________________
तृतीये काण्डे_अनेकार्थराशिसूचनात् सूते वा अस्माद् अर्थराशिः शेते वा अस्मिन् अर्थसमूहः श्रूयते वा अस्माद् अनेकोऽर्थ इति निरुक्तवशात् सूत्रम् । अर्यत इति अर्थः साक्षात् तस्याभिधेयः गम्यश्च सामर्थ्यात् तस्य स्थानमेव सूत्रम् यथार्थ सूत्रार्थव्यवस्थापनात् सूत्रान्तरनिरपेक्षस्य तस्य अर्थव्यवस्थापने प्रमाणान्तरबाधया तदर्थस्य तत्सूत्रस्य उन्मत्तकवाक्यवत् असूत्रत्वापत्तेः । अत एव नियु५क्त्याद्यपेक्षत्वात् सूत्रार्थस्य न सूत्रमात्रेणैव अर्थस्य पौर्वापर्येण अविरुद्धस्य प्रतिपत्तिः अयथार्थतयाऽपि अविवृतस्य तस्य श्रुतेः । अर्थस्य तु यथाव्यवस्थितस्य गतिः प्रतिपत्तिः पुनद्रव्यार्थ-पर्यायार्थलक्षणनयवादावेव गहनं विपिनम् तत्र लीना तथा च दुरधिगम्या दुरवबोधा सकलनयसम्मता. र्थस्य प्रतिपादकं सूत्रम्-"जीवो अणाइणिहणो" [
] इत्यादिवाक्यवद् न प्रमाणार्थसूचकं स्यात् प्रवृत्तानि च नयवादेन सूत्राणि । तथा च आगमः
"णस्थि णएण विहूणं सुत्तं अत्थो य जिणमए किश्चि । आसज्ज उ सोआरं णए णअविसारओ बूआ" ॥
_ [आवश्यकनि० उवग्घायनि० गा० ३८ ] इति ॥ ६४ ॥ [अधीतसूत्रस्यार्थसंपादने प्रयत्नाभावे शासनविडम्बकत्वकथनम् ] यत एवम् अनेकान्तात्मकार्थप्रतिपादकत्वेन सूत्रं व्याख्येयम्
तम्हा अहिगयसुत्तेण अत्थसंपायणम्मि जइयव्वं ।
आयरियधीरहत्था हंदि महाणं विलंबेन्ति ॥ ६५ ॥ तस्मात् इति पूर्वोक्तार्थप्रत्यवमर्शार्थः अधिगतम् अधीतम् अशेषं सूत्रं येन असौ तथाअधीततत्कालव्यावहारिकाशेषसिद्धान्तेन इति यावत् अर्थसंपादने तद्विषयप्रमाण-नय-स्वरूपावधारणे यतितव्यम् । अधीत्य सूत्रं श्रोतव्यम् श्रुत्वा च नयसर्वसंवादविनिश्चयपरिशुद्धं भाव२० नीयम् अन्यथा आचार्या धीरहस्ता अशिक्षितशास्त्रार्था अनभ्यस्तकर्माऽपि कर्मणि धृष्टतया व्याप्रियते येषां हस्तस्ते धीरहस्ता आचार्याश्च ते अशिक्षितधृष्टाश्च इति यावत् हंदि गृह्यताम् ते तादृशा महाज्ञाम् आप्तशासनं विगोपयन्ति विडम्बयन्ति इति यावत् ।
[निर्ग्रन्थानां वस्त्रपात्रादिनिषेधकस्य दिगम्बरीयमतस्य पूर्वपक्षतयोपन्यासः]
तथा च दृश्यन्त एव सर्वज्ञवचनं यथावस्थितमनवगच्छन्तो दिग्वाससो वस्त्र-पात्रादिधर्मोप२५करणसमन्वितानां यतीनां नैर्ग्रन्थ्याभावाद् न सम्यग्व्रतानि तीर्थकृद्भिः प्रतिपादितानीति प्रतिपादयन्तः। तथाहि-यद रागाद्यपचयनिमित्तनैर्ग्रन्थ्य विपक्षरूपं तत् तदुपचयहेतः यथा विशिष्टशृङ्गारानुषक्ताङ्गनाङ्गसंगादिकम् यथोक्तनैर्ग्रन्थ्यविपक्षभूतं च वस्त्रादिग्रहणं श्वेतवाससामिति । तथा, यः स्वीकृतग्रन्थः सोऽध्वनि संचरन् न अभीष्टस्थानप्राप्तिमान् भवति, यथा चौरौद्युपद्रुते पथि संचरन् असहायः स्वीकृतग्रन्थोऽध्वगः, स्वीकृतग्रन्थश्च मोक्षाध्वनि संचरन् वस्त्राद्युपकरणवान् सितपट इति। ३० तथा, यो यद्विनेयः स तल्लिङ्गानुकारी, यथा चीवरादिलिङ्गधारिसुगतविनेयो रक्तपटः व्युत्सृष्टत्यक्त
देहतीर्थकृद्विनेयाश्च भिक्षव इति । न च वस्त्राद्युपकरणाऽऽग्रहवत्सु प्रव्रज्यापरिणामः संभवी मिथ्याइष्टिष्वपि परिग्रहाग्रहवत्सु अन्यथा तत्प्रसक्तेः। तथा च प्रयोगः-श्वेतभिक्षवो महावतपरिणामवन्तो न भवन्ति न वा तत्फलसाधकाः, वस्त्र-पात्रादिपरिग्रहाग्रहयोगित्वात्, महारम्भगृहस्थवत् । न च भगवद्भिः वस्त्रग्रहणं यतीनामुपदिष्टम् तदागमे वस्त्रग्रहणप्रतिषेधस्य श्रवणात् । तथाहि३५ स्थितकल्प "आचेलक(कु)देसिय"-[
इत्यादिसूत्रेचेलग्रहणप्रतिषेधः आचेलक्यपदेन
१ पृ. १३६ । विशेषाव. गा० २२७७ । २ दिगम्बरीयमतमेतत् प्रमेयकमलमार्तण्डतोऽवगन्तव्यम्-पृ. ९५ प्र. पं. ५-द्वि. पं. ९। ३-राद्युपहते आ० । ४ स्थितकल्पा आ-बृ० आ० हा० वि०। ४ स्थितिकल्पे आ-वा. बा० । ५-चेलक्कदेसि-भा० मा० ।-चेलकेदेसि-आ० हा० वि० ।-चेल्लकहेसि-वा० बा। "आचेलकुदेसियसिज्जायरराय पिंडकिइकम्मे । वयजेठपडिक्कमणे मार्स पजोसवणकप्पो" ॥
-पञ्चाश.पृ०२६४ गा०६।