________________
७३०
तृतीये काण्डेअन्येन संयोगः तत्संसर्गाव्यवच्छिन्नस्वभावान्तरविरहाद् विशेषविकलसामान्यवत् एकस्य प्रतिसंवन्धि संबन्धस्वभावविशेषाभ्युपगमे विशेषाणां तत्स्वलक्षणं सामान्यलक्षणमेव स्यात् । न च विशेषैरन्यदेशस्थितैरसंयुक्तस्यैकत्र तस्य वृत्तिः अव्यवधानाविशेषात् एवं च स्वभावविशेषाणां
सामान्य रूपाः सर्व एव भावाः विशेषरूपाश्च । तत्र देश-कालावस्थाविशेषनियतानां सर्वेषामपि सत्त्वं ५सामान्यमेकरूपम् अव्यवधानात् तस्य च ते विशेषा एव अनेक रूपम् यतः तदेव सत्त्वं परिणामविशेषापेक्षया गोत्व-ब्राह्मणत्वादिलक्षणा जातिः परिणामविशेषाश्च तदात्मका व्यक्तयः इति परस्परव्यावृत्तानेकपरिणामयोगाद् एकस्य एकानेकपरिणतिरूपता संशयज्ञानस्येव अविरुद्धा व्यक्तिव्यति. रिक्तस्य सामान्यस्य उपलब्धिलक्षणप्राप्तस्य अनुपलब्धेः शशशृङ्गवत् असत्त्वात् 'सन् घटः' इत्यादि.
प्रत्ययः सामान्यविशेषात्मकवस्त्वभावे अबाधितरूपो न स्यात् । न च चक्षुरादिबुद्धौ वर्णाकृत्यक्षराका१० रशून्यं सामान्यं परव्यावर्णितखरूपमवभासते प्रतिभासभेदप्रसङ्गात् । यदि च तत् सर्वगतम् पिण्डान्तरालेऽपि उपलभ्येत स्वभावाविशेषात् । आश्रयाभावात् अनभिव्यक्त्यभ्युपगमे अभिव्यक्ताद् अनभिव्यक्तस्वरूपस्य भेदात् सामान्यरूपता न स्यात् । न च आश्रयभावाभावी अभिव्यक्त्यनभिव्यक्ती सत्प्रत्ययकर्तृत्वाऽकर्तृत्वे नित्यैकस्वभावस्य युज्येते, तद्रूपयोगिनोऽप्येकत्वे कथं नानेका
न्तसिद्धिः? स्वाश्रयसर्वगतत्वेऽपि सत्ताया आश्रयेण एकेन एकदा प्रकाशितायाः सर्वदा सर्वत्र प्रका१५ शितत्वात् सकलवस्तुप्रपञ्चस्य सकृद् उपलब्धिप्रसङ्गः न वा कस्यचिद् उपलब्धिः स्यात् अविशेषात् ।
प्रकारान्तरेण प्रतीत्यभ्युपगमे अनेकान्तवाद एव । स्वतः सतां विशेषाणां सत्तासंबन्धानर्थक्यम् असतां तत्संबन्धानुपपत्तिः अतिप्रसक्तेः। अक्रियसामान्यसंवन्धान व्यक्तीनामक्रियत्वम् सामान्यस्य वा क्रिया. वत्त्वाद् अव्यापकत्वं स्यात् । व्यत्यव्यतिरेके व्यक्तिस्वलक्षणवत् तत् सामान्यमेव न भवेत् व्यक्तीनां
