________________
७४८
तृतीये काण्डेनेष्यते ? न च स्त्री-स्रक्चन्दनाद्यभावोपजायमानसंक्लेशपरिणामनिबर्हणार्थ ख्यादेरपि ग्रहणं प्रसज्यत इति वक्तव्यम् क्षुद्वेदनाप्रशमनिमित्तत्रिकोटीपरिशुद्धाहारग्रहणवद् अङ्गनासंप्रयोगसंकल्पप्रभववेदनापरिणामोपशमार्थ वृष्यतरमांसाद्याहारग्रहणस्यापि प्रसक्तेः । अथ तथाभूताहारग्रहणे सुतरां क्लिष्टाध्यवसायोत्पत्तिप्राबल्यमिति न तद्ब्रहणम् तत् ख्यादिग्रहणेऽपि समानम् । यदपि ५वस्त्राद्यभावे संक्लेशपरिणामोत्पत्तिः कातराणाम् न स्वशरीरमपि काष्ठवद् मन्यमानानां दिग्वाससाम् तथादर्शनात् इति, तदपि अनुभवविरुद्धम्। आर्तध्यानोपगतानामनन्तसत्त्वोपमर्दविधाय्यनलार म्भादिप्रतिषिद्धाचरणवत्तया तेषामुपलम्भात् तदनाचरणवतस्तु आत्महिंसकत्वेन अविरत्याश्रयणाद् अयतित्वं न्यायतः प्रसक्तम् । अथ गण्डच्छेदनादिप्रादुर्भवदुःखातिशयमसहमानकातरातुरवैत् तहुःखान्तं न शीतादिदुःखमसहमानः संसारवाधान्तमुपयातुं क्षमः तर्हि क्षुद्वेदनादुःखासहनेऽपि १० एतत् समानम् । अथ मुक्तिमार्गाविरोधित्वाद् आहारग्रहणमदुष्टम् वस्त्रादिग्रहणमपि अत एव किं नादुष्टम् ? अथ वस्त्रादेर्मलादिदिग्धस्य यूकादिसन्मू(सम्म)छनानेकसत्त्वहेतुतया तद्ब्रहणे तद्व्यापत्तेरवश्यंभावित्वात् मुक्तिमार्गाविरोधित्वं तस्यासिद्धम् तार्ह आहारग्रहणेऽपे एतत् समानम्सम्मूर्छनाद्यनेकजन्तुसंपातहेतुत्वस्य तत्परिभोगनिमित्ततद्विनाशस्य च तत्रापि संभवात् । तथाहिसंभवन्त्येव आगन्तुकाः सम्मूर्छनजाश्च अनेकप्रकारास्तत्र जन्तवः तत्परिभोगे च अवश्यंभावी तेषां १५ विनाशः भुक्तस्य च तस्य कोष्ठगतस्य संसक्तिमत्त्वात् तदुत्सर्गे अनेककृम्यादिसत्त्वव्यापत्तिरवश्य
भाविनी । अथ विधानेन तत्परिभोगादिकं विद्धतो न सत्त्वव्यापत्तिः व्यापत्तौ वा शुद्धाशयस्य तद्रक्षादौ यत्नवतो गीतार्थस्य ज्ञानादिपुष्टालम्बनप्रवृत्तेः अहिंसकत्वाद् न तद्ब्रहणं मुक्तिमार्गविरोधि तर्हि वस्त्रादिग्रहणमपि एवं क्रियमाणं कथं मुक्तिमागविरोधि स्यात् ? अथ वस्त्रादेर्मलदिग्धस्य क्षालने
