________________
७४२
तृतीये काण्डेयंत्र चापचारात् मानसात् शृण्वन्नपि पदानि पदार्थान् नावधारयति तत्र न भवति वाक्यार्थप्रत्यय इति व्यतिरेकबलात् पदार्थानां वाक्यार्थावेदकत्वमवसीयते । उक्तं च
"भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया" ॥ "अनेकगुणजात्यादिविकारार्थानुरञ्जिता"।
[श्लो० वा० वाक्याधि० श्लो० ३३०-३३१] एतेऽपि अयुक्तवादिन एव, पुरुषव्यापारस्य तद्व्यतिरिक्तस्य प्राक् प्रतिषिद्धत्वात् वाक्यार्थानुपपत्तेः । तत्सत्त्वेऽपि यदि असौ पदार्थाद् अभिन्नस्तदा पदार्थ एव स्यात् न वाक्यार्थः तथा च कुतः पदार्थगम्यता । न च पदार्थस्य सामान्यात्मकत्वात् कार्यता ततो न धर्मरूपता तथा च प्रत्यक्षादिगोचरत्वात्
चोदनायास्तदनुवादकत्वेन तद्विषयत्वेन प्रवर्तमानाया न प्रामाण्यं स्यात् इत्युक्तं प्राक् । न च पदाना१० मपि प्रामाण्यं स्मृत्युत्पादकत्वेन भवद्भिरभ्युपगम्यते
“पदमप्यधिकाभावात् स्मारकान्न विशिष्यते" [श्लो० वा० शब्दप० श्लो० १०७] इति अभिधानात् । तथा च न कचिदर्थे शाब्दस्य प्रामाण्यं भवेत् । अथ क्रियाकारकसंसर्गरूपः पदार्थादर्थान्तरं वाक्यार्थः ननु असावपि यदि अनित्यस्तदा कारकसंपाद्यः, पदार्थसंपाद्यो वा ? न कारक
संपाद्यः स्वकृतान्तप्रकोपात् । पदार्थोत्पाद्यत्वेऽपि य एव पदार्थास्तस्योत्पादकास्त एव यदि ज्ञापका१५ स्तदा पूर्व किं ज्ञापकाः, उत उत्पादका इति वक्तव्यम् । यदि प्राक् ज्ञापकास्तदा तदुत्पादितं ज्ञानमवि
द्यमानवाक्यार्थविषयत्वात् केशोन्दुकादिज्ञानवत् अप्रमाणं स्यात् कर्तव्यतया ते तं ज्ञापयन्तीति चेत्, न; तस्यामपि भावाभावोभयानुभयविकल्पानतिक्रमात् । आद्यविकल्पे तत्कर्तव्यताया भावस्वभावतया विद्यमानवाक्यार्थविषया चोदना स्यात् तथा च विद्यमानोपलम्भनत्व-तत्संप्रयोगजत्वोपपत्तेः अध्य
क्षवन्न भावना अर्थविषया स्यात् । अथ अभावस्वभावा कर्तव्यता, न; अभावस्य तुच्छतया कर्तुम२०शक्तेः। अतुच्छत्वेऽपि स्खेन रूपेण विद्यमानत्वात् कर्तव्यताऽसंभवात् । न च अभावविषयं चोदनायाः परैः प्रामाण्यमभ्युपगम्यते अभावप्रमाणविषयत्वाच्च अभावस्य तद्विषयत्वे चोदनाया अनुवादकत्वाद् अप्रामाण्यप्रसङ्गश्च । न च उभयाकारताऽपि, उभयदोषप्रसक्तेः । अनुभयविकल्पेऽपि चोदनाजनितज्ञानस्य निर्विषयताप्रसक्तिः । अथ ते तं प्राग उत्पादयन्ति पश्चाद् ज्ञापयन्ति इत्यभ्युपगमः सोऽपि
अनुपपन्नः विद्यमानार्थविषयत्वेन चोदनायाः प्रत्यक्षाद्यवगतार्थगोचरत्वाद् अप्रामाण्यप्रसक्तेः । अथ २५ नित्यो वाक्यार्थः पदार्थैः प्रतिपाद्यते नन्वेवं विद्यमानार्थगोचरत्वं चोदनायाः स्यात् तथा च 'त्रिकालशून्यकार्यरूपार्थविषयविज्ञानोत्पादिका चोदना इत्यभ्युपगमव्याघातः।
अपि च, वाक्यार्थमवबोधयन्तः पदार्थाः किं शब्दप्रमाणतया अवबोधयन्ति, उत अनुमानत्वेन, आहोस्वित् अर्थापत्तितः, उतस्वित् प्रमाणान्तरत्वेन इति विकल्पाः । यद्याद्यो विकल्पः स न युक्तः, पदार्थानामशब्दात्मकत्वात् । अथ द्वितीयः सोऽपि न युक्तः, पदार्थानां वाक्यार्थाविनामावित्वेन प्रार ३० अप्रतिपत्तेः अनुमानानवतारात् । न च वाक्यार्थस्य प्रमाणान्तरागोचरत्वात् पदार्थव्यापकताऽनवगता अनुमानगोचरः अन्यत्रापि तथाभावप्रसक्तेः वाक्यार्थाविनाभावित्वावगमे वा पदार्थानां चोदनाया अनुवादरूपताप्रसक्तेरप्रामाण्यानुषङ्गः। न च पदार्थानां पक्षधर्मता क्वचिद् अवगम्यते । न च तद्वगमव्यतिरेकेण अनुमानप्रवृत्तिः । न च अर्थापत्तिरूपत्वेन पदार्था वाक्यार्थमवबोधयन्ति 'चोदनालक्षणोऽर्थो धर्मः' इत्यभ्युपगमव्याघातप्रसक्तः। न च अर्थापत्तिरनुमानाद् विशिष्यते इति
१ यत्र चापचारात् मानसाच्छ-वा० बा. भा० म०। यत्र चापरात् मानसाच्छु-बृ० आ० हा. वि०। यत्र चापरात्मा न स्याच्छु-वृ० सं० ।
पार्थसारथिमिश्रेण शाबरवचनमित्थमुद्धतम्
"मानसादपचारादुचरितेभ्योऽपि पदेभ्य." श्लो० वा. पार्थ० व्या. पृ० ९४६ पं० १५। मुद्रिते शाबरे तु इत्थं पाठो दृश्यते-"मानमादप्याघाताद् यदुच्चरितेभ्यः पदेभ्यः"-पृ० २५ पं० १७ । “यत्रापि मानसापचारादग्रहणं तत्रापि" -श्लो. वा. पार्थ० व्या० पृ. ९४७ पं. १०।
"मानसेनापराधेन पदार्थान् ये न गृह्णते"-श्लो० वा. वाक्याधि० श्लो० ३६० ।
"किञ्च, अन्वयव्यतिरेकाभ्यामपि पदार्थानां निमित्तत्वमवसीयते । उच्चरितेभ्योऽपि पदेभ्यः कदाचिद् मानसादपचारात् पदार्थाग्रहणे वाक्यार्थाग्रहणात्"-शास्त्रदी० युक्तिस्नेहप्रपूरणी सिद्धान्तचन्द्रिका पृ० १६० पं० २६ ।