________________
७३४
तृतीये काण्डे
[ ध्यानचतुष्कस्य सभेदप्रभेदं व्यावर्णनम् ] अप्रशस्तश्च आत्मपरिणामो द्विविधः आर्त-रौद्रभेदात् आमुहूर्तस्थायी आक्रन्दन-विलपनपरिदेवन-शोचन-परविभवविस्मय-विषयसंगादिकश्च स्वसंवेद्य आत्मनः अनुमेयश्च परेषाम् क्लिष्टः परिणामविशेष आर्तध्यानशब्दवाच्यो बाह्यः आभ्यन्तरश्च अमनोज्ञसंप्रयोगानुत्पत्त्यध्यवसानम् ५ उत्पन्नस्य च विनाशाध्यवसायः मनोज्ञसंप्रयोगस्य उत्पत्तिकल्पनाध्यवसायः उत्पन्नस्य अविनाश. संकल्पाध्यवसानम् इत्येतत् चतुर्विधमार्तध्यानम् अमनोज्ञसंप्रयोगश्च बाह्याध्यात्मजत्वेन द्विधाशीताऽऽतप-व्यालादिजनितो बाह्यः वात-पित्त-श्लेष्मादिप्रादुर्भूतोऽभ्यन्तरः शारीरः भय-विषादाऽरति-शोक-जुगुप्सा-दौर्मनस्यादिप्रभवो मानसः अयममनोसंप्रयोगः कथं नाम मे न संपद्यत
इति संकल्पप्रबन्ध आर्तध्यानम् कृष्ण-नील-कापोतलेश्याबलाधायकं प्रमादाधिष्ठानम् आप्रमत्त१० गुणस्थानात् तिर्यग-मनुष्यगतिनिर्वर्तकम् उत्कर्षाऽपकर्षभेदात् क्षायोपशमिकभावरूपं परोक्षज्ञानरूपत्वात् । एवं रुद्रे भवं रौद्रं हिंसाऽनृत-स्तेय-संरक्षणाऽऽनन्दभेदेन चतुर्विधम् तत्र हिंसायामानन्दो रुचिर्यस्मिन् तद् हिंसानन्दम् एवमुत्तरत्रापि योज्यम् एतदपि बाह्याध्यात्ममेदाद् द्विविधम् परुषनिष्ठुरवचनाक्रोशनिर्भर्त्सनताडनपरदारातिकमाभिनिवेशादिरूपं बाह्यम्-खपराभ्यां स्वसंवेदना
ऽनुमानगम्यं बाह्यम् । आध्यात्मिकं हिंसायां संरम्भ-समारम्भादिलक्षणायां नैघृण्येन प्रवर्तमानस्य १५संकल्पाध्यवसानम्-संकल्पश्चिन्ताप्रबन्धस्तस्याध्यवसानम्-तीवकषायानुषक्तत्वं प्रथमं हिंसानन्दं
नाम । परेषामनेकप्रकारैमिथ्यावचनैर्वञ्चनं प्रति संकल्पाध्यवसानं मृषानन्दं नाम । परद्रव्यापहरणं प्रति अनेकोपायैर्यत् तत् स्तेयानन्दम् । परिग्रहे 'मम एव इदं स्वम् अहमेव अस्य स्वामी' इति अभिनिवेशः तदपहर्तृविघातेन संरक्षणं प्रति संकल्पाध्यवसानं संरक्षणानन्दम् । चतुर्विधमप्येतत् कृष्णादिलेश्याबलाधायकं प्राक् प्रमत्तगुणस्थानात् प्रमादाधिष्ठानं कषायप्राधान्यादौदयिकभावरूपं २० नरकगतिफलनिर्वर्तकं पापध्यानद्वयमपि हेयम् ।।
