________________
७४४
तृतीये काण्डेपदार्थत्वेऽपि वाक्यार्थस्य तत्संबद्धत्वेन अग्रहणात् कुतस्तत्प्रतिपत्तिरित्युक्तं प्राक। यदि च पदात पदार्थ उत्पन्नं ज्ञानं वाक्यार्थपर्यवसायि अभ्युपगम्येत चक्षुरादिप्रभवं रूपादिज्ञानं गन्धादिपर्यवसितं तदा प्रसज्येत । अथ चक्षुरादिप्रभवं रूपादिज्ञानं न गन्धादिसाक्षात्कारि इति नायं दोषस्तर्हि पदप्रभवं पदार्थज्ञानमपि न वाक्यार्थावभासि इति न तत्पर्यवसितमभ्युपगन्तव्यम् । चक्षुरादेर्गन्धादाविव पद५स्यापि वाक्यार्थसंबन्धानवगमात् सामथ्यानुपपत्तेः। न च पदात् सामान्यमात्रपदार्थप्रातपत्तावाप तद्विशेषप्रतिपत्तिः स्यात् विशेषरूपेण तु प्रवृत्त्या दिव्यवहारसमर्थो वाक्यार्थो न संसर्गमात्रम् तस्य अर्थक्रियाऽक्षमस्य श्रोत्रनभिवाञ्छितत्वात् अनभिवाञ्छितार्थप्रतिपादकस्य च वचस उन्मत्तकविरुतस्येवाप्रमाणत्वात् । न च विशेषमन्तरेण सामान्यमनुपपद्यमानं संसर्गविशेषमवबोधयतीति शक्यं
वक्तुम् आधारप्रतिपत्तावपि तद्विशेषप्रतिपत्तेरयोगात् न हि 'पय आनीयताम्' इत्युक्ते तदाधारपात्र१. मात्रप्रतिपत्तावपि कुटादिविशेषप्रतिपत्तिः संभविनी । तन्न अन्विताभिधानम् अभिहितान्वयो वा एकान्तवादिमतेन संभवी । विधिवाक्यस्य च प्रामाण्यनिरासे अर्थवादादिवाक्यानां प्रामाण्यमपास्तमेव क्रियाङ्गत्वेन तेषां परैः प्रामाण्याभ्युपगमात् अन्यथा तदयोगात् । तदुक्तम्-"आम्नायस्य क्रियार्थत्वाद् आनर्थक्यमतदर्थानाम्" [ मीमांसाद०१-२-१] इति । न च विध्यङ्गताऽपि अर्थवादादिवा
क्यानां पराभ्युपगमेन संभवति सामान्यादेस्तदर्थस्य असंभवेन विध्यर्थोपकारकत्वायोगतोऽर्थद्वारेण १५ तेषां तदङ्गत्वानुपपत्तेः। न च अर्थकृतं संबन्धमपहाय शब्दः शब्दान्तरस्य अङ्गभावमासादयतीत्यति
प्रसङ्गात् । तन्न सामान्यशब्दार्थवादिप्रकल्पितं तत् तदभिधेयं संभवतीति न प्रथमपक्षाभ्युपगमः श्रेयान् ।
द्वितीयविकल्पाभ्युपगमेऽपि विशेषाः किं समुच्चिताः शब्दवाच्याः, उत विकल्पिताः इति वक्तव्यम् । यदि विकल्पिता इति पक्षस्तदा एकविशेषव्यतिरेकेण अन्येषां विशेषाणां न विवक्षित२० दुग्धशब्दवाच्यता स्यात् ततश्च एकपयःपरमाणोरन्यत्र तत्परमाण्वादौ न दुग्धशब्दात् प्रतिपत्तिप्रवृत्ती स्याताम् । समुच्चितानामपि तेषां तच्छब्दवाच्यत्वे एकस्मिन्नपि पयसि तद्बहुत्वप्रसङ्गः परस्परविविक्तपयःपरमाणूनां तत्र अनेकत्वात् । न च तत्समुच्चयेऽपि पयः तद्व्यतिरेकेण तदनभ्युपगमात् तथा तस्याप्रतीतेश्च । न च एककार्यकारितया तथा व्यपदेशः तस्यापि वस्तुत्वे तद्रूपत्वात्
