________________
ज्ञेयमीमांसा |
७४१
तत्र विधेर्निवर्तकत्वम् प्रवर्तकत्वं वेष्यते एवमिहापि अभिप्रेतफलार्थी अध्येषणादेः इच्छातो वा प्रवर्तेत । न च अध्येषणादेर्व्यभिचारात् प्रवर्तकत्वमयुक्तम् यथासंभवं प्रवर्तकत्वोपपत्तेः यदा अध्ये षणा तदा तस्या एव प्रवर्तकत्वम् यदा तु प्रेषणा तदा तस्या एव । न हि रक्ततन्त्वभावेऽपि शुक्लेभ्यस्तेभ्यः पटोत्पत्तौ रक्ततन्तवो न खोत्पाद्यपटोत्पत्तौ परिणामिकारणतां प्रतिपद्यन्ते न च तद्व्यतिरिक्तोऽन्यः कश्चित् तत्र परिणामिकारणत्वमासादयति । किञ्च धात्वर्थोऽपि यदि धातुना परिनिष्पन्नोऽभिधीयते ५ तदा न विधेः पुरुषप्रेरकत्वमभ्युपगन्तव्यम् धात्वर्थस्य निष्पन्नत्वात् । सामान्यपदार्थवादिनां तु धात्वभिधेयस्य कथं पुरुषव्यापारसाध्यत्वम् सामान्यस्य नित्यतया साध्यत्वानुपपत्तेः ? न च विशेष उत्पाद्यो धातुवाच्यः तेन सह नित्यतया संबन्धायोगात् न हि अनित्येन नित्यः संबन्धो घटते अभ्युपेयते वा वाच्यवाचकतत्संबन्धानां परेण नित्यत्वाभ्युपगमात् । अपि च, विधेः प्रवर्तकत्वे कारकत्वं स्यात् न प्रामाण्यम् इच्छा प्रयत्नादेरिव तथात्वे तदनुपपत्तेः प्रवर्तकत्वं च १० यथोक्तन्यायाद् अनुपपन्नम् । एवं 'ब्राह्मणं न हन्यात्' इति प्रतिषेधविधिरपि प्रतिक्षिप्तो द्रष्टव्यः । तथाहि - अयं पुरुषं क्व प्रेरयतीति वक्तव्यम् नञर्थे, भावनायाम्, धात्वर्थे वा ? तत्र यदि नञर्थे विधिः पुरुषं प्रवर्तयति, तदयुक्तम्; नञर्थस्य अभावरूपत्वात् तत्र विधेः प्रेरकत्वासंभवात् । न हि क्रियात्मके नञर्थे कस्यचित् प्रेरकत्वमुपपत्तिमत् । अथ वधप्रवृत्तं पुरुषं निवर्तयति प्रतिषेधविधिः, अयुक्तमेतत् प्रतिषेधेनैव निवर्तित्वाद् विधेस्तत्र नैरर्थक्यात् । अथ प्रतिषेधनिषिद्धस्य अनिवृत्तेस्तत्र १५ विधीयते विधिनिषिद्धोऽपि यदि न निवर्तते तदा किमाश्रयणीयम् ? अथ भावनायां विधेः प्रवर्तकत्वम्, अयुक्तमेतत्; रागत एव तस्यामस्य प्रवृत्तेः विधेर्वैयर्थ्यात् । न च धात्वर्थेऽपि तमसौ प्रवर्तयति, तत्रापि रागादेवास्य प्रवृत्तेः । विधिर्हि अप्रवृत्तप्रवर्तकः रागात् प्रवृत्तस्य च प्रवर्तने विधित्वायोगात् । अथ नञ्संबद्धभावनायां विधिः प्रवर्तयति, नः नञर्थसंबद्धायास्तस्या अभावरूप• त्वेन प्रवृत्तिविषयत्वानुपपत्तेः । अथ नञर्थविशिष्टधात्वर्थे प्रतिषेधविधिना पुरुषः प्रवर्त्यते, नैतत् २० सारम् ; तस्यापि नञर्थविशिष्टस्य अभावरूपत्वात् प्रवृत्तिविषयत्वायोगात् । न च भावनायां हनन - विशिष्टायां रागात् प्रवर्तमानः पुरुषः प्रतिषेधपर्युदस्तायां विधिना नियुज्यते, अभावविशिष्टाया भावनाया विधिविषयत्वायोगात् । न चासौ हननाभावविशिष्टा विधिविषयतां प्रतिपद्यते, अभावस्य अव्यापाररूपतया भावनां प्रति व्यवच्छेदकत्वायोगात् । न च हन्तिर्नत्रुपहितः । अभक्ष्याऽस्पर्शनीयन्यायेन हननव्यतिरिक्तधात्वर्थान्तराभिधायकत्वात् तदवच्छिन्नां भावनां प्रकाशयति सा च विधेर्गो - २५ चरतां प्रतिपद्यते इति वक्तव्यम्, यतो भावनायां हननव्यतिरिक्तधात्वर्थमात्रविशिष्टायां विधेः प्रवर्तकत्वमेव न निवर्तकत्वम् प्रवर्तकत्वैकरूपत्वेन तस्याऽभ्युपगमात् तच्च यथा तस्य न संभवति तथा प्रतिपादितमेव । तन्न मीमांसकाभिप्रायेण विधेः प्रवर्तकत्वम् निवर्तकत्वं वा संभवति । तेन"साधने पुरुषार्थस्य संगिरन्ते त्रयीविदः । बोधविधौ समायत्तम्”
] इत्याद्यसंगतार्थाभिधानम् ।
३०
ये तु भावनां वाक्यार्थत्वेन प्रतिपादयन्ति भावना हि भाव्येऽर्थे स्वर्गादिके पुरुषस्य व्यापारः "भाव्यनिष्ठो भावकव्यापारो भावना" [ [] इति वचनात् सा च 'किं केन कथम् ' इति त्र्यंशपरिपूर्णा - किम् इति स्वर्गम्, केन इति दर्श- पूर्णमास्यादिना भावयन् कथम् इति इतिकर्तव्यतां दर्शयति प्रयोगादिव्यापाररूपाम् - इयमित्थंभूता भावना पदार्थप्रतिपाद्या पदानां वाक्यार्थप्र तिपादने सामर्थ्याभावात् तानि हि स्वार्थप्रतिपादनमात्रेण निवृत्तव्यापाराणि न वाक्यार्थबोधक्षमाणि ३५ आकाङ्क्षासन्निधियोग्यतावच्छिन्नानां पदार्थानामेव अन्वय-व्यतिरेकाभ्यां वाक्यार्थवेदकत्वप्रतिपत्तेः । तथाहि - पदश्रवणाभावेऽपि यदा श्वेतगुणं द्रव्यं पश्यति अश्वजातिं च 'हेषा' शब्दाद् अनुमिनोति क्रियां च खुरविक्षेपादिशब्देन च बुध्यते तदा'श्वेतोऽश्वो धावति' इति अवगच्छति । उक्तं च"पश्यतः श्वेतमारूपं 'हेषा' शब्दं च शृण्वतः । पदविक्षेपशब्दं च श्वेताश्वो धावतीति धीः” ॥
[ श्लो० वा० वाक्याधि० श्लो० ३५८ ]
१ अत्र 'निवर्तितत्वाद विधेस्तत्र' इति पाठः संभाव्यते । २ विधेवि - (-घेर्वि ) - बृ०।
३ अत्र 'श्वेतता' इत्यपि संभाव्येत । “श्वेतिमा " - छो० वा० ।
४०