________________
ज्ञेयमीमांसा ।
कर्मपरिक्षयनिबन्धनाध्यवसायविकलो न भवति नासौ अविद्यमानाधः सप्तमनरकप्राप्त्यविकलकारणकर्मबीजभूताध्यवसानः, यथोभयसंप्रतिपत्तिविषयः पुरुष इति वैधर्म्यदृष्टान्तः । असदेतत् यतोऽत्रापि प्रयोगे साध्य - साधनयोः प्रतिबन्धाभावान्नातो हेतोर्विवक्षितसाध्यसिद्धिः । तथाहियथोक्ताध्यवसानं निवर्तमानमबलातः अशेषकर्मक्षयाध्यवसायनिवर्तकं कारणं वा भवद् भवेत् व्यापकं वा ? अन्यस्य निवृत्तावपि अपरनिवृत्तेरवश्यभावाभावात् अन्यथा अश्वनिवृत्तावपि गवादे-५ नियमेन निवृत्तिप्रसक्तेः । आह च न्यायवादी
" तस्मात् तन्मात्रसंबन्धः स्वभावो भावमेव वा । निवर्तयेत् कारणं वा कार्यमव्यभिचारतः " ॥ [
७५३
] इति ।
तत्र न तावत् कारणं यथोक्ताध्यवसानमशेषकर्मक्षयाध्यवसानस्य येन तन्निवृत्त्या तस्यापि निवृत्तिः स्यात् । कारणत्वे वा यत्र अशेषकर्मक्षयाध्यवसानं योगिनि संभवति तत्र अधः सप्तमनरकपृथिवीप्राध्यव - १० न्ध्यकारणस्य बीजभूताध्यवसान सद्भावात् कार्यस्य कारणाव्यभिचारित्वात् तस्य नरकप्राप्तिसद्भाव इति अनिष्टापत्तिः । न च योगिनि अशेषकर्मक्षयनिबन्धनमध्यवसानं जनयदपि नरकप्राप्तिनिबन्धनकर्मबीजभूतमध्यवसानं नरकप्राप्तिलक्षणं स्वकार्य न जनयतीति वाच्यम्, अविकलकारणस्य अवश्यंतया स्वकार्यनिर्वर्तकत्वात् अन्यथा अविकलकारणत्वायोगात् । न च यदेव तथाभूतकर्मनिर्वर्तनसमर्थ तदेव तत्क्षयहेत्वध्यवसायनिबन्धनं भवांत, भावाभावयोरेकस्मिन्नेकदा विरोधात् तन्निर्वर्तकस्य हेतोः १५ स्वभावान्तरमप्राप्नुवतस्तन्निर्व (न्निवर्त) ते कत्वविरोधात् न हि यदेव यदेवाङ्गुलिद्रव्यस्य ऋजुत्वोत्पादकम् तदेव तदैव तस्य विनाशकं संभवति एकनिमित्तयोरेकदा भावाभावयोविरोधात् । नापि तत् तस्य व्यापकम् येन ततस्तन्निवर्तमानं तदपि आदाय निवर्तेत, व्यापकत्वे वा यत्र अशेषकर्मक्षयनिबन्धनाध्यवसायसद्भावस्तत्र व्यापकस्य अवश्यभावित्वात् अन्यथा तस्य तद्व्यापकत्वायोगात् योगिनस्तद्ध्यवसायवतोऽधः सप्तमनरकप्राप्तिप्रसङ्गोऽनिष्टस्तदवस्थ एव स्यात् । न च यत्र क्लिष्टतराध्यवसायसगा- २० चस्तत्र अतिशुभतराध्यवसायेन भाव्यमिति प्रतिबन्धसंभवः तन्दुलमत्स्येन व्यभिचारात् । न च मनुष्यजातियोगित्वे सति अव्यभिचारः उत्तमसंहननेन चारित्रप्राप्तिकालार्वाक् समयभाविना सर्वपयोप्तिसंपन्नेन तथाविधक्लिष्टपरिणामवता पुरुषेण व्यभिचारात् । न च यत्र अतिशुभतरः परिणामस्तत्रापि अशुभतर परिणामेन भाव्यमित्यत्रापि प्रांतबन्धः तथाविधयोगिना व्यभिचारात् ।
२५
किञ्च, स्त्रीणां सप्तमनरकपृथ्वीप्रातिनिबन्धनकर्म बीजाध्यवसायाभावः कुतः प्रतिपन्नः ? आप्ता-: गमात् इति चेत् अशेषकर्म शैलवज्राशनिभूतशुभाध्यवसायसद्भावोऽपि तत एव अभ्युपगन्तव्यः । न हि अतीन्द्रिये एवविधेऽर्थे अस्मदादरवग्दशः आप्तागमाद् ऋत अन्यत् प्रमाणमस्ति । न च दृष्टेष्टाविरोव्याप्तवचनमसत्तकानुसारिजात विकल्पेबधामनुभवति तेषां प्राप्ताऽप्राप्त व्यापादक मतंगजविकल्पवद् श्रवस्तुसंस्पर्शित्वात् । उक्त च भर्तृहरिणा
"अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्पण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते” ॥ [
३०
1
३५
न च अत्र वस्तुनि आगमनिरपेक्षमनुमानं प्रवर्तितुमुत्सहते, पक्षधर्मादेर्लिङ्गरूपस्य प्रमाणान्तरतः प्रतिपत्तुमशक्तेः प्रातपत्तौ वा साध्यस्यापि प्रतिबन्धग्राहिणा प्रमाणेन प्रतिपत्तेनैकान्ततोऽतीन्द्रियता भवेत् । आगमानुसार चानुमानं प्रकृते वस्तुनि संवादकृदव न बाधकमितेि प्रदर्शितम् । न च आप्तवचनं स्त्री व प्रतिपादकमप्रमाणम् सप्तमनरकप्राप्तिप्रतिषेधकं प्रमाणामाते वक्तव्यम् उभयत्र आप्तप्रणीतत्वादेः प्रामाण्यनिबन्धनस्य अविशेषात् । न च एकमाप्तप्रणीतमेव न भवाते, इतरत्रापि अस्य समानस्वात् पूर्वापरोपनिबद्धाशेषदृष्टादृष्टप्रयोजनार्थ प्रतिपादकाऽवान्तरवाक्य समूहात्मकै कमहावाक्यरूपतया अर्हदागमस्य एकत्वात् तथा चान्तरवाक्यानां केषांचