________________
तृतीये काण्डे -
इति, “धर्माधर्मक्षयंकरी दीक्षा" [
] इत्यादिकमधीत्य 'सूत्रधरा वयम्' इति शब्दमात्र संतुष्टा गर्ववन्तः अविकोविदसामर्थ्याः अविकोविदम् अशं सामर्थ्य येषां ते तथाऽविदितसूत्रव्यापारविषया इति यावत् । किमित्येवं ते ? इत्याह-यथाश्रुतमेव अविभक्ता अविवेकेन प्रतिपत्तिरेषामिति कृत्वा सूत्राभिप्रायव्यतिरिक्तविषयविप्रतिपत्तित्वात् इतरजनवद् अज्ञा इत्यभि५ प्रायः । अथवा स्वयूथ्या एव एकनयदर्शनेन कतिचित् सूत्राणि अधीत्य केचित् 'सूत्रधरा वयम्' इति गर्विता यथावस्थितान्यनयसव्यपेक्षसूत्रार्थापरिज्ञानाद् अविदितात्मविद्वत्स्वरूपा इति गाथाभिप्रायः ॥ ६१ ॥
७३२
१०
[ निरपेक्षैकनयप्रवृत्तानां दोषोद्भावनम् ]
अथ एषामेकनयदर्शनेन प्रवृत्तानां यो दोषस्तमुद्भावयितुमाहसम्मर्द्दसणमिणमो सयलसमत्तवयणिज्जणिद्दोसं । अत्तुको विट्ठा सलाहमाणा विणासेंति ॥ ६२ ॥
सम्यग्दर्शनमेतत् परस्परविषयाऽपरित्यागप्रवृत्तानेकनयात्मकम् तच्च 'स्यान्नित्यः' इत्यादि सकलधर्मपरिसमाप्तवचनीयतया निर्दोषम्, एकनयवादिनस्त्वविषये सूत्रव्यवस्थापनेन आत्मोत्कर्षेण विनष्टाः स्याद्वादाभिगमं प्रति अनाद्रियमाणा 'वयं सूत्रधराः' इत्यात्मानं १५श्लाघमानाः सम्यग्दर्शनं विनाशयन्ति - तदात्मनि न व्यवस्थापयन्तीति यावत् ॥ ६२ ॥
२०
[न शासनभक्तिमात्रेण नाप्यांशिक ज्ञानमात्रेणानेकान्तप्ररूपण कुशल इति कथनम् ] अथ न ते आगमप्रत्यनीकाः तद्भक्तत्वात् तद्देशपरिज्ञानवन्तश्चेति कथं तद् विनाशयन्तीति ?
अत्राह
ण हु सासणभत्तीमेत्तएण सिद्धंतजाणओ होइ ।
ण विजाणओ विणियमा पण्णवणाणिच्छिओ णामं ॥ ६३ ॥
न च शासनभक्तिमात्रेणैव सिद्धान्तज्ञाता भवति-न च तदज्ञानवान् भावसम्यक्त्ववान् भवति अज्ञातस्य अर्थस्य विशिष्टरुचिविषयत्वानुपपत्तेः तद्भक्तिमात्रेण श्रद्धानुसारितया द्रव्यसम्यक्त्वम् । मार्गानुसार्यवबोधमात्रानुषक्तरुचिस्वभावं तु सदपि न भावसम्यक्त्व साध्यफलनिर्वर्तकम् भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वरूपत्वोपपत्तेः । न च जीवादितस्यैकदेशज्ञाताऽपि २५ नियमतोऽनेकान्तात्मकवस्तुस्वरूपप्रज्ञापनायां निश्चितो भवति एकदेशज्ञानवतः सकलधर्मात्मक वस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणाऽसंभवात् । तथाहि - सर्वज्ञो यथावस्थितैकदेशशः जीवादिसकलतत्त्वज्ञता तु आगमविदः सामान्यरूपतया अभिधीयते "मति श्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेषु" [ तत्त्वार्थ० १-२७] इति वचनात् ।
[तसप्तके निरूप्ये पूर्व जीवाजीवौ निरूप्य तत्र कणादादि संमततच्चानामन्तर्भाव प्रदर्शनम् ]
३०
तत्त्वं तु जीवा जीवाव-बन्ध-संवर- निर्जरा-मोक्षाख्याः सप्त पदार्थाः । तत्र चेतनालक्षणोऽर्थो जीवः, तद्विपरीतलक्षणस्तु अजीवः, धर्माधर्माकाशकालपुद्गलभेदेन त्वसौ पञ्चधा व्यवस्थापितः । एतत्पदार्थद्वयान्तर्वर्तिनश्च सर्वेऽपि भावाः न हि रूप-रस- गन्ध-स्पर्शादयः साधारणासाधारणरूपा मूर्त
१ - जनपदवज्ञानिन इत्य-भां० मां० । जनपदवदज्ञान इत्य बृ० आ० हा०वि० ।
9
२ णाम मु० मू०
३ प्रायो बहुषु आदर्शेषु तत्र च बहुषु स्थलेषु तालव्यशकारस्योपलम्भेऽपि क्वचित् क्वचिद् दन्त्यसकारस्य दर्शनात् तस्यैव च प्रकृते शुद्धतरत्वात् तथैव च प्रन्थान्तर संवाददर्शनात् पाठान्तरवैषम्यपरिहाराय लाघवाय एकविधपाठपरिग्रहाय च सर्वत्र दन्त्यसकार विशिष्टं रूपमङ्गीकृत्य 'आस्रव' पदमेव उपयुक्तमत्रास्माभिः न तु 'आश्रव' पदम् ।