उपादेयं तु प्रशस्तं धर्म-शुक्लध्यानद्वयम् । तत्र पर्वतगुहा-जीर्णोद्यान-शून्यागारादौ मनुष्याद्यापातविकले अवकाशे मनोविक्षेपनिमित्तशून्ये सत्त्वोपघातरहिते उचिते शिलातलादौ यथासमाधानं विहितपर्यङ्कासन ऊर्ध्वस्थानस्थो वा मन्दमन्दप्राणाऽपानप्रचारः-अतिप्राणनिरोधे चेतसो व्याकुलत्वेन एकाग्रतानुपपत्तेः-निरुद्धलोचनादिकरणप्रचारो हृदि ललाटे मस्तके अन्यत्र वा यथापरिचयं २५मनोवृत्तिं प्रणिधाय मुमुक्षुर्ध्यायेत् प्रशस्तं ध्यानम् । तत्र बाह्याध्यात्मिकभावानां याथात्म्यं धर्मः तस्माद् अनपेतं धर्म्यम् । तच्च द्विविधम् बाह्यम् आध्यात्मिकं च । सूत्रार्थपर्यालोचनम् दृढव्रतता शीलगुणानुरागः निभृतकायवाग्व्यापारादिरूपं बाह्यम् आत्मनः स्वसंवेदनग्राह्यमन्येषामनुमेयमाध्यात्मिकं तत्त्वार्थसंग्रहादौ चातुर्विध्येन प्रदर्शितं संक्षेपतः अन्यत्र दशविधम् । तद्यथा-अपायोपायजीवाऽजीवविपाकविरागभवसंस्थानाज्ञाहेतुविचयानि चेति । लोक-संसारविचययोः संस्थान३०भवविचययोरन्तर्भावान्नोद्दिष्टदशमेदेभ्यः पृथगभिधानम् । तत्र अपाये विचयो विचारो यस्मिन्
तद् अपायविचयम् । एवम् अन्यत्रापि योज्यम् । 'दुष्टमनो-वाक्-कायव्यापारविशेषाणामपायः कथं नु नाम स्यात्' इत्येवंभूतः संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वाद् अपायविचयम् । 'तेषामेव कुशलानां स्वीकरणमुपायः स कथं नु मे स्यात्' इति संकल्पप्रबन्ध उपायविचयम् । असंख्ये यप्रदेशात्मकसाकाराऽनाकारोपयोगलक्षणाऽनादिस्वकृतकर्मफलोपभोगित्वादिजीवस्वरूपानुचिन्तनं ३५जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकानामजीवानामनुचिन्तनमजीवविचयम्
मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलात्मकस्य मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविपाकविशेषानुचिन्तनं विपाकविचयम् । 'कुत्सितमिदं शरीरकम् शुक्रशोणितसमुद्भूतम् अशुचिभृतघटोपमम् अनित्यम् अपरित्राणम् गलदशुचिनवच्छिद्रतया अशुचि आधेयशौचम् न किञ्चिदत्र कमनीयतरं
समस्ति किंपाकफलोपभोगोपमाः प्रमुखरसिका विपाककटवः प्रकृत्या भङ्गुराः पराधीनाः संतोषा४० मृतास्वादपरिपन्थिनः सद्भिर्निन्दिता विषयाः तदुद्भवं च सुखं दुःखानुषङ्गि दुःखजनकं च नातो देहिनां तृप्तिः न च एतद् आत्यन्तिकमिति नात्र आस्था विवेकिना आधातुं युक्तेति विरतिरेव अतः
१ आर्तध्यानादिध्यानचतुष्टयस्य विशेषस्वरूपं भगवतीसूत्र-स्थानाङ्गसूत्र-आवश्यकसूत्रेभ्योऽवसेयं भवेत्-श० २५ उद्दे, ७ । स्था० ४ उद्दे० १। ध्यानशतकम् पृ० ५८२-६०२।२-यमनोश-बृ० वा. बा०।३-नैर्वचनं वा० बा० विना। ४ वाचकउमाखातिप्रणीततत्त्वार्थसू० अ० ९ ।