________________
ज्ञेयमीमांसा।
७२७
कार्यानुभवो जनकः तदनन्तरं स्मरणस्य अभावात् । न च क्षणिकैकान्तवादे कार्यकारणभाव उपपत्तिमान् इत्युक्तम् । न च संतानादिकल्पनाप्यत्रोपयोगिनी । न च स्मरणकाले अतीततद्विषयस्मरणमात्रं प्रतीयते अपि तु तदनुभविताऽपि 'अहमेवमिदमनुभूतवान्' इति अनुभवित्राधारानुभूतविषयस्मृत्यध्यवसायात् एकाधारे अनुभव-सरणे अभ्युपगन्तव्ये तदभावे तथाऽध्यवसायानुपपत्तेः। न चानुभव-स्मरणयोः अनुगतचैतन्याभावे तद्धर्मतया प्रतिपत्तिर्युक्ता, न हि यत्प्रतिपत्तिकाले यद् ५ नास्ति तत् तद्धर्मतया प्रतिपत्तुं युक्तम् , वोधाभावे ग्राह्य-ग्राहक-संवित्तित्रितयप्रतिपत्तिवत्, अस्ति च तद्धर्मतया अनुभव-स्मरणयोस्तदा प्रतिपत्तिरिति कथं क्षणिकैकान्तवादः तत्र वा प्रतिबन्धनिश्चय इति ? न चैकान्तवादिनः सामान्यादिकं साध्यं संभवतीति प्रतिपादितम् । तस्मात् अनेकान्तात्मकं वस्तु अभ्युपगन्तव्यम् अध्यक्षादेः प्रमाणस्य तत्प्रतिपादकत्वेन प्रवृत्तेः ॥ ५९॥
[निर्दोषभावप्ररूपणाया मार्गप्रकाशनम् ] स एव च सन्मार्गः इति उपसंहरन्नाह
दव्वं खित्तं कालं भावं पज्जाय-देस संजोगे।
भेदं च पडुच समा भावाणं पण्णवणपज्जा ॥ ६॥ द्रव्य-क्षेत्र-काल-भाव-पर्याय-देश-संयोगान् भेदं चेत्यष्टौ भावान आश्रित्य वस्तुनो भेदे सति समा सर्ववस्तुविषयायाः प्रज्ञापनायाः स्याद्वादरूपायाः पर्या पन्था मार्ग १५ इति यावत् । ___ तत्र द्रव्यं पृथिव्यादि, क्षेत्रं स्वारम्भकावयवस्वरूपम् तदाश्रयं वा आकाशम्, कालं युगपदयुगपच्चिरक्षिप्रप्रत्ययलिङ्गलक्षणम् वर्तनात्मकं वा नव पुराणादिलक्षणम्, भावं मूलाङ्कुरादिलक्षणम् , पर्यायं रूपादिखभावम् , देशं मूलाङ्करपत्रकाण्डादिक्रमभाविविभागम्, संयोग भूम्यादिप्रत्येकसमुदायं द्रव्य-पर्यायलक्षणम् , भेदं प्रतिक्षणविवर्तात्मकं वा जीवाजीवादिभावानां प्रतीत्य २० समानतया तदतदात्मकत्वेन प्रज्ञापना निरूपणा या सा सत्पथ इति न हि तदतदात्मकैकद्रव्यत्वादिभेदाभावे खरविषाणादेर्जीवादिद्रव्यस्य विशेषः यतो न द्रव्य-क्षेत्र काल-भाव-पर्याय-देश-संयोगभेदरहितं वस्तु केनचित् प्रत्यक्षाद्यन्यतमप्रमाणेन अवगन्तुं शक्यम् । न च प्रमाणागोचरस्य सद्व्यवहारगोचरता संभविनीति तदतदात्मकं तद् अभ्युपगन्तव्यम् । न हि एकान्ततः अतदात्मकं द्रव्यादिभेदभिन्नम् व्यतिरिक्तरूपं च प्रमाणतस्तद् निरूपयितुं शक्यम् द्रव्यादिव्यतिरिक्तस्य शश-२५ शृङ्गवत् कुतश्चित् प्रमाणाद् अप्रतीतेः न हि ततो द्रव्यादीनां भेदेऽपि समवायसंवन्धवशात् तत्संबद्धताप्रसङ्गः संवन्धिभेदेन तद्भेदाभेदकल्पनाद्वयानतिवृत्तेः । प्रथमविकल्पे समवायानेकत्वप्रसक्तिः संवन्धि भेदतो भेदात् संयोगवद् अनित्यत्वप्रसक्तिश्च । द्वितीयकल्पनायामपि संबन्धिसंकरप्रसक्तिः। न चैवं छत्र-दण्ड-कुण्डलादिसंबन्धविशेषविशिष्टदेवदत्तादेरिव समवायिनो जाति गुणत्वादे देन उपलब्धेन(ब्धिन)हि य एव दण्ड-देवदत्तयोः संवन्धः स एव छत्रादिभिरपि तत्संवन्धाविशेषे तद्विशेषणविशेष्यवैफल्यप्रसक्तेः न हि विशेपणं विशष्यं धर्मान्तराद व्यवच्छिद्य आत्मन्यव्यवस्थापयद विशेषणरूपतां प्रतिपद्यते एवं समवायसंवन्धस्याविशेषे द्रव्यत्वादीनामपि विशेषणानामविशेषान्न जीवाजीवादिद्रव्यव्यवच्छेदकता स्यात् इति समवोयिसंकरप्रसक्तिः कथं नासज्येत? न च समवायः तह्राहकप्रमाणाभावात् संभवति तदभावे न वस्तुनो वस्तुत्वयोगो भवेदिति तद् अनेकान्तात्मकैकः रूपमभ्युपगन्तव्यम् । न चैकानेकात्मकत्वं वस्तुनो विरुद्धम् प्रमाणप्रतिपन्ने वस्तुनि विरोधायोगात । ३५ तथाहि-एकानेकात्मकम् आत्मादि वस्तु, प्रमेयत्वात् , चित्रपटरूपवत् ग्राह्यग्राहकाकारसंवित्तिरूपैकविज्ञानवद् वा । न च वैशेषिकं प्रति चित्रपटरूपस्य एकानेकत्वमसिद्धम् प्राक् प्रसाधितत्वात् । नापि ग्राह्यग्राहकसंवित्तिलक्षणरूपत्रयात्मकमेकं विज्ञानं वौद्धं प्रत्यसिद्धम् तथाभूतविज्ञानस्य प्रत्यात्मसंवेदनीयस्य प्रतिक्षेपे सर्वप्रमाण-प्रमेयप्रतिक्षेपप्रसक्तेः । स्वार्थाकारयोर्विज्ञानमभिन्नस्वरूपम्, विज्ञा
१ “पद्येत्यर्थः" बृ.टि.। २ वर्तमानात्म-भां० मा० आ०। ३-त्येकं स-वा० बा०। ४-त्मनि अनवस्था-वा. बा. भां० मा०। ५-वायसं-वृ० आ० हा० वि.।