________________
७५०
तृतीये काण्डेइत्याचागमप्रामाण्यात् । स्तुतिकृताऽपि उक्तम्
___ “बाह्यं तपः परमदुश्चरमाचर त्वमाध्यात्मिकस्य तपसः परिबृंहणार्थम्” [ स्वयंभूस्तो० ८३] इति । तन्न वस्त्र-पात्रादिविकलस्येदानींतनयतेः सर्वसावद्ययोगप्रत्याख्यानं संभवतीति कथं न तस्य धर्मोपकरणत्वम् ? एवं 'यः स्वीकृतग्रन्थः' इत्यादिप्रयोगेऽपि वस्त्रादिधर्मोपकरणस्याग्रन्थ. ५त्वप्रतिपादनात् 'स्वीकृतग्रन्थश्च मोक्षाध्वनि संचरन् वस्त्राद्युपकरणवान्' इति हेतुरसिद्धः । न च तथाविधवस्त्राद्यपकरणधारिणां चौरादिभ्य उपद्रवः संभवति, तद्वत्रादेरशोभनत्वाऽल्पमूल्यत्वाभ्यां चौराग्राह्यत्वात् । अथ अधमचौरास्तथाभूतमपि गृह्णन्तीति तदग्राह्यत्वं तस्यासिद्धम्, नन्वेवं पुस्तकाद्यपि मोक्षाध्वसंचारिणा न ग्राह्यं स्यात् तत्रापि अस्य दोषस्य समानत्वात् । अथ तदपि भगवता प्रतिषिद्धम्, न; तत्प्रतिषिद्धपुस्तकादिग्राहिणामिदानींतनऋषीणां तदाज्ञाविलोपकारित्वेन १० अयतित्वप्रसक्तेः । ज्ञानाद्युपष्टम्भहेतुत्वेन तद्हणे पात्रादावपि तत एव ग्रहणप्रसक्तिः । न च पाथेयाधुपकरणरहितस्य अध्वगस्यापि अभीष्टस्थानप्राप्तिः संभविनी इति दृष्टान्तोऽपि असंगत एव सर्वस्य विशिष्टफलारम्भिणस्तदुपकरणरहितस्य तत्फलाऽप्रसाधकत्वात् । तथाहि-यो यत्रोपायविकलो नासौ तत् साधयति, यथा कृष्याधुपायविकलः तत्फलम् , अशेषकर्मविगमखभावमुक्तिफलवस्त्रादिधर्मोपकरणोपायविकलश्च मुनिर्भवद्भिरभ्युपगम्यत इति । न च क्षायिकज्ञान-दर्शन१५ चारित्राण्येव तदुपाय इति वक्तव्यम् , 'वस्त्रादिधर्मापकरणविकलस्य क्षायिकज्ञानादेरेव असंभवात्
त्वात । 'यो यद्रिनेयः' इत्यादिकोऽपि प्रयोगोऽनपपन्नः, 'सर्वथा परित्यक्तवस्त्रतीर्थकृद्विनेयत्वात्' इत्यस्य हेतोरसिद्धत्वात् भगवत एव परित्यक्तवस्त्रत्वानुपपत्तेः
“सव्वे वि एगदूसेण णिग्गया जिणवरा" [आवश्यकसू० गा० २२७] इत्याद्यागमप्रामाण्यात् । न च अस्यान्यार्थत्वम्, आचाराद्यङ्गेषु तैस्तैः सूत्रैर्भगवत्येकवस्त्रग्रहणस्य २० श्रामण्यप्रतिपत्तिसमये प्रतिपादितत्वात् । न चैवं तदा सर्ववस्त्रपरित्यागावेदकस्तत्र कश्चिदागमः श्रूयते । योऽपि-.
"वोसट्टचत्तदेहो विहरइ गामाणुगामं तु" [ इत्यागमः सोऽपि न श्रामण्यप्रतिपत्तिसमयभाविभगवन्नग्नत्वावेदकः किन्तु तदुत्तरकालं रागादिविप्रमुक्तत्वं भगवति आवेदयति न हि अनेन आगमेन भगवतो वस्त्रवैकल्यमावेद्यते।
किञ्च, यदि यो यद्विनेयः स तल्लिङ्गधारी तदा भवतामिव भगवतोऽपि कमण्डलु-टट्टिकादिलिगधारित्वप्रसक्तिः। अथ ने देवचरितमाचरितुं शक्यत इति तदगृहीतटट्टिकादिग्रहः अस्माभिः तद्व्यतिरेकेण महाव्रतधारणं कर्तुमशक्तकैराश्रीयते तर्हि
“जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण होयवं" [ इत्याद्यभिनिवेशस्त्यज्यताम् । यदपि न च वस्त्राद्युपकरणाग्रहवत्सु प्रव्रज्यापरिणामः संभवति' इत्या३० द्यभिधानम् तदपि असंगतम् ; परिग्रहाग्रहवत्सु प्रव्रज्यापरिणामस्य अस्माभिरपि अनिष्टेः । न च सर्व
सावद्ययोगविरतिप्रतिज्ञानिर्वाहनिमित्तवस्त्रादिधर्मोपकरणयोगिषु परिग्रहाग्रहवत्त्वम् अन्यथा शरीरयोगिष्वपि परिग्रहाग्रहवत्त्वं स्यात् । अथ तन्न परित्यक्तुं शक्यत इति, अविधानेन तत्परित्यागे अनेकभवानुबन्धितदनुषक्तिप्रसक्तिः विधानपरित्यागस्तु तस्य प्रस्तुतविधिनैव तर्हि वस्त्राद्युपकरणत्यागेऽपि अयमेव विधिः अन्यथा प्रव्रज्यापरिणामस्य प्रकृष्टफलनिर्वर्तकस्य वस्त्राद्युपादानमन्तरेण ३५ असंभवात् तत्संभवे च शरीरत्यागवद् वस्त्रादित्यागस्यापि स्वतः सिद्धत्वात् उत्तीर्णमहार्णवपुरुषया.
नपरित्यागस्येव प्राक् तु तत्परित्यागो महार्णवयानमध्यासीनयानपरित्यागवद अपायहेतुरेव । तेन 'श्वेतभिक्षवो महाव्रतपरिणामवन्तो न भवन्ति' इत्यादिप्रयोगे 'परिग्रहाग्रहयोगित्वात्' इत्यस्य
१-चार (चरे) स्त्व-भां० मां० ।-चरस्त्व-बृ० वा. बा० ।
२“चउव्वीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा"-आवश्यकसू. पृ. १३७ । विशेषाव. टी. पृ० १०२२, १०३२।।
३ न देव-भा० मां। ४"न हि होइ बुद्धसीसो सेयवडो नग्गखवणो वा" ॥ इत्युत्तरार्धम् ।-विशेषा व.टी. पृ० १०३२ । ५-यानमध्यमध्यासीन-आ. हा. वि. विना।