर्मुहूर्तकालप्रमाणं स्वर्गसुखनिवन्धनमेतद् धर्मध्यानं प्रतिपत्तव्यम् ।
__ कषायदोषमलापगमात् शुचित्वम् तदनुषङ्गात् शुक्लं ध्यानम् । तच्च द्विविधम्-शुक्ल-परमशुक्लभेदात् । तत्र पृथक्त्ववितर्कवीचारम् एकत्ववितर्कावीचारं चेति शुक्लं द्विधा । परमशुक्लमपि सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिर्ति चेति द्विधा । बाह्याध्यात्मिकभेदाच्च एतदपि द्विविधम्-गात्र-दृष्टिपरिस्पन्दाभावः जृम्भोद्गारक्षवथुविरहः अनभिव्यक्तप्राणाऽपानप्रचारत्वमित्यादिगुणयोगि बाह्यम् परेषामनुमेयम् आत्मनश्च स्वसंवेद्यम्-आध्यात्मिकं तु पृथग्भावः पृथक्त्वम्-नानात्वम्, वितर्कः-श्रुत-२० ज्ञानम्-द्वादशाङ्गम् , वीचारः-अर्थ-व्यञ्जन-योगसंक्रान्तिः-व्यञ्जनम्-अभिधानम् तद्विषयोऽर्थः मनोवाक्-कायलक्षणो योगः संक्रान्तिः परस्परतः परिवर्तनम् पृथक्त्वेन वितर्कस्य अर्थ-व्यञ्जन-योगेषु संक्रान्तिर्वीचारः यस्मिन् अस्ति तत् पृथक्त्ववितर्कवीचारम् । तथाहि-असावुत्तमसंहननो भावयति विजृम्भितपुरुषकारवीर्यसामर्थ्यः संहृताशेषचित्तव्याक्षेपः कर्मप्रकृतीः स्थित्यनुभागादिभिर्हासयन् महासंवरसामर्थ्यतो मोहनीयमचिन्त्यसामर्थ्यमशेषमुपशमयन् क्षपयन् वा द्रव्यपरमाणुम् भावपर-२५ माणुं चैकमवलम्ब्य द्रव्य-पर्यायार्थाद् व्यञ्जनम् व्यञ्जनाद् वा अर्थम् योगाद् योगान्तरम् व्यञ्जनाद् व्यञ्जनान्तरं च संक्रामन् पृथक्त्ववितर्कवीचारं शुक्लतरलेश्यमुपशमक-क्षपकगुणस्थानभूमिकमन्तमुहूर्ता(द्धं) क्षायोपशमिकभूमिकं प्रायः पूर्वधरनिषेव्यमाश्रितार्थ व्यञ्जनयोगसंक्रमणं श्रेणिभेदात् स्वर्गापवर्गफलप्रदमाद्यं शुक्लध्यानमवलम्बते एतच्च निर्जरात्मकम् आत्मस्थितकर्मक्षयकारणत्वात् तस्याः “तपसा निर्जरा च" [ तत्त्वार्थ० ९-३] इति वचनात् ध्यानस्य चान्तरोत्कृष्टतपोरूपत्वाद् ३० जीवाजीवाभ्यां कथंचिदसावभिन्ना व्यङ्गुलवियोगवत् वियुक्तात्मनो वियोगस्य कथंचिद् अभेदात् एकान्तवादे तु पूर्ववत् पश्चादपि अवियोगः अतद्धर्मत्वात् वियोगे वा पूर्वमपि तत्स्वभावत्वाद् अयु. क्तस्य वियोगाभाव एव न हि बन्धाभावे तद्विनाशः संभवी तस्य वस्तुधर्मत्वात् न हि अङ्गुल्योः संयोगाभावे तद्वियोग इति व्यवहारः । तस्माद् निर्जराया अपि एकान्तवादे अनुपपत्तिः । एकत्वेन वितर्को यस्मिन् तद् एकत्ववितर्कम् विगतार्थ-व्यञ्जन-योगसंक्रमत्वाद् अवीचारं द्वितीयं शुक्लध्यानम् । ३५ तथाहि-एकपरमाणौ एकमेव पर्यायमालम्ब्यत्वेन आदाय अन्यतरैकयोगबलाधानमाश्रितव्यतिरि
ताशेषार्थव्यञ्जनयोगसंक्रमविषयचिन्ताविक्षेपरहितं बहुतरकर्मनिर्जरारूपं निश्शेषमोहनीयक्षयानन्तरं । युगपद्भाविघातिकर्मत्रयध्वंसनसमर्थमकषायच्छद्मस्थवीतरागगुणस्थानभूमिकं क्षपको द्वितीयं शुक्ल
१पीत-पद्मादिकानां षण्णां लेश्यानां सविस्तर वरूपं प्रज्ञापनासूत्रीयलेश्यापदतोऽवगन्तव्यम्-प. १७ पृ०३३०३७३। २ अत्र मूलतत्त्वार्थे तदीये भाष्ये च 'क्रियानिवृत्ति' इत्येव पाठो मुद्रितो दृश्यते-अ० ९-४१। सर्वार्थसिद्धि-राजबार्तिक-श्लोकवार्तिकेषु तु 'क्रियानिवर्ति' इत्येव पाठो मुद्रितो वर्तते परन्तु सर्वार्थसिद्धौ तालपत्रगतपाठान्तरलेन 'क्रियानिवृत्ति' इति पाठोऽधस्तादुपन्यस्तः-अ० ९-३९ ।