________________
ज्ञेयमीमांसा।
७२९
विलक्षणान् स्वभावान् यथावस्थितरूपतया व्यानुवत् सकललोकप्रतीतं स्वसंवेदनम् अनेकान्ततत्त्वव्यवस्थापकमेकान्तवादप्रतिक्षेपि प्रतिष्ठितमिति 'निरंशक्षणिकस्वलक्षणमन्तर्बहिश्चानिश्चितमपि संवित्तिविषयीकरोति' इति कल्पना अयुक्तिसंगतैव अप्रमाणप्रसिद्धकल्पनायाः सर्वत्र निरङ्कशत्वात सकलसर्वज्ञताकल्पनप्रसक्तेः न हि एकस्य संवित्तिः अपरस्य असंवित्तिः सर्वत्र संवन्धाभावाविशेषात् न हि वास्तवसंबन्धाभावे परिकल्पितस्य तस्य नियामकत्वं युक्तम् अतिप्रसङ्गात् । न च ५ वास्तवः संबन्धः परस्य सिद्धः इति तादात्म्य-तदुत्पत्त्योरभावात् साध्य-साधनयोः प्रतिबन्ध नियमाभावे अनुमानप्रवृत्तिर्दूरोत्सारितैव । ___अथ क्षणिकान्निवर्तमानमपि अर्थक्रियालक्षणं सत्त्वमक्षणिके अवस्थास्यतीति न ततोऽनेकान्तात्मकवस्तुसिद्धिः, न; अक्षणिकेऽपि क्रमयोगपद्याभ्यां तस्य विरोधात् । तथाहि-न तावद् अक्षणिकस्य क्रमवत् कार्यकरणम् प्राक् तत्करणसमर्थस्य अभिमतक्षणवत् तदकरणविरोधात् । प्राक् तदसा-१० मर्थ्य पश्चादपि न तत्सामर्थ्यम् अपरिणामिनोऽनाधेयाऽप्रहेयातिशयत्वात् स्वभावोत्पत्तिविनाशाभ्युपगमेऽपि नित्यैकान्तवादविरोधात् । ततो व्यतिरिक्तस्य अतिशयस्य करणे अनतिशयस्य तस्य प्रागिव पश्चादपि तत्करणासंभवात् । सहकारिकारणापेक्षाऽपि तस्य अयुक्तैव यतोऽसहायस्य प्रागकरणवभावस्य पुनः ससहायस्य कार्यकरणं भवेत् न हि सहकारिकृतमतिशयमनङ्गीकुर्वतस्तदपेक्षा उपपत्तिमती । तन्न क्रमेण अपरिणामी भावः कार्य निर्वर्तयति । नापि योगपद्येन, कालान्तरे तस्याकिञ्चित्क-१५ रत्वेनावस्तुत्वापपत्तेः क्षणमात्रावस्थायित्वप्रसक्तेः । न च क्रम-योगपद्यव्यतिरिक्तं प्रकारान्तरं संभवतीति अर्थक्रिया व्यापिका निवर्तमाना व्याप्यां सत्तां नित्यादपि आदाय निवर्तते इति यत् सत् तत् सर्वमनेकान्तात्मकं सिद्धम् अन्यथा प्रत्यक्षादिविरोधप्रसक्तेः न हि भेदमन्तरेण कदाचित् कस्यचिद अमेदोपलब्धिःहर्ष-विषादाद्यनेकाकारविवर्तात्मकस्य अन्तश्चैतन्यस्य स्वसंवेदनाध्यक्षतः वर्ण-संस्थानसदाद्यनेकाकारस्य स्थूलस्य पूर्वापरस्वभावपरित्यागोपादानात्मकस्य घटादेवहिरेकस्य इन्द्रियजाध्य-२० क्षतः संवेदनात् मुखादि-रूपादिभेदविकलतया चैतन्य-घटादेः कदाचिदपि उपलम्भागोचरत्वात् महासामान्यस्य अवान्तरसामान्यस्य वा सर्वगताऽसर्वगतधर्मात्मकस्य