________________
ज्ञेयमीमांसा।
७४९
वस्त्राद्युपादानस्य असिद्धम् धर्मोपकरणत्वेन तस्य ग्रन्थत्वानुपपत्तेः । तथा च प्रयोगः-अर्हन्मार्गोक्तक्रियाव्यवस्थितानां सम्यग्दर्शनादिसंपयुक्तानां यतीनां वस्त्रादिकं न ग्रन्थः, धर्मोपकरणत्वात्, प्रमार्जनादिनिमित्तोपादीयमानपिन्छिकादिवत्, यत् तु कर्मबन्धहेतुतया ग्रन्थत्वेन प्रसिद्धं तत् धर्मोपकरणमपि न भवति, यथा लुब्धकादेम॒गादिबन्धनिमित्तं वागुरादिकम् । न च धर्मोपकरणत्वं वस्त्रादेरसिद्धम् वस्त्राद्यन्तरेण यतीनामुक्तलक्षणानामहत्प्रणीताऽब्रह्मपरित्यागादिलक्षणस्य व्रतसमू-५ हस्य सर्वथा संरक्षणहेतुत्वानुपपत्तेः । यच्च व्रतसंरक्षणहेतुः तद् धर्मोपकरणत्वेन परस्यापि सिद्धम् यथा पिञ्छिकादि वैधhण वागुरादि । न च पिन्छिकादेरभिष्वङ्गहेतुत्वानुपपत्तेर्धर्मोपकरणत्वं युक्तम् न वस्त्रादेः तद्विपर्ययात् इति वाच्यम् अनभिष्वङ्गनिमित्तस्यैव तस्यापि धर्मोपकरणत्वाभ्युपगमात् अभिष्वङ्गनिबन्धनस्य शरीरादेरपि अधर्मोपकरणत्वात् । न च शरीरेऽपि अप्रतिबद्धानां विदितवेद्यानां साधूनां वस्त्रादिषु 'मम इदम्' इति अभिनिवेशः । उक्तं च तत्त्वार्थसूत्रकृता १० वाचकमुख्येन
"यद्वत् तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः।।
तद्वद् उपग्रहवानपि न संगमुपयाति निर्ग्रन्थः" ॥ [प्रशमर० का० १४१] अभ्युपगमनीयं चैतत् परेणापि अन्यथा शुक्लध्यानाग्निना कर्मेन्धनं भस्मसात् कुर्वतः परित्यक्ताशेषसंगस्य केनचित् तदुपसर्गकरणबुड्या भक्त्या वा वस्त्राद्यावृतशरीरस्य ग्रन्थत्वात् परमयोगिनो मुक्ति-१५ साधकत्वं न स्यात् । अथ यत् स्वयमादत्तं वस्त्रादि तद् अभिष्वङ्गनिमित्तत्वाद् न धर्मोपकरणम्, न; स्वयं गृहीतपिछिकादिना व्यभिचारात् । अथ पिच्छिकाद्यग्रहे अप्रमार्जितासनाद्युपवेशनादिसंभवतः सूक्ष्मसत्त्वव्यापत्तिसद्भावे प्राणातिपातविरमणादिमहाव्रतधारणानुपपत्तेः तदर्थं तद्ब्रहणम् धर्मोपकरणत्वं च पिंछिकादेः अत एव उपपन्नम् तर्हि अत एव पात्रस्यापि धर्मोपकरणत्वम् तद्रहणं च उपपनम् तदन्तरेण एकत्रैव भुजिक्रियां हस्त एव विदधतामारम्भदोषतः कर-चरणक्षालने च.जलगतासं-२० ख्येयादिसत्त्वव्यापत्तितो महाव्रतधारणानुपपत्तेः । न च प्रतिगृहम् ओदनस्य भिक्षामात्रस्य उपभोगाद् वस्त्रपूतोदकाङ्गीकरणाच्चायमदोषः तथाभूतप्रवृत्तेर्युष्मासु अनुपलम्भात् प्रवृत्तावपि प्रवचनोपघातप्रसक्तेः तस्य च अबोधिबीजत्वात् -
"छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहार" [
] इत्याद्यागमप्रामाण्यात् । न च गृहस्थवाससा पूतमपि उदकं निर्जन्तुकं सर्व संपद्यते तजन्तूनां सूक्ष्मत्वात् वस्त्रस्य चाघनत्वाद् गृहिणां तच्छोधने अतिशयप्रयत्नानुपपत्तेश्च । न च कर एव प्रत्युपेक्ष्यतत्सत्त्वानुपलब्धौ तदुपभोगाद् न पूर्वोक्तो दोषः तथा अनिरीक्षणात् तदनुपलब्धावपि तदभावनिश्चयायोगात् । न च यत्ननिरीक्षणानुपलब्धा व्यापाद्यमाना अपि सत्त्वा न व्रतातिचारकारिणः विषचूर्णादेरनुपलब्धभुक्तस्य प्राणनाशहेतुत्वोपलब्धेः । न च चतुर्थरसादेः प्रासुको-३० दकस्य उपभोगाद् अयमदोषः तत्रापि सत्त्वसंसक्तिसंभवात्-करप्रक्षिप्ते तस्मिन् तन्निरीक्षणे पानोज्झनयोस्तव्यापत्तिदोषस्य अपरिहार्यत्वात् पात्रादिग्रहणे तु तत्प्रत्युपेक्षणस्य तद्रक्षणस्य च सुकरत्वात् न व्रतातिचारदोषापत्तिः । न च त्रिवारोवृत्तोष्णोदकस्यैव परिभोगात् अयमदोषः तथाभूतस्य प्रतिगृहं तत्कालोपस्थायिनः तस्य अप्राप्तेः प्राप्तावपि तस्य तृडपनोदाक्षमत्वात् तदयक्तस्य च अनुत्तमसंहननस्य इदानींतनयतेः आर्तध्यानोपपत्तेः तस्य च दुर्गतिनिबन्धनत्वात् । न च ३५ तृडादेर्दुःखस्य तपोरूपत्वेन आश्रयणीयत्वात् अयमदोषः अनशनादेर्बाह्यतपस आन्तरतपउपचयहे. तुत्वेन आश्रीयमाणत्वात् अन्यादृग्भूतस्य च अतपस्त्वात्
__“सो य तवो कायव्वो जेण मणो मंगुलं न चिंतेई"। [ पञ्चव० पृ० ३५ गा०२१४] १-त्युपेक्षतत्सत्वा-बृ० वा. बा. भां० मा० ।-त्युपेक्षितसत्वा-आ० ।
२"जेण न इंदिअहाणी जेण य जोगा ण हायंति" इत्युत्तरार्धम् । हरिभद्रः खीयेऽष्टकप्रकरणे यशोविजयः ज्ञानसारे च एनामेव गाथामनुसरतः । तथाहि
"मनइन्द्रिययोगानामहानिश्वोदिता जिनैः । यतोऽत्र तत् कथं न्वस्य युक्ता स्याद् दुःखरूपता"?॥५॥-तपोऽष्टकम् । "तदेव हि तपः कार्य दानं यत्र नो भवेत् । येन योगान हीयन्ते क्षीयन्ते नेन्द्रियाणि वा"-अष्ट.३१॥७॥