अवस्तुत्वे कार्यविरोधात् । तेषां च एकत्रैव सामर्थ्य तस्य एकस्य एकपरमाणुरूपत्वे अनुपलभ्यता२५ प्रसक्तिः अनेकाणुरूपत्वे एककार्यत्वविरोधः एकस्य तत्कर्तृकत्वविरोधश्च स्थूलैकवस्तुनस्तदेककार्यत्वे
तस्य समानरूपताप्रसङ्गः स्वारम्भावयवद्रव्यव्यापकैकरूपत्वात् । एवं च विशेषमात्रवादत्यागः। स्वावयवसाधारणैकरूपवस्त्वनभ्युपगमेऽपि च प्रतिनियतविषयप्रतिपत्त्यभावप्रसक्तिः । अनेकावयवात्मकैकस्थूलवस्त्वभावे तदाकारप्रतिपत्तरभावात् सर्वदा सर्वस्यास्तस्यास्तदाकारतयैव संवेदनात्
अन्योन्यानुविद्धाननुविद्धवस्तुव्यवस्थापकप्रमाणाभावे च प्रमाणान्तरप्रतिपन्नतथाभूतवस्तुप्रतिपाद: ३० काभिधानस्यापि असंभवात् प्रतिनियतप्रवृत्तिहेतुशाब्दव्यवहाराभावप्रसक्तिश्च अत एव तथाभूतविकल्पजननात् 'शब्दः प्रमाणमसत्यपि बाह्यस्खलक्षणविषयत्वे' इत्ययुक्तम् । 'पयः पीयताम्' इत्यभिधानोत्थापितविकल्पाकारस्य खरविषाणशब्दोत्थापितविकल्पाकाराद् अभेदप्रसक्तेः सर्वत्र तथाभूतवस्त्वनुभवाभाव एव विकल्पाकारप्रवृत्तबेहिष्प्रवृत्त्यभावश्च । न च तदध्यवसायेन तत्र प्रवृत्तिः सर्वदा
तत्तत्त्वाग्रहणे अतत्त्वस्य तत्त्वरूपतया तत्राध्यारोपासंभवात् । न चैवं मृगतृष्णिकासु अध्यारोपितो३५दकाकारस्येव तस्य प्राप्तिर्भवेत् । न च स्वलक्षणानुभवद्वारायातविकल्पप्रभवशब्दस्य संवादित्व
कल्पनाऽपि भवन्मतेन संगता निरंशक्षणिकपरमाणुवलक्षणानुभवस्याभावात् अन्यस्य चानभ्युपगमात् अभ्युपगमे वा शब्दस्य अनेकान्तवस्तुविषयप्रामाण्यप्रसङ्गः त्रिरूपलिङ्गप्रतिपादकवाक्यवत् पारम्पर्येण तस्य तत्र प्रतिबन्धात् न चैवमपि विशेषैकान्तसिद्धिः उभयवादप्राप्तिप्रसङ्गात् । तन्न द्वितीयविकल्पस्यापि संभवः। ४० तृतीयविकल्पोऽपि प्रत्येकपक्षभाविदोषप्रसङ्गतोऽनभ्युपगमविषयः न च परस्परनिरपेक्षयो।
१उन्मत्तकविरुद्धतस्ये-आ० हा०वि०। उन्मत्तकमविरुतस्ये-वा. बा। उत्तमकविरुतस्ये-भा०मा०। २-लस्वभावे भां० मा० ।-लवस्तुभावे आ० हा०वि०। ३ इत्युक्तम् वा. बा. भां० मां०। ४-वृत्ताभाबृ० आ० हा. वि.।