________________
ज्ञेयमीमांसा।
ऽमूर्तचेतनाऽचेतनद्रव्यगुणाः, उत्क्षेपणाऽपक्षेपणादीनि च कर्माणि, सामान्य-विशेष-समवायाश्च जीवाऽजीवव्यतिरेकेण आत्मस्थितिं लभन्ते तद्भेदेन एकान्ततस्तेपामनुपलम्भात् तेषां तदात्मकत्वेन प्रतिपत्तेः अन्यथा तदसत्त्वप्रसक्तेः । ततो जीवाजीवाभ्यां पृथक जात्यन्तरत्वेन द्रव्य-गुण-कर्मसामान्य-विशेष-समवायो न वाच्याः। एवम् प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानौनि च न पृथर अभिधानी-५ यानि । तथा,
"प्रकृतेर्महान् महतोऽहंकारस्तस्माद् गणश्च षोडशकः।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि" ॥ [ सांख्यका० का० २२] इति चतुर्विशतिः पदार्थाः पुरुषश्चेति न वक्तव्यम् । तथा, दुःख-समुदा(द)य-मार्ग-निरोधाश्चत्वारि आर्यसत्यानि इति न वक्तव्यम् । तथा पृथिवी आपः तेजः वायुः इति तत्वानि इति न वक्तव्यम् । तत्प्रभेद १० रूपतया अभिधानेऽपि न दोषः जात्यन्तरकल्पनाया एव अघटमानत्वात् राशिद्वयेन सकलस्य जगतो व्याप्तत्वात् तदव्याप्तस्य शशशृङ्गतुल्यत्वात् । शब्दब्रह्माद्यकान्तस्य च प्राक प्रतिषिद्धत्वात् अबाधित. रूपोभयप्रतिभासस्य तथाभूतवस्तुव्यवस्थापकस्य प्रसाधितत्वात् विद्याऽविद्याद्वयभेदाद् द्वैतकल्पनायामपि त्रित्वप्रसक्तेः । बाह्यालम्बनभूतभावापेक्षया विद्यात्वोपपत्तेः अन्यथा निर्विषयत्वेन उभयोरविशेषात् तत्प्रतिभागस्य अघटमानत्वात् न हि द्वयोर्निरालम्बनत्वे विपर्यस्ताऽविपर्यस्तज्ञानयोरिव १५ विद्याविद्यात्वमेदः ततो नाद्वयं वस्तु, नापि तद्व्यतिरिक्तमस्ति । ___अथ आस्रवादीनामपि अनुपपत्तिः राशिद्वयेन सकलस्य व्याप्तत्वात्, न; ततस्तेषां कथंचिद् मेदप्रतिपादनार्थत्वात् अनयोरेव तथापरिणतयोः सकारणसंसार-मुक्तिप्रतिपादनपरत्वात् तथाभिधानस्य अनेन वा क्रमेण तज्ज्ञानस्य मुक्तिहेतुत्वप्रदर्शनार्थत्वात् विप्रतिपत्तिनिरासार्थत्वाद् वा तदभिधानस्य अदुष्टता । तथाहि-आँस्रवति कर्म यतः स आस्रवः काय-वार-मनोव्यापारः स च २० जीवाजीवाभ्यां कथंचिद् भिन्नः तथैव प्रतीतिविषयत्वात् । अथ बन्धाभावे कथं तस्योपपत्तिः! प्राक् तत्सद्भावे वा न तस्य बन्धहेतुता न हि यद यद्धेतुकं तत् तदभावेऽपि भवति अतिप्रसङ्गात्, असदे तत् पूर्वोत्तरापेक्षया अन्योन्य कार्यकारणभावनियमात् । न च इतरेतराश्रयदोषः प्रवाहापेक्षया अनादित्वात् । पुण्यापुण्यबन्धहेतुतया चासौ द्विविधः उत्कर्षाऽपकर्षभेदेन अनेकप्रकारोऽपि दण्डगुप्त्यादित्रित्वादिसंख्याभेदमासादयन् फलानुबन्ध्यननुवन्धिभेदतः अनेकशब्दविशेषवाच्यतामनु-२५ भवति एकान्तवादिनां च नायं संभवतीति कम्मं जोगनिमित्तं [प्र० का० गा० १९] इति गाथार्थ प्रदर्शयद्भिः प्राक प्रतिपादितत्वात् । तन्निमित्तः सकषायस्य आत्मनः कर्मवर्गणापुद्गलैः संश्लेषविशेषो बन्धः स च सामान्येन एकविधोऽपि प्रकृति-स्थित्यनुभाग-प्रदेशभेदेन चतुर्धा पुनः एकैको ज्ञानावरणीयादि-मूलप्रकृतिभेदादष्टविधः पुनरपि मत्यावरणाद्युत्तरप्रकृतिभेदाद् अनेकविधः अयं च कश्चित् तीर्थकरत्वादिफलनिर्वर्तकत्वात प्रशस्तः अपरश्च नारकादिफलनिर्वर्तकत्वाद३० अप्रशस्तः प्रशस्ताऽप्रशस्तात्मपरिणामोद्भूतस्य कर्मणः सुख-दुःखसंवेदनीयफलनिर्वर्तकत्वात् ।
१ कणादमतमेतत् , अस्य स्थापन-निरसने पूर्व समायाते द्रष्टव्ये । २ अक्षपादमतमेतत् । ३ न्यायद० १-१-१। ४ “प्रकृतेर्महान् ततोहंकार"-सांख्यका० । ५ बौद्धमते दुःखकारणभूतद्वितीयार्यसत्यपरत्वं समुदयपदस्य प्रसिद्धम् । तद्यथा“समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयभावाख्यः समुदयः स उदाहृतः" ॥६॥-पइद० स० ।
६ आश्रव-बृ. विना। अत्र आस्रवस्य निरूपणीयखेन तत्र च मनोदण्डादित्रिविधदण्डस्य समावेशेऽपि त्रिविधाया गुप्तेः संवररूपलेन आस्रवविरोधितया आस्रवे समावेशाभावात् 'दण्डागुप्त्यादि' इति पाठं कल्पयिखा अर्थसंगतिः कर्तुमुचिता। ८पृ. ४१८ गा० १९ ।
९ "ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः"-सांख्यका० ४४ । “ज्ञानस्य विपर्ययोऽज्ञानं तेनाज्ञानेन x x x मात्मानं निबध्नाति-न मोक्षं गच्छतीत्यर्थः x x x स च बन्धस्त्रिविधः प्रकृतिबन्धः वैकारिकबन्धः दक्षिणाबन्धश्चति । तत्र प्रकृतिबन्धो नाम अष्टासु प्रकृतिषु परखेनाभिमानः" [का० ४४ माठरवृ० पृ. ६२] इत्यादिना सांख्या अपि बन्धं प्रतिपन्नाः।