________________
ज्ञेयमीमांसा |
कृत एव । तथा, परीषहेषु अचेलपरीषहस्य यतेरुपदेशात् । तथा, " णगिणस्स वा वि मुण्डस्स" [ ] इत्याद्यागमे बहुशो यतेर्वस्त्रादिपरित्यागो भगवद्भिः प्रतिपादित इति । तत् प्रतिषिद्धं वस्त्रादिग्रहणमाचरन्तः परतीर्थिका इव कथं सम्यग्ज्ञान-दर्शन- चारित्रलक्षणमुक्तिमार्गसमन्विताः श्वेताम्बरा इति ।
७४७
[ सिद्धान्तिना पूर्वपक्षं प्रतिविधाय निर्ग्रन्थानां धर्मोपकरणतया वस्त्रपात्रादिधारणस्य संमर्थनम् ] ५
अत्र प्रतिविधीयते - 'यत् तावद् रागाद्यपचयनिमित्त इत्यादिप्रयोगोपादानम्, तत्र रागाद्यपचयनिमित्तं किमेकदेशनैर्ग्रन्थ्यम्, आहोखित् सर्वथा नैर्ग्रन्थ्यम् इति ? यदि सर्वथा नैर्ग्रन्ध्यं रागाद्यपचयनिमित्तम् तत्र तथाभूतनैर्ग्रन्ध्यस्य मुक्तव्यतिरेकेण असंभवात् मिथ्यात्वाऽविरति प्रमाद - कषाययोग - बलप्रवृत्ताष्टविधकर्मसंबन्धस्य ग्रन्थत्वात् तदभावस्य च आत्यन्तिकस्य निश्शेषतो मुक्तेषु एव संभवात् ततश्च कथं तस्य रागाद्यपचयहेतुतेति कथं न विशेषणासिद्धो हेतुः । अथ देशनैर्ग्रन्थ्यं १० रागाद्यपचयनिमित्ततयाऽत्र विवक्षितं तदाऽत्रापि वक्तव्यम् - किं तत् सम्यग्ज्ञानादितारतम्येन उपचीयमानम् आहोखिद् बाह्यवस्त्राद्यभावरूपम् ? तत्र यदि आद्यः पक्षः स न युक्तः तथाभूतस्य सम्यग्ज्ञानादिविपक्षत्वेन वस्त्रादिग्रहणस्य असिद्धेः हेतोर्विशेष्यासिद्धताप्रसक्तेः । नापि द्वितीयः वस्त्राद्यभावस्य रागाद्यपचयनिमित्तत्वासिद्धेः हेतोर्विशेषणासिद्धतादोषात् । न च वस्त्राद्यभावो रागाद्यपचयहेतुत्वेन सिद्ध इति वक्तव्यम् अतिशय रागवद्भिः पारापतादिभिर्व्यभिचारात् । न च १५ पुरुषत्वे सति वस्त्राभावो रागाद्यपचय हेतुः वस्त्रविकलनाहलैर्व्यभिचारात् । न च आर्यदेशोत्पत्तिमत्पुरुषत्वे सति असौ तद्धेतुरिति वक्तव्यम् तथाभूतकामुक पुरुषैर्व्यभिचारात् । न च व्रतधारितथाभूतपुरुषत्वे सति असौ तन्निमित्तम् तथाभूतपाशुपतैर्व्यभिचारात् । न च 'जैनशासनप्रतिपत्तिमत्तथाभूतपुरुषत्वे सति' इति विशेषणोपादानात् अदोषः, उन्मत्तदिगम्बरैर्व्यभिचारात् । न च 'अनुन्मत्तत्वे सति' इत्यपरविशेषणाद् दोषाभावः मिथ्यात्वोपेतद्रव्यलिङ्गावलम्बिदिग्वाससा व्यभि - २० चारात् । न च सम्यग्दर्शनादिसमन्वितपुरुपत्वे सति असौ तद्धेतुः विशेषणस्यैव तत्र सामर्थ्येन विशेष्यस्या सामर्थ्यतोऽनुपादानप्रसक्तेः । न च विशिष्टश्रुतसंहननविकलानामर्वाक् कालभाविपुरुषाणां वस्त्रादिधर्मोपकरणाभावे यतियोग्याहारविरह इव विशिष्टशरीरस्थितेरभावतः सम्यग्दर्शनादिसमन्वितत्व विशेषणोपपत्तिरिति विशेष्यसद्भावो विशेषणस्य बाधक एव । अथ वस्त्रादिपरिग्रहस्य तृष्णापूर्वकत्वात् तस्यां च रागादेरवश्यंभावित्वात् सम्यग्दर्शनादेश्च तद्विपक्षत्वात् तृष्णाप्रभववस्त्र - २५ ग्रहणाभावः स्वकारणनिवृत्तिमन्तरेण अनुपपद्यमानो रागादिविपक्षभूतसम्यग्ज्ञानाद्युत्कर्षविधायकत्वात् कथं तद्भावबाधकत्वेन उपदिश्यत इति न; वस्त्रादिपरिग्रहस्य तृष्णानिमित्तत्वे आहारग्रहणस्यापि तथात्वप्रसक्तेः । न च आहारग्रहणस्य परिग्रहव्यवहाराविषयत्वात् न तृष्णापूर्वकत्वमिति वाच्यम् मूर्छाविषयत्वे तस्य 'परिग्रह' शब्दवाच्यत्वोपपत्तेः "मूर्छा परिग्रहः” [ तत्त्वार्थ० ७-१२] इति वचनात् । अथ नक्- चन्दनादिवद् उपभोगार्थम् मांसादिभक्षणवत् शरीरबृंहणार्थं वा नासौ ३० गृह्यते किन्तु ज्ञानाद्युपष्टम्भनिमित्तशरीरस्थित्यादिहेतुतया अतो न तृष्णापूर्वकः नापि 'परिग्रह'शब्दवाच्यः तर्हि वस्त्रादिधर्मोपकरणग्रहणेऽपि समानमेतत् । अथ वस्त्राद्यभावेऽपि शरीरस्थितिसंभवात् तृष्णापूर्वकमेव तग्रहणम्, नः आहारेऽप्यस्य समानत्वात् । अथ तमन्तरेण चिरतरकालशरीरस्थितेरस्मदादेरदर्शनात् वेदनोपशमादिभिः षद्भिर्निमित्तैस्तस्य ग्रहणं तर्हि अनुत्तमसंहननस्य विशिष्टश्रुताऽपरिकर्मितचित्तवृत्तेः कालातिक्रान्ता दिवसतिपरिहारकृतप्रयत्नस्य षड्विधजीवनिकाय - ३५ विध्वंसविधाय्यग्न्याद्यनारम्भिणः शीताद्युपद्रवाद् वस्त्रादिग्रहणमन्तरेण शरीरस्थितेरभावात् तग्रहणमपि न्याय्यम् तथा, वाय्वादिनिमित्तप्रादुर्भूतविक्रियावल्लिङ्गसंवरणप्रयोजनपटलाद्युपधिविशेषस्य च ग्रहणं किं नाभ्युपगम्यते शीतादिबाधोपजायमानार्तध्यानप्रतिषेधार्थं युक्तकल्पादेश्चादानं किमिति
१ सविस्तरमेतत् समर्थनं विशेषावश्यकभाष्य - उत्तराध्ययनपाइअटीका - शास्त्रवार्तास मुश्चयटीकातोऽवगन्तव्यम्मा० २५५०-२६०९ । अ० २ । पृ० ३१७ द्वि०-३२५ द्वि० ।
२- णस्यास्य बा-आ० हा० वि० ।
९६ स० प्र०