________________
ज्ञेयमीमांसा ।
सामान्यविशेषयोरसत्त्वे तदारब्धोभयवादो युक्तः अङ्गुलिद्वयाभावे तत्संयोगवत् । अनुभयविकल्पाभ्युपगमोऽपि असंगतः प्रतिनियतसामान्यविशेषयोरनभिधाने प्रवृत्त्यादिव्यवहाराभावप्रसक्तेः । न च अनुभयपक्षः संभवति अन्योन्यव्यवच्छेदरूपयोरन्यतरनिषेधस्य तदपरविधिनान्तरीयकत्वात् परस्परापेक्षया द्वयोरपि उपसर्जनत्वे निरपेक्षत्वे च असत्त्वमेव सापेक्षत्वे च इतरेतराश्रयदोषानुषङ्गः द्वयोरपि प्राधान्ये सापेक्षत्वानुपपत्तेरसत्त्वमेव अन्यतरस्यैव उपसर्जनत्वे निमित्तानुपपत्तिः द्वयोरपि ५ औदासीन्याभ्युपगमे अव्यवहार्यतोपपत्तिः तदतदात्मकैकवस्तुनो यथाक्षयोपशमं प्रमाणतः प्रधानोपसर्जनरूपतया प्रतिपत्त्यभ्युपगमे 'स्यात् सामान्य विशेषात्मकं वस्तु' इति अशेषरूपात्मकवस्तुप्रतिपादकत्वेन शब्दादेः प्रमाणभूतप्रतिपत्तिनिबन्धनस्य अभ्युपगमात् अनेकान्तमतानुप्रवेशः समानासमानपरिणामात्मकैकवस्तुप्रतिपादकत्वेन शब्दादेरभ्युपगमात् तस्मात् अनुगत - व्यावृत्तात्मकैकप्रतिभासजनकस्वभावं तथाभूतधर्मद्वयात्मकमेकं वस्तु अभ्युपगन्तव्यम् अन्यथा तथाभूतप्रतिभासस्य १० हेत्वभावतोऽभावप्रसक्तेः अन्यादृशस्य च तस्याऽसंवेदनात् सर्वप्रतिभासविरतिप्रसङ्ग इत्युक्तं प्राकू । न च अनादितथाभूतविकल्पप्रसववासनातस्तथाभूतप्रतिभाससद्भावात् अयमदोषः तस्या अपि अनन्तधर्मात्मकरूपताऽनभ्युपगमे तथाविधविज्ञानजनकत्वायोगात् इति असकृदावेदितत्वात् । न च सर्व एवायं प्रमाण- प्रमेयव्यवहारो भ्रान्तिरूप इति वक्तव्यम् अपरस्य अभ्रान्तरूपस्य अभावात् । न च सुगतज्ञानमभ्रान्तम् तस्य उत्पत्तिकारणाभावतोऽभावात् । न नैरात्म्यादिभावना तत्कारणम् तस्या १५ मिथ्यारूपतया अमिथ्या रूपतज्ज्ञानहेतुत्वायोगात् । न च तस्य सद्भावः सिद्धः अध्यक्षतोऽनधिगमात् । न च अनुमानतोऽपि तत्सिद्धिः तत्प्रतिवद्ध लिङ्गाप्रतिपत्तेः । न च लोकप्रसिद्धप्रमाणस्य प्रमाणता अभ्युपगता 'सर्व एवायं प्रमाण' - इत्याद्यभिधानात् । न चाप्रमाणक वस्तुभावनाप्रकर्षजं ज्ञानमभ्रान्तम् काम-शोक-भयादिज्ञानस्य भावनाप्रकर्षजस्यापि भ्रान्तत्वोपलब्धेः नैरात्म्यादेश्व वस्तुनः अप्रमाणोपपन्नत्वप्रतिपादनात् । न च सत्यभयादिज्ञानपूर्वकस्यापि भावनोत्थभयज्ञानस्य सत्यतोप - २० लब्धा इति अस्यापि असत्यताप्रसक्तिः अध्यारोपात् कामादिज्ञानस्य असत्यतेति चेत् अत्रापि अध्यारोपः समानः इन्द्रियज्ञानग्राह्यवस्तुनस्तद्विषयत्वेन अभावात् निर्विकल्पकविषयस्य विकल्पज्ञानविषयत्वविरोधात् । न च 'भावनाजमविकल्पम् विशदत्वात्' इति वाच्यम् तथात्वेऽपि तत्प्रतिभासस्य अभ्यासकृतत्वेन तत्र मिथ्यात्वोपपत्तेः । न च तत्प्रतिभासः वस्तुकृत एव न भावनाकृत इति वाच्यम् इतरत्रापि तथा प्रसक्तेः । न च प्रमाणान्तरबाधातः तत्रासौ न तत्कृतः अत्रापि तद्वाधासं- २५ भवात् क्षणिकस्य अर्थस्य प्रमाणान्तरतः प्राग् उपलब्धस्य भावनाप्रकर्षजे ज्ञाने असंभवात् अविकल्पविषयस्य भावनाविकल्पविषयत्वायोगात् तत्प्रकर्षजेऽपि तस्याऽप्रतिभासनात् । न च अन्यदा तस्य दृष्टत्वाद् न प्रमाणबाधा इतरत्रापि अस्य तुल्यत्वात् । न च निरन्वयविनाशसंगते चेतसि भावनादेः संभव इति प्रतिपादितमनेकशः । न च सौगतं ज्ञानं कथंचिदपि प्रमाणतामासादयति तन्निबन्धनत दाकारोत्पत्त्यादेर्निरस्तत्वात् 'अज्ञातार्थप्रकाशो वा' इत्यस्यापि पारमार्थिकप्रमाणलक्षणस्य प्रतिक्षिप्त ३० त्वात् । तदेवमेकान्तवादिप्रकल्पितस्य प्रमाण- प्रमेयादेः सर्वस्य अघटमानत्वात् तच्छासनं दृष्टवत् अदृष्टार्थेऽपि विसंवादित्वाद् अप्रमाणम् । तत्प्रतिपक्षभूतं च यथोक्तजीवादितत्त्वप्रकाशकं सर्वत्र दृष्टार्थे अव्यभिचारित्वात् अदृष्टार्थेऽपि सहेतुके हेयोपादेयस्वरूपे बन्ध-मोक्षलक्षणे वस्तुतत्त्वे प्रमाणमिति स्थितम् । अतः पूर्वापरैकवाक्यतया सकलानन्तधर्मात्मकजीवादितत्त्वप्रतिपादक सूत्रसंदर्भस्य नय - प्रमाणद्वारेण प्रवृत्तस्य तात्पर्यार्थज्ञाता सिद्धान्तज्ञाता न पुनरपरिहृतविरोधतदेकदेशज्ञाता । म३५ चैकदेशशः स्याद्वादप्ररूपणायाः सम्यक् समर्थ इति व्यवस्थितम् ॥ ६३ ॥
[ अर्थवशात् सूत्रस्य निष्पत्तिर्न तु निरपेक्षसूत्रमात्रेणार्थस्येति कथनम् ]
सूत्रस्य सूचनार्थत्वात् अर्थवशात् तस्य निष्पत्तिः न पुनः सूत्रमात्रेणैव अन्यनिरपेक्षेण अर्थनिष्पत्तिः इत्याह
सुत्तं अत्थनिमेणं न सुत्तमेत्तेण अत्थपडिवत्ती ।
अत्थगई उण णयवायगहणलीणा दुरभिगम्मा ॥ ६४ ॥
७४५
१ - निगेणं वा० बा० भ० मां० ।-नियेणं आ० हा०वि० ।
४०