व्यक्तिव्यतिरिक्तस्वभावतया कदाचित् क्वचिद अनुपलब्धेः द्रव्य-गुण-कर्मणां कथं तद्विशिष्टतया प्रतिपत्तिर्भवेत् ? समवायस्य च अनवस्थादोषतः संवन्धान्तराभावाद् द्रव्य-गुण-कर्म-सामान्य-विशेषाणामन्योन्यं तादात्म्यानिष्टौ तेषु अवृत्तेः सर्वपदार्थस्वरूपाऽप्रसिद्धिः स्यात् । स्वत एव समवायस्य द्रव्यादिषु वृत्तौ समवायमन्तरे-२५ णापि द्रव्यादयोऽपि स्वाधारेषु वृत्तिं स्वत एव आत्मसात्करिष्यन्तीति समवायकल्पनावैयर्थ्यप्र. सक्तिः। अवयविनोऽपि स्वारम्भकावयवेषु तादात्म्यानभ्युपगमे सामान्यस्येव तद्वत्सु वृत्तिविकल्पानः वस्था दिदोपप्रसङ्गान्न वृत्तिर्भवेत् वृत्तौ वा साकल्येन प्रत्याधारं ग्रहणासंभवात् व्यक्तिवद् भेदप्रसक्तिः खण्डशः प्रतिपत्तेः अगृहीतस्वभावाद् गृहीतस्वभावस्य भेदात् तथा च सामान्यादिरूपताहा. निप्रसक्तिः।
३० किञ्च, सर्वसाधारव्यापिनः सामान्यस्य द्रव्यस्य वा तद्वतां सामस्त्येन ग्रहणासंभवात् कथं तदग्रहे तब्रहणं भवेत् आधाराप्रतिपत्तौ तदाधेयस्य तत्त्वेनाप्रतिपत्तेः सामान्यायंशेषु गृहीतेष्वपि सामान्यादेवृत्तिविकल्पादिदोषस्तेष्वपि पूर्ववत् समानः तदंशग्रहणेऽपि च सामान्यस्य व्यापिनः कदाचिद अपि अप्रतिपत्तेः 'सद् द्रव्यम्' इत्यादिप्रतिपत्तिस्तद्वत्सु न कदाचिद् भवेत् तदंशानां सामान्यादेरत्यन्तभेदात् अत एव द्रव्यादिषट्पदार्थव्यवस्थाऽपि अनुपपन्ना भवेत् प्रतिभासगोचरचारिणां ३५ सामान्यायंशानां पदार्थान्तरताप्रसक्तेः । अथ निरंशं सामान्यमभ्युपगम्यत इति नायं दोषस्तर्हि सकलस्वाश्रयप्रतिपत्त्यभावतो मनागपि न सामान्य प्रतिपत्तिरिति 'सद द्रव्यं पृथिवी' इत्यादिप्रतिपत्तेनितरामभावः स्यात् । तदंशानां सामान्याद् भेदाभेदकल्पनायां द्रव्यादय एव भेदाभेदात्मकाकिं नाभ्युपगम्यन्ते इति सामान्यादिप्रकल्पना दूरोत्सारितैव इति कुतस्तद्भेदैकान्तकल्पना? ततः सामान्यविशेषात्मकं सर्व वस्तु सत्त्वात् न हि विशेषरहितं सामान्यमात्रम् सामान्यरहितं वा विशेष-४० मात्र संभवति । तादृशः क्वचिदपि वृत्तिविरोधात वृत्त्या हि सत्त्वं व्याप्तं स्खलक्षणात् सामान्यलक्षणाद वा तादृशाद् वृत्तिनिवृत्त्या निवर्तत एव यतः क्वचिद् वृत्तिमतोऽपि स्खलक्षणस्य न देशान्तरवर्तिना
१-वानन्यथा-वा. बा. भा. मां। २ अत्र लिपिकारभ्रमः आत्मनेपदमनित्यमिति न्यायादा समर्थनीयम् । ३ तत्कार-भां० मा०। ४ वृत्तिः खतोपि बृ० आ० ।