________________
तृतीये काण्डे -
ध्यक्षसिद्धा स्वात्मनि अन्यैरनुमानादवसीयतेः ननु सा स्त्रियां तथैव किं नावसीयते येन तत्र तस्याः स्वाग्रहावेशवशादभावः प्रतिपाद्यते । अथ तासां भगवता नैर्ग्रन्थ्यस्य अनभिधानाद् न तत्प्राप्तिः, असदेतत्; तासां तस्य भगवता -
७५२
"णो कप्पइ निग्गंथस्स णिग्गंधीए वा अभिन्नतालपलंबे पडिगाहित्तंए” [ कप्पसु० उ० १ सू० १] ५ इत्याद्यागमेन बहुशः प्रतिपादनात् अयोग्यायाश्च प्रव्रज्याप्रतिपत्तिप्रतिषेधस्य - “अट्ठारस पुरिसेसुं वीसं इत्थीसु" [
1
इत्याद्यागमेन विधानाच्च । विशेषप्रतिषेधस्य शेषाभ्यनुज्ञापरत्वाच्च न तासां भगवत्प्रतिपादितनैर्ग्रन्थ्यनिमित्ताऽविकलचारित्रप्राप्यनुपपत्तिः । अथ तथाभूतचारित्रवत्त्वेऽपि न तासां तद्भाक्त्वमिति साध्यार्थः तथापि अनुमानबाधितत्वं पक्षस्य दोषः । तथाहि - यद् अविकलकारणं तद् अवश्य१० मुत्पत्तिमत् यथा अन्त्यावस्थाप्राप्तबीजादिसामग्रीकोऽङ्कुरः अविकलकारणश्च तस्यामवस्थायां सीमतिनीमुत्याविर्भावः इति कथं न पक्षस्य अनुमानबाधा ? अथ स्त्रीवेदपरिक्षयाभावात् न अविकलचारित्रप्राप्तिस्तासामिति न मुक्तिभाक्त्वम् तर्हि पुरुषस्यापि पुरुषवेदापरिक्षयात् न अविकलचारित्रप्राप्तिरिति न मुक्तिप्राप्तिर्भवेत् । अथ तत्परिक्षये शैलेश्यवस्थाभाविचारित्रप्राप्तिमतः पुरुषस्य मुक्तिप्राप्तिर्न प्राक् तर्हि सीमन्तिन्या अपि एवं मुक्तिप्राप्तौ न कश्चिद् दोषः संभाव्यते । अथ अस्याः १५ स्त्रीवेदपरिक्षय सामर्थ्यानुपपत्तेर्नायं दोषः ननु तत्परिक्षयसामर्थ्याभावस्तस्याः कुतः सिद्धः ? आगमात् इति चेत्, न तस्य तथाभूतस्य द्वादशाङ्ग्यामनुपलब्धेः । तत्परिक्षय सामर्थ्यप्रतिपादकस्यापि तस्य अनुपलब्धिरिति चेत्, नः
" सव्वत्थोवा तित्थयरिसिद्धा तित्थयरितित्थे अतित्थयरिसिद्धा असंखेजगुणा" [ 1 इत्यादिसिद्धप्राभृतागमस्याने कैस्य सामर्थ्यवृत्त्या सीमन्तिनीनां स्त्रीवेदपरिक्षयसामर्थ्यप्रतिपादकस्य २० उपलम्भात् न हि सर्वकर्मानीकनायकरूपमोहनीय कर्माङ्गभूतस्त्रीवेदपरिक्षयमन्तरेण तासां मुक्तिप्राप्तिरिति मुक्तिसद्भावावेदकमेव वचस्तासां सामर्थ्यावेदकं सिद्धम् । अथ स्त्रीत्वादेव न तासां तत्परिक्षयसामर्थ्यम्, नः स्त्रीत्वस्य तत्परिक्षयसामर्थ्येन विरोधासिद्धेः न हि अविकलकारणस्य तत्परिक्षयसामर्थ्यस्य स्त्रीत्वसद्भावादभावः क्वचिदपि निश्चितः येन अग्नि- शीतयोरिव सहानवस्थान - विरोधस्तयोः सिद्धो भवेत् । नापि भावाभावयोरिव अनयोरन्योन्यव्यवच्छेदरूपता अवगता येन २५ परस्पर परिहारस्थितलक्षणविरोधसिद्धिर्भवेत् । न चाविरुद्ध विधिरन्यस्याभावावेदकः अतिप्रसङ्गात् । तन्न स्त्रीत्वादपि तासां तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिः । प्रत्यक्षस्य तु इन्द्रियजस्य अतीन्द्रियपदार्थभावाभावविवेचने अनधिकार एवेति नातोऽपि तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिस्तासाम् । अतोऽनेकदोषदुष्टत्वान्न प्रकृतपक्षः साधनमर्हति । 'स्त्रीत्वात्' इति हेतुरपि यदि 'उदितस्त्री वेदत्वात्' इति उपात्तस्तदाऽसिद्धः मुक्तिप्राप्तिप्राक्तनसमयादिषु स्त्रीवेदोदयस्य तासामसंभवात् अनिवृत्ति गुणस्थान ३० एव तस्य परिक्षयात् । 'परिक्षीणस्त्री वेदत्वात्' इति च हेतुर्विपर्ययव्याप्तत्वाद् विरुद्धः । न च 'स्त्रीत्वात्' इत्यस्य 'परिक्षीणस्त्री वेदत्वात्' इत्ययमर्थः अत्रार्थे प्रकृतशब्दस्य अरूढत्वात् । अथ 'ख्याकारयोगित्वात् स्त्रीत्वात्' इति हेत्वर्थस्तदा विपर्यये बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिको हेतुः । चतुर्दशपूर्व संवित्संबन्धित्वाभावोऽपि तासां कुतः सिद्धः येन साध्यविकलो ष्टान्तो न स्यात् ? सर्वज्ञप्रणीतागमात् इति चेत्, तत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु न ३५ हि एकवाक्यतया व्यवस्थितः दृष्टेष्टादिषु बाधामननुभवन् आप्तागमः क्वचित् प्रमाणं कचिन्नेति अभ्युपगन्तुं प्रेक्षापूर्व कारिणा शक्यः । अथ विवादगोचरापन्नाऽबला अशेषकर्मक्षयनिबन्धनाध्यवसायविकला, अविद्यमानाऽधः सप्तमनरकप्रात्यविकलकारणकर्म बीजभूताध्यवसानत्वात्, यस्तु अशेष
१ स्त्रिया त वा० वा० भ० मां० ।
२ "नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहेत्तए - कप्पसु० पृ० १ ३ वीसुं इ - बृ० सं विना । ४- रित्रयप्रा- वा० बा० भ० मां० । ५- कस्या सा-आ० । विरुद्धवि - वा० वा० आ०हा०वि० । ७- न्यस्य भा-भां० मां० । ८-णधर्म - भां०] मां० ।
० १ । ६ - विरुद्ध