________________
७२६
तृतीये काण्डेहेउविसओवणीयं जह वयणिजं परो नियत्तेइ ।
जइ तं तहा पुरिल्लो दाइंतो केण जिव्वंतो॥५८॥ हेतुविषयतया उपनीतम् उपदर्शितं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना 'अनित्यः शब्दः' इत्येवं यथा वचनीयं परो दूपणवादी निवर्तयति सिद्धसाध्यताऽननुगमदोषाधुपन्या५सेन एकान्तवचनीयस्य तदितरधर्माननुपक्तस्य अनेकदोषदुष्टतया निवर्तयितुं शक्यत्वात् । यदि तत् तथा द्वितीयधर्माकान्तं 'स्यात्'शब्दयोजनेन पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत ततोऽसौ नैव केनचिद् अजेष्यत । जितश्चासौ तथाभूतस्य साध्यधर्मिणोऽप्रदर्शनात् प्रदर्शितस्य च एकान्तरूपस्य असत्त्वात् तत्प्रदर्शकोऽसत्यवादितया निग्रहार्ह इति ॥ ५८ ॥
[एकान्तानिश्चितरूपाभ्यां वस्तु वदतो लौकिकपरीक्षकाग्राह्यवचनत्वकथनम् ] १० एतदेव दर्शयन्नाह
एयन्ताऽसन्भूयं सन्भूयमणिच्छियं च वयमाणो।
लोइय-परिच्छियाणं वयणिजपहे पडइ वादी ॥ ५९॥ आस्तां तावत् एकान्तेन असद्भतम् असत्यम्, सद्भतमपि अनिश्चितं वदन वादी लौकिकानाम् परीक्षकाणां च वचनीयमार्ग पतति । ततः अनेकान्तात्मकाद् हेतोः तथा१५ भूतमेव साध्यधर्मिणं साधयन् वादी सद्वादी स्यादिति तथैव साध्याऽविनाभूतो हेतुर्धर्मिणि तेन
प्रदर्शनीयः तत्प्रदर्शने च 'हेतोः सपक्ष-विपक्षयोः सदसत्त्वमवश्यं प्रदर्शनीयम्' इति यदुच्यते परैः तद् अपास्तं भवति तावन्मात्रादेव साध्यप्रतिपत्तेः । न च ततस्तत्प्रतिपत्तावपि विद्यमानत्वाद् रूपान्तरमपि तत्रावश्यं प्रदर्शनीयम् , ज्ञातत्वादेरपि तत्र प्रदर्शनप्रसक्तेः । अथ सामर्थ्यात् तत् प्रती
यत इति न वचनेन प्रदर्श्यते तर्हि अन्वय-व्यतिरेकावपि तत एव नावश्यं प्रदर्शनीयौ । अत एव २० दृष्टान्तोऽपि नावश्यं वाच्यः साधर्म्य-वैधर्म्यप्रदर्शनपरत्वात् तस्य । उपनय-निगमनवचनयोस्तु दुरापास्तता तदन्तरेणापि साध्याविनाभूतहेतुप्रदर्शनमात्रात् साध्यप्रतिपत्त्युत्पत्तेः अन्यथा तदयो. गात् । त्रिलक्षणहेतुप्रदर्शनवादिनस्तु निरंशवस्त्वभ्युपगमविरोधः निरंशे त्रैलक्षण्यविरोधात् परिकल्पितस्वरूपत्रैरूप्याभ्युपगमोऽप्यसंगतः परिकल्पितस्य परमार्थसत्त्वे तद्दोषानतिक्रमात् अपरमार्थ
सत्त्वे तल्लक्षणत्वायोगात् असतः सल्लक्षणत्वविरोधात् । न च कल्पनाव्यवस्थापितलक्षणभेदालक्ष्य२५ भेद उपपत्तिमान् इति लिङ्गस्य निरंशस्वभावस्य किञ्चिद् रूपं वाच्यम् । न च साधादिव्यतिरेकेण तस्य स्वरूपं प्रदर्शयितुं शक्यत इति तस्य निस्वभावताप्रसक्तिः । न चैकलक्षणहेतुवादिनोऽपि अनेकान्तात्मकवस्त्वभ्युपगमाद् दर्शनव्याघात इति वाच्यम् "प्रयोगनियम एव एकलक्षणो हेतुः" [ ] इति अभिधानात् । न च स्वभावनियमे तथाभूतस्य शशशृङ्गादेरिव निःस्वभावत्वात् । 'गमकाङ्गनिरूपणया एकलक्षणो हेतुः' इति व्यवस्थापितत्वात् । न च एकान्तवादिनां प्रतिबन्धग्रहणमपि ३० युक्तिसंगतम् अविचलितरूपे आत्मनि ज्ञानपौर्वापर्याऽभावात् प्रतिक्षणध्वंसिन्यपि उभयग्रहणानुवृ
तकचैतन्याभावात् 'कारणस्वरूपग्राहिणा ज्ञानेन कार्यस्य तत्वरूपग्राहिणा च कारणस्य ग्रहणासंभवात् एकेन च द्वयोरग्रहणे कार्यकारणभावादेः प्रतिबन्धस्य ग्रहणायोगात् कारणादिवरूपाव्यतिरेकेऽपि कारणत्वादेर्न तत्स्वरूपग्राहिणा कार्यकारणभावादेर्ग्रहः एकसंबन्धिस्वरूपग्रहणेऽपि तद्रहणप्रसक्तेः । न च तद्हेऽपि निश्चयानुत्पत्तेर्न दोषः सविकल्पकत्वेन प्रथमाक्षसन्निपातजस्य अध्यक्षस्य ३५व्यवस्थापनात् । न च कार्यानुभवानन्तरभाविना स्मरणेन कार्यकारणभावोऽनुसंधीयत इति
वक्तव्यम् अनुभूत एव स्मरणप्रादुर्भावात् न च प्रतिबन्धः केनचिदनुभूतः तस्य उभयनिष्ठत्वात् उभयस्य च पूर्वापरकालभाविनः एकेन अग्रहणात् । न च कार्यानुभवानन्तरभाविनः स्मरणस्य
१ जिप्पंतो गु० मू० मु० मू०। २-त्येव य-वा० बा० । ३-परिच्छया-गु० मू० मु० मू० । ४ न ख-बृ०। ५-त्पत्तेरदो-वा० बा० भां० मा० ।