अप्कायादिविनाशः बाकुशिकत्वं च अक्षालने संसक्तिदोष इति उभयतः पाशारजरिति तद्ब्रहणं २० मुक्तिमार्गविरोधि, न; आहारादिग्रहणेऽपि अस्य समानत्वात् । तथाहि-तद्दिग्धस्य आस्यादेः प्रक्षालनादौ अप्कायादिविनाशः अक्षालने प्रवचनोपघात इति तद्ब्रहणस्य मुक्तिमार्गविरोधित्वं कथं न समानम् ? अथ प्रासुकोदकादिना यत्नतस्तदिग्धाऽऽस्यादिप्रक्षालने नायं दोषः वस्त्रादिशोधनेऽपि यत्नतः क्रियमाणे अदोष एव । तेन 'न साक्षाद् वस्त्रग्रहणस्य मुक्तिसाधनत्वम् रत्नत्रयस्यैव साक्षात् तत्साधनत्वात् । नापि परम्परया रत्नत्रयकारणत्वेन तगहणस्य रत्नत्रयविरोधित्वात्-निष्परिग्रह२५विरोधि सपरिग्रहत्वमिति सकललोकप्रसिद्धम् रूपज्ञानोत्पत्तेस्तम इव । न च रत्नत्रयहेतुशरीरस्थिति
कारणत्वेन वस्त्रादिग्रहणं परम्परया मुक्तिसाधनम् तदन्तरेणापि रत्नत्रयनिमित्तशरीरस्थितिसंभवात्' इति यदुक्तम् तत् प्रदर्शितन्यायेन प्रतिक्षिप्तं द्रष्टव्यम् । आहारग्रहणेऽपि अस्य समानत्वेन प्रदर्शितत्वात् । अत एव 'साक्षात् पारम्पर्येण वा मुक्त्यनुपयोगिवस्त्रादिग्रहणं रागाद्युपचयहेतुः तत् स्वीकुर्वस्तृष्णायुक्तत्वात् यत्याभासो गृहस्थं नातिशेते' इत्यादि अपकर्णनीयम् आगमोक्तविधिना ३०वस्त्रादिग्रहणस्य हिसाद्यपायरक्षणानामत्ततया मुक्तिमागसम्यग्ज्ञानाद्युपबृहकत्वात् तत्परित्यागस्यत
अर्वाकालीनयत्यपेक्षया तदाधकत्वात् । ततो विशेष्यसद्भावे 'सम्यग्ज्ञानाद्यन्वितत्वे सति' इति विशेषणमसिद्धम् सति च अस्मिन् विशेष्यमसिद्धम् इति व्यवस्थितम् । तन्न रागाद्यपचयनिमित्तता परव्यावर्णितस्वरूपस्य नैर्ग्रन्थ्यस्य सिद्धा । अत एव व्यावर्णितखरूपनैर्ग्रन्थ्यविपक्षभूतत्वेऽपि वस्त्रादि
ग्रहणस्य न रागाद्युपचयं प्रति गमकत्वम् तद्विरुद्धेन सम्यग्दर्शनाद्युपचयेन यथोक्तवस्त्रादिग्रहणस्य १५व्याप्तत्वेन तद्विरुद्धसाधकत्वात् । दृष्टान्तस्यापि परव्यावर्णितनेग्रेन्थ्यविपक्षभूतत्वासिद्धः साधनविकलता । न च यथोक्ताङ्गनासंगादिरपि उपसर्गसहिष्णोराग्यभावनावशीकृतचेतसो योगिनो रागायुपचयहेतुः भरतेश्वरप्रभृतिषु तस्य तत्प्रक्षयहेतुत्वेन शास्त्रे श्रवणात् “जे जत्तिआ रहेज भवस्स" [
] इत्याद्यागमप्रामाण्यात् । रागाद्यपचयनिमित्तनैर्ग्रन्थ्यविपक्षभूतत्वं च
१-मार्थ रप्यतरमां-वा. बा० ।-मार्थ वृषस्यतरमां-आ• हा० वि०।-मार्थ वृषस्यत्तरमां-भा० मा० । २-वत्तदुः-आ. हा. वि.। ३
भा. मा० ।-म्मूर्छजाश्च वा.बा.। ४ संसक्किदो-वा. बा। ५जेजेतिमाए.भा. हा. वि.।