________________
ज्ञेयमीमांसा ।
७४३ प्राक् प्रतिपादितत्वात् । न च प्रमाणान्तरात्मकाः सन्तः पदार्था वाक्यार्थं गमयन्ति, तृतीयविकल्पोक्तदोषप्रसक्तेः । अथ 'पदेभ्यः पदार्थाः तेभ्यश्च वाक्यार्थः प्रतीयते' इति पारम्पर्यण चोदनाया धर्म प्रति निमित्तता तर्हि श्रोत्रात् पदज्ञानम् ततोऽपि पदार्थविज्ञानम् तस्माच्च धर्मज्ञानम् इति प्रत्यक्ष. लक्षणोऽर्थो धर्मः प्रसक्तः । अथ साक्षाद् धर्म प्रत्यक्षस्य व्यापाराभावान्न प्रत्यक्षलक्षणता धर्मस्य तर्हि चोदनाया अपि साक्षात् तत्र व्यापाराभावान्न चोदनालक्षणोऽपि धर्मः स्यात् । पदं च५ पदार्थस्यापि स्मारकत्वाद् न वाचकम् । न च वाक्यार्थे स्मर्यमाणपदार्थसंबद्धतयाऽविज्ञाते पदार्थस्मरणान्यथानुपपत्त्या प्रतिपत्तिर्युक्ता । न च संबन्धो वाक्यार्थेन सह कस्यचिद् अवगन्तुं शक्यः संबन्ध्यवगमपुरस्सरत्वात् संबन्धप्रतिपत्तेः स्मर्यमाणपदार्थप्रतिपत्त्यन्यथानुपपत्तिं च विना नान्यतो वाक्यार्थप्रतिपत्तिः तामन्तरेण च नान्यथानुपपत्तेः प्रवृत्तिः इति इतरेतराश्रयप्रवृत्तेर्न कथंचिद् वाक्यार्थप्रतिपत्तिः स्यात् । संबन्धावगममन्तरेण अपि पदार्थानां वाक्यार्थावेदकत्वे एकपदार्थसमु.१० दायस्य सर्ववाक्यार्थावेदकत्वप्रसक्तिः। यदपि मानसाद अपचारात् पदश्रवणेऽपि पदार्थानवगमाद न वाक्यार्थज्ञानं दृष्टमिति पदार्थानामेव वाक्यार्थावबोधकत्वमवसीयत इत्युक्तम् तदपि अचारु; विशिष्टपदसमुदायात् कथंचिद् अभिन्नस्य वाक्यस्यैव अनवबोधात् तत्र वाक्यार्थप्रतिपत्त्यनुत्पत्तेन पुनः पदार्थानवगमात् । न हि उपहतमनसो वाक्यात्मकपदानां श्रोत्रसंबन्धमात्रेण अवगमः न चानवगतं स्वरूपेण वाक्यं वाक्यार्थसंबद्धत्वेन वा स्वार्थ प्रतिपादयति अतिप्रसङ्गात् । यदि च उपहतमनाः १५ पदानि शृणोति तदर्थान् किमिति नावधारयति ? अथ परामर्शरूपं तदर्थावधारणं तर्हि पदश्रवणमपि निश्चयात्मकमेव अभ्युपगन्तव्यम् अतदात्मकस्य तच्छ्रवणस्य स्वाप-मद-मूर्छादिष्विव परमार्थतोऽश्रवणरूपत्वात् अविकल्पज्ञानस्य अज्ञानरूपतया व्यवस्थापितत्वात् । पूर्वपदानुविद्धं चान्त्यपदं यदा वाक्यम् पूर्वपदानि च स्वाभिधेयविशिष्टतया अन्त्यपदप्रतिपत्तिकाले परामृश्यमानानि वाक्यार्थप्रतिपत्तिजनकानि तदा पदार्थानवगमे वाक्यस्यैव स्वार्थाभिसंबद्धतया अनवगमात् कथं ततो२० वाक्यार्थप्रतिपत्तिर्भवेत् ? तथाहि-'गौर्गच्छति' इति वाक्यप्रयोगे गोशब्दात् सामान्यविशेषात्मक गवार्थ गच्छत्याद्यन्यतमक्रियासापेक्षं प्राक् प्रतिपद्यते 'गच्छति' इत्येतस्माच्च तमेव प्रति नियतगमिक्रियावच्छिन्नमवगच्छति ततः क्रियाद्यवच्छिन्नः सामान्यविशेषात्मको वाक्यार्थो व्यवतिष्ठते पदसमुदायात्मका वाक्यात् पदार्थात्मकस्यैव तस्य प्रतिपत्तेः । यस्मिन्नुच्चरिते यः प्रतीयते स एव तस्यार्थः इति शाब्दिकानां व्यवहारात् । यश्च शब्दमन्तरेणापि अध्यक्षादेरर्थः प्रतीयते न स शब्दार्थः २५ तेन 'पश्यतः श्वेतमारूपम्' इत्याद्यभिधानं प्रकृतानुपयोग्येव अतः पदानि हि खं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथेदानी पदार्थाः प्रागवगताः सन्तो वाक्यार्थ गमयन्ति तस्मात् पदेभ्यः पदार्थप्रत्ययः पदार्थेभ्यो वाक्यार्थप्रत्ययः
“पदार्थानां तु मूलत्वमिष्टं तद्भावभावतः"। "पदार्थपूर्वकस्तस्माद् वाक्यार्थोऽयमवस्थितः”।
[श्लो० वा० वाक्याधि० श्लो० १११,३३६ ] इत्यादि यत् परैरुक्तम् तत् अपास्तं भवति अतो नाभिहितान्वयः नापि अन्वितानां क्रिया-कारकादीनामकान्ततोभिधानम् यतः पदार्थः पदार्थान्तरसंसक्त एव यदि पदेन अभिधीयते तदा प्रथमपदेनैव वाक्यार्थस्य अभिहितत्वात् शेषपदोच्चारणमनर्थकमासज्येत पदस्य च वाक्यरूपताप्रसक्तिः विशेषाभिधायित्वात् यावन्ति च वाक्ये पदानि तावन्ति वाक्यानि स्युः यावन्तश्च पदार्था वाक्यार्था अपि ३५ तावन्त एव प्रसज्येरन् । यदि च पदार्थानेकत्वेऽपि एक एव वाक्यार्थस्तदा प्रतिपादितार्थप्रतिपादकत्वात् शेषपदार्थपदानां पौनरुक्त्यमासज्येत । अन्वितार्थाभिधायकत्वे च पदस्य 'गौः' इत्युक्ते 'गच्छति'आदिक्रियाविशेषाकाङ्क्षा न स्यात् तत एव क्रियाविशेषसंसर्गस्य अवगतत्वात् । न च विशेषाणामानन्त्यात् समयकरणाशक्तेरसंकेतितस्य च अतिप्रसङ्गतः प्रतिपादनसामर्थ्यायोगात् पदानां विशेषप्रत्यायनसामर्थ्य स्यात् । न च केवलसामान्याभिधायि पदं संभवति सामान्यस्य अर्थक्रियाऽनिर्वर्तक-४० त्वेन व्यापित्वेन चानयनादिक्रियासंसर्गाभावात् ततश्च सामान्य-विशेषयोरन्यतरस्यापि पदेन अनभिधानात् कथमन्विताभिधानम् ? सामान्यस्य नित्यत्वात् एकत्वाच्च पदेन सह संकेतसद्भावात्
१ प्रत्यध्यक्षमा बृ० । २-णाप्यक्षादे-भा० मा० । ३ पृ० ७४१ पं० ३९ । ४-शेषणानामा-बृ. ।