________________
को
७२८
तृतीये काण्डेनस्य च वेद्य-वेदकाकारौ भिन्नात्मानौ कथञ्चिद् अनुभवगोचरापन्नी, एतच्च प्रतिक्षणं स्वभावमेवमनुभवदपि न सर्वथा भेदवत् संवेद्यते इति संविदात्मनः स्वयमेकस्य क्रमवय॑नेकात्मकत्वं न विरोध मनुभवतीति कथमध्यक्षादिविरुद्ध निरन्वयविनाशित्वमभ्युपगन्तुं युक्तम् ? न हि कदाचित् क्वचित्
क्षणिकत्वमन्तर्वहिर् वा अध्यक्षतोऽनुभूयते 'तथैव' इति निर्णयानुत्पत्तेः भेदात्मन एव अन्तर्विज्ञानस्य ५बहिर्घटादेश्च अभिन्नस्य निश्चयात् । तथाभूतस्यापि अनुभवस्य भ्रान्तिकल्पनायां न किञ्चिद् अध्यक्ष मभ्रान्तलक्षणभार भवेत् न हि ज्ञानं वेद्य-वेदकाकारशून्यं स्थूलाकारविविक्तम् परमाणुरूपं वा घटादिकमेकं निरीक्षामहे यतः वाह्याध्यात्मिकं भेदाभेदरूपतया अनुभूयमानं भ्रान्त विज्ञानविषयतया व्यवस्थाप्येत । अतः "यथादर्शनमेव इयं मानमेयव्यवस्थितिः न पुनर्यथा
इत्येतद् अनिश्चितार्थाभिधानम् । न हि क्वचित् केनचित् प्रमाणेन एकान्तरूपं वस्तुतत्त्वमयं प्रतिपन्न. १० वान् यत एवं वदन् शोभेत । यदा च अध्यक्षविरुद्धः निरंशक्षणिकैकान्तः ततो नानुमानमपि अत्र
प्रवर्तितुमुत्सहते अध्यक्षबाधितविषयत्वात् तस्य । तेन "निरन्वयविनश्वरं वस्तु प्रतिक्षणमवेक्षमाणोऽपि नावधारयति" [
] इत्येतदपि असदभिधानम्, प्रतिक्षणविशरारुतायाः कुतश्चिदपि अनीक्षणात्।।
[एकान्तक्षणिकाक्षणिकत्वे निरस्य तदुभयात्मकत्वसाधनम् ] १५ अत एव क्षणिकत्वैकान्ते सत्त्वादिहेतुरुपादीयमानः सर्व एव विरुद्धः अनेकान्त एव तस्य
संभवात । तथाहि-अर्थक्रियालक्षणं सत्त्वम् न चासौ तदेकान्ते क्रम-योगपद्याभ्यां संभवति, यतः 'यस्मिन् सत्येव यद् भवति तत् तस्य कारणम् इतरच्च कार्यम्' इति कार्यकारणलक्षणम् क्षणिके च कारणे सति यदि कार्योत्पत्तिर्भवेत् तदा कार्य-कारणयोः सहोत्पत्तेः किं कस्य कारणम् किं वा कार्य व्यवस्थाप्येत त्रैलोक्यस्य च एकक्षणवर्तिता प्रसज्येत । 'यदनन्तरं यद् भवति तत् तस्य कार्यम् २० इतरत् कारणम्' इति व्यवस्थायां कारणाभिमते वस्तुनि असत्येव भवतस्तदनन्तरभावित्वस्य दुर्घटत्वात् चिरतरविनष्टादपि च तस्य भावो भवेत् तदभावाविशेषात् । न च अनन्तरस्यापि कार्योत्पत्तिकालमप्राप्य विनाशमनुभवतश्चिरातीतस्येव कारणता यतः अर्थक्रिया क्षणक्षयेण विरुध्येत प्राक्कालभावित्वेन कारणत्वे सर्व प्रति सर्वस्य कारणता प्रसज्येत सर्ववस्तुक्षणानां विवक्षितकार्य प्रति प्राग्भावित्वाविशेषात् तथा च स्वपरसंतानव्यवस्थाऽपि अनुपपन्नैव स्यात् । न च सादृश्यात् तद्व्य२५वस्था सर्वथा सादृश्ये कार्यस्य कारणरूपताप्रसक्तेरेकक्षणमात्रं संतानः प्रसज्येत, कथंचित्सादृश्ये
ऽनेकान्तवादप्रसक्तिः न च सादृश्यं भवदभिप्रायेण अस्ति सर्वत्र वैलक्षण्याविशेषात् अन्यथा स्वकृतान्तप्रकोपात् । न च क्षणिकैकान्तवादिनः अन्वय-व्यतिरेकप्रतिपत्तिः संभवतीति साध्यसाधनयोस्त्रिकालविषययोः साकल्येन व्याप्तेरसिद्धेः यत् सत् तत् सर्व क्षणिकम् संश्च शब्द इत्याद्यनु. मानप्रवृत्तिः कथं भवेत् ? अकारणस्य च प्रमाणविषयत्वानभ्युपगमे साध्य-साधनयोस्त्रिकालविषय३० व्याप्तिग्रहणस्य दूरोत्सारितत्वात् “नाननुकृतान्वयव्यतिरेकं कारणम् नाकारणं विषयः" [ ]
इति वचनमनुमानोच्छेदकं च प्रसक्तम् ग्राह्यग्राहकाकारज्ञानैकत्ववद् ग्राह्याकारस्यापि युगपदनेकार्थावभासिनश्चित्रैकरूपता एकान्तवादं प्रतिक्षिपत्येव भ्रान्त्यात्मनश्च दर्शनस्य अन्तर् बहिश्च अभ्रान्तात्मकत्वं कथंचिद अभ्युपगन्तव्यम् अन्यथा कथं स्वसंवेदनाध्यक्षता तस्य भवेत् तदभावेच कथं तत्स्वभावसिद्धिर्युक्ता? कथं च भ्रान्तज्ञानं भ्रान्तिरूपतया आत्मानमसंविदद् ज्ञानरूपतयाँ वा ३५ अवगच्छद् बहिस्तथा नावगच्छेत् यतो भ्रान्तैकान्तरूपता तिमिराद्युपप्लुतदृशां भवेत् ? कथं च
भ्रान्तविकल्पज्ञानयोः स्वसंवेदनमभ्रान्तमविकल्पं वा अभ्युपगच्छन् अनेकान्तं नाभ्युपगच्छेत् ? ग्राह्यग्राहकसंवित्त्याकारविवेकं संविदः स्वसंवेदनेनासंवेदयन् संविद्रूपतां च अनुभवन् कथं क्रमभाविनो. र्विकल्पेतरात्मनोरनुगतसंवेदनात्मानमनुभवप्रसिद्धं प्रतिक्षिपेत् ? ततः क्रम-सहभाविनः परस्पर
१ तथैव नि-बृ० वा. बा० । तथेति नि-आ० वि० । तथैति नि-हा० ।
२"अयं सोगतः 'यथादर्शनमेव मानमेयफलस्थितिः क्रियते न पुनर्यथातत्त्वं सा क्रियते' इत्येवं ब्रूयात्"-सिद्धिवि. टि० लि. पृ० १२२ पं० २२।
३-श्ये नैका-वृ. विना। ४ कथं न भ-वा. बा. भा. मा०। ५-या चाव-वा. बा. भां० मा० । भ्रान्तावि-भां० मा०। -वेकसं-वा. बा. भा. मा. विना ।
------- -
--------
---
---
-
-
-