________________
ज्ञेयमीमांसा। हेतोरसिद्धतैव । यदपि न च भगवद्भिर्वस्त्रग्रहणं यतीनामुपदिष्टम्' तदपि अनधीतागमस्याभिधानम्, आचाराद्यङ्गेषु वस्त्र-पात्रैषणाध्ययनादिषु तद्हणस्य यतीनां विस्तरतो भगवता प्रतिपादनात् । तथा च औधिकोपधिर्जिनकल्पिकानां द्वादशविधः स्थविरकल्पिकानां चतुर्दशविधः निर्ग्रन्थीनां पञ्चविंशतिविधो भगवद्भिरनुज्ञातः
“जिणा बारसरूवा ओ थेरा चोहसरूविणो।
अजाणं पणवीसं तु अओ उद्दमुंवग्गहो" ॥ [ पञ्चव० गा० ७७१ ] इत्याद्यर्हदुक्तागमप्रामाण्यात् । यदपि 'स्थितकल्पे आचेलक्यम् परीषहेषु वा अचेलत्वं यतेरुपदिष्टम्' तदपि शुक्लाऽकृत्स्नवस्त्रग्रहणापेक्षया वस्त्राभावेऽपि अनेषणीयतदग्रहणापेक्षया च अन्यथा वस्त्रादिग्रहणाभिधायकस्य अनेकस्य आगमस्य एतदागमबाधितत्वेन अप्रामाण्यप्रसक्तेः यथा च भुञ्जानोऽपि एषणीयमाहारम् क्षुत्परीषहजेता यतिः अनेषणीयाहारपरित्यागात तथा वस्त्रैषणा ग्रहणात् शुक्लजीर्णवस्त्रवानपि मुनिः अचेलपरीषहजेता किं न स्यात् ?
"णगिणस्स वा वि" [ इत्योद्यपि आगमः तथाविधवस्त्रवतोऽपि नग्नत्वमाह उक्तन्यायात् दृश्यन्ते हि लोके तथाविधवस्त्रवन्तोऽपि 'नग्ना वयम्' इत्यात्मानं व्यपदिशन्तः।
"जे भिक्खू कसिणं वत्थं पड़िगाहेइ" [ इत्यादेः प्रमाण-मूल्याधिकवस्त्रग्रहणप्रतिषेधविधायिनः योग्यायोग्य-तद्ब्रहण-प्रतिषेधविधायिनश्च आगमस्य
"पिण्डं सेजं च वत्थं च चउत्थं पायमेव य।
__ अकप्पियं ण इच्छेजा पडिगाहेज कप्पियं" ॥ [ इत्यादेख्दशाड्यन्तर्गतस्य अनेकस्य सद्भावान्न गौणार्थवृत्तेरुत्तमसंहननपुरुषविशेषविषयप्रतिनियता-२० वस्थागोचरवस्त्रमोक्षप्रतिपादकतया मुख्यवृत्तेर्वा आगमलेशंस्य श्रवणमात्राद भगवत्प्रतिपादितं यतीनां वस्त्रादिग्रहणं प्रतिक्षेप्तुं युक्तम् । तत्प्रतिक्षेपकारिणो बृहस्पतिमतानुसारिण इव मिथ्यादृष्टित्वप्रसक्तेः। अतो वस्त्राद्युपकरणसमन्विताः श्वेतभिक्षवो निर्वाणफलहेतुसम्यग्दर्शन-ज्ञान-चारित्रयुक्ताः, अविकलार्हत्प्रणीतमहाव्रतसंपन्नत्वात्, गणधरादिवत् । तदेवं धर्मोपकरणयुक्तस्य महाव्रतधारिणो निर्ग्रन्थत्वाद् आर्यिकाणामपि मुक्तिप्राप्त्यविरोधः।
- [स्त्रीणां मोक्षाधिकारसमर्थनपरा चर्चा ] अथ स्त्रियो मुक्तिभाजो न भवन्ति, स्त्रीत्वात् , चतुर्दशपूर्वसंविद्भागिन्य इव । अत्र यदि 'सर्वाः स्त्रियो मुक्तिभाजो न भवन्ति' इति साध्येत तदा सिद्धसाध्यता अभव्यस्त्रीणां मुक्तिसद्भावानभ्युपगमात् । अथ 'भव्या अपि तास्तद्भाजो न भवन्ति' इति साध्यते तदा अत्रापि सिद्धसाध्यता भव्यानामपि सर्वासां मुक्तिसंगानिष्टः
"भव्वा वि ते अणंता सिद्धिपहं जे ण पावेति" [ इति वचनप्रामाण्यात् । अथ अवाप्तसम्यग्दर्शना अपि ता न तद्भाजः इति पक्षः अत्रापि सिद्धसाध्यता तवस्थैव प्राप्तोज्झितसम्यग्दर्शनानां तासां तद्भाक्त्वानिष्टेः । अथ अपरित्यक्तसम्यग्दर्शना अपि न तास्तद्भाजः तथापि सिद्धसाध्यता अप्राप्ताऽविकलचारित्राणां सम्यग्दर्शनसद्भावेऽपि तत्प्रात्यनभ्युपगमात् । अथ अविकलचारित्रप्राप्तिरेव तासां न भवति, कुत एतत् ? यदि स्त्रीत्वात परुष-३५ स्यापि सा न स्यात् पुरुषत्वात् । अथ पुरुषे सकलसावद्ययोगनिवृत्तिरूपा चित्तपरिणतिः खसंवेदना.
१-मुयग्गहो वा० बा०। २ पञ्चव० पृ. १२१ । ३-वस्त्रादिग्रहणावानपि मुनिः आ० हा. वि.। वस्त्राग्रहणात् शुक्लजीर्णवानपि मुनिः बृ०। ४ पृ. ७४७ पं० १। ५-शस्याश्रवमा-आ० ।
६ दिगम्बरमार्गानुयायिनः स्त्रीमोक्षं न संमन्यन्ते तन्मतं प्रमेयकमलमार्तण्डतोऽवबोद्धव्यम्-पृ. ९४ प्र. पं० १०-९६ ।
सविस्तर स्त्रीमोक्षसमर्थनं च उत्तराध्ययनपाइअटीका-प्रज्ञापनाटीका-शास्त्रवार्तासमुचयटीकातोऽवगन्तव्यम्-अ०३६। पृ. २०-२२ । पृ. ४२४-४३०।
-पूर्वविद्भा-बु० आ० हा० वि०। ८ साध्ये तदा बृ० सं० विना ।