________________
ज्ञेयमीमांसा।
वत् । न च अपौरुषेयत्वादस्य प्रामाण्यम् तस्य निषिद्धत्वात् । न च पुरुषप्रणीतस्य हिंसाविधायकस्य तस्य प्रामाण्यम् 'ब्राह्मणो हन्तव्यः' इति वाक्यवत् । न च वेदविहितत्वात् तद्धिंसाया अहिंसात्वम् प्रकृतहिंसाया अपि तत्त्वोपपत्तेः । न च "ब्राह्मणो न हन्तव्यः" [
] इति तद्वाक्यबाधितत्वान्न प्रकृतहिंसायास्तद्विहितत्वम् “न वै हिंस्रो भवेत्" [
] इति वेदवाक्यबाधितचित्रादियजनवाक्यविहितहिंसावत् प्रकृतहिंसायास्तद्विहितत्वोपपत्तेः । अथ 'ब्राह्मणो हन्तव्यः'५ इति वाक्यं न क्वचिद् वेदे श्रूयते, न; उत्सन्नानेकशाखानां तत्राभ्युपगमात् तथा च "सहस्रवर्मा सामवेदः”[
] इत्यादिश्रुतिः । अथ यज्ञाद् अन्यत्र हिंसाप्रतिषेधः तत्र च तद्विधानम् यथा च "अन्यत्र हिंसा अपायहेतुः" [
] इत्यागमात् सिद्धम् तथा तत एव तत्र स्वर्गहेतुः इत्यपि सिद्धम् न च यद् एकदा एकत्र अपायहेतुः तत् सर्वदा सर्वत्र तथेत्यभ्युपगन्तव्यम् आतुर-वस्थभुजिक्रियावत् अवस्थादिभेदेन भावानां परस्परविरुद्धफलकर्तृत्वोपलम्भात्, असम्यगे-१० ततः तृष्णादिनिमित्तहिंसाया अपायहेतुत्वेन सर्वशास्त्रेषु प्रसिद्धः तृष्णादिनिमित्ता च प्रकृतहिंसेति प्रतिपादितत्वात् । न च यन्निमित्तत्वेन यत् प्रसिद्धम् तत् फलान्तरार्थित्वेन विधीयमानमौत्सर्गिक दोषं न निर्वर्तयति, यथा आयुर्वेदप्रसिद्ध दाहादिकं रुगपगमार्थितया विधीयमानं स्वनिमित्तं दुःखं क्लिष्टकर्मसंबन्धहेतुतया च मखविधानाद् अन्यत्र हिंसादिकं शास्त्रे प्रसिद्धमिति सप्ततन्तावपि तद् विधीयमानं काम्यमानफलसद्भावेऽपि तत्कर्मनिमित्तं तद भवत्येव । न च हिंसातः स्वर्गादिसुखप्राप्तौ १५ असुखनिवर्तकक्लिष्टकर्महेतुता असंगता नरेश्वराराधननिमित्तब्राह्मणादिवधानन्तरावाप्तग्रामादिलाभजनितसुखसंप्राप्तौ तद्वधस्यापि तथात्वोपपत्तेः । अथ ग्रामादिलाभो ब्राह्मणादिवधनिर्वर्तितादृष्टनिमित्तो न भवति तर्हि स्वर्गादिप्राप्तिरपि अध्वरविहितहिंसानिर्वर्तिता न भवतीति समानम् । अथ अश्वमेधादौ आलभ्यमानानां छागादीनां स्वर्गप्राप्तेर्न तद्धिंसा हिंसेति तर्हि संसारमोचकविरचिताऽपि तत एव हिंसा न हिंसा स्यात् देवतोद्देशतो म्लेच्छादिविरचिता च ब्राह्मण-गवादिहिंसा च न हिंसा २० स्यात् । अथ तदागमस्य अप्रमाणत्वान्न तदुपदेशजनिता हिंसा अहिंसेति, ननु वेदस्य कुतः प्रामाण्यसिद्धिः ? न गुणवत्पुरुषप्रणीतत्वात् , परैस्तस्य तथाऽनभ्युपगमात् । न अपौरुषेयत्वात्, तस्य असंभवात् । तन्न प्रदर्शिताभिप्रायाद् विना हिंसातो धर्मावाप्तिर्युक्ता।
परमप्रकर्षावस्थज्ञान-दर्शन-चारित्रात्मकमुक्तिमार्गस्य 'दीक्षा'शब्देन अभिधाने दीक्षातो मुक्तिरुपपन्नैव अविकलकारणस्य कार्यनिर्वर्तकत्वात् अन्यथा कारणत्वायोगात् । तत्र तद्भत्युत्पादनार्थ २५ चैवमभिधानाद् अदोषः न हि तद्भक्त्यभावे उपादेयफलप्राप्तिनिमित्तसम्यग्ज्ञानादिपुष्टिनिमित्तदीक्षाप्रवृत्तिप्रवणो भवेत् । तन्न अन्यपरत्वं प्रदर्शितवचसामभ्युपगन्तव्यम् तथाऽभ्युपगमे वा अनाप्तत्वं तद्वादिनां प्रसज्येत तत्र पूर्वोक्तदोषानतिवृत्तेः ॥ ६ ॥
[विवेचनविकलामागमस्य प्रतिपत्तिमाश्रयतां तत्त्वानभिज्ञत्वख्यापनम् ] ये तु अविवेचितागमप्रतिपत्तिमात्रमाश्रयन्ते ते अनवगतपरमार्था एव इति प्रतिपादयन्नाह- ३०
पाडेक्कनयपहगयं सुत्तं सुत्तहरसद्दसंतुट्ठा।
अविकोवियसामत्था जहागमविभत्तपडिवत्ती ॥ ६१॥ प्रत्येकनयमार्गगतं सूत्रम्-"क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः! यद् इदं त्रैधातुकम्" ।
] इति, "ग्राह्यग्राहकोभयशून्यं तत्त्वम्” इति, "नित्यमेकमण्डव्यापि निष्क्रियम्" [
] इत्यादि, "सदकारणवद् नित्यम्" ३५ [वैशेषिकद०४-१-१] इति, "आत्मा रे श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" [ बृहदा० उ०२-४-५] इत्यादि, “सत्ता-द्रव्यत्वसंबन्धात् सद्रव्यं वस्तु" [
] इति, “परलोकिनोऽभावात् परलोकाभावः" [ ]"चोदनालक्षणोऽर्थो धर्मः" [मीमांसाद०१-१-२]
१“न जातु ब्राह्मणं हन्यात्"-अ० ८ श्लो. ३८० मनुस्मृ०। २न च हिं-वा० बा०। ३ "सहस्रवर्मा सामवेदः"-१-१-१ महाभा० पृ० ६५ पं० १। ४-स्वस्थसुभु-भां० मा०। ५पृ० १५० २९ ।
१४ स०प्र०