वा सामान्याव्यतिरेका व्यक्तिस्वरूपहानेः सामान्यस्य तदुपता न भवेत् । न च व्यतिरेकाव्यतिरेक २० पक्षेऽपि अनवस्थोभयपक्षदोष-वैयधिकरण्य-संशयविरोधादिदोषप्रसङ्गात् सर्वथा तदभावः, अनवस्थादिदोषस्य प्राक् प्रतिषिद्धत्वात् प्रतीयमानेऽपि तथाभूते वस्तुनि विरोधादिदोषासञ्जने प्रकारान्तरेण प्रतिभासासंभवात् सर्वशून्यताप्रसङ्गः । न च सैवास्तु इति वक्तव्यम् स्वसंवेदनमात्रस्यापि अभावप्रसङ्गतः निष्प्रमाणिकायाः तस्या अपि अभ्युपगन्तुमशक्यत्वात् तथापि तस्या अभ्यु. पगमे वरमनेकान्तात्मकं वस्तु अभ्युपगन्तव्यम् तस्य अबाधितप्रतीतिगोचरत्वात् । २५ तेन रूपादिक्षणिकविज्ञानमात्र-शून्यवादाभ्युपगमः तथा पृथिव्यायेकान्तनित्यत्वाभ्युपगमः
तथा आत्माद्यद्वैताङ्गीकरणम् तथा परलोकाभावनिरूपणम् द्रव्य-गुणादेरत्यन्तभेदप्रतिज्ञानं च तथा हिंसातो धर्माभ्युपगमः दीक्षातो मुक्तिप्रतिपादनम् इत्याद्येकान्तवादिप्रसिद्धं सर्वमसत् प्रतिपत्तव्यम् तत्प्रतिपादनहेतूनां प्रदर्शितनीत्या अनेकान्तव्याप्तत्वेन विरोधात् इतरधर्मसव्यपेक्षस्यैकान्तवाद्यभ्युपगतस्य सर्वस्य पारमार्थिकत्वात् अभिष्वङ्गादिप्रतिषेधार्थ विज्ञानमात्राद्यभिधानस्य सार्थकत्वात् । ३० तथाहि-'अहमस्यैव अहमेवास्य' इति एकान्तनित्यत्ववस्वामिसंबन्धाभिनिवेशप्रभवरागादिप्रतिषे.
धपरं क्षणिकरूपादिप्रतिपादनं युक्तमेव । सालम्वनज्ञानकान्तप्रतिषेधपरं विज्ञानमात्राभिधानम् । सर्वविषयाभिष्वङ्गनिषेधप्रवणं शून्यताप्रकाशनम् । 'क्षणिक एवायं पृथिव्यादिः' इति एकान्ताभिनिवेशमूलद्वेपादिनिपेधपरं तन्नित्यत्वप्रणयनम् । जात्यादिमदोन्मूलतानुगुगमात्माद्यद्वैतप्रकाशनम् । 'जन्मान्तरजनितकर्मफलभोक्तृत्वमेव धर्मानुष्ठानम्' इति एकान्तनिरासप्रयोजनं परलोकाभावाववो३५ धनम् । द्रव्याद्यव्यतिरेकैकान्तप्रतिषेधाभिप्रायं तद्भेदाख्यानम् । अप्रमत्तस्य योगनिबन्धनप्राणव्यपरोपणस्य अहिंसात्वप्रतिपादनार्थ 'हिंसातो धर्मः' इति वचनम्, राग-द्वेष-मोह-तृष्णादिनिबन्धनस्य प्राणव्यपरोपणस्य दुःखसंवेदनीयफलनिर्वर्तकत्वेन हिंसात्वोपपत्तेः अत एव वैदिकहिंसाया अपि तन्निमित्तत्वे अपायहेतुत्वमन्यहिंसावत् प्रसक्तम् न च तस्या अतन्निमित्तत्वम् , “चित्रया यजेत पशुकामः" [
] इति तृष्णानिमित्तश्रवणात् । न चैवंविधस्य वाक्यस्य प्रमाणताऽपि ४० उपपत्तिमती तत्प्राप्तिनिमित्ततद्धिंसोपदेशकत्वात् तृष्णादिवृद्धिनिमित्ततदन्यतद्विघातोपदेशवाक्य
१-ति संबन्धे सं-बृ० ।-ति संबन्ध-वा० बा०। २-तो युक्ति-भां० मा० । ३ "चित्रया यजेत पशुकामः"-१-४-३ शाबरभा० पृ. ६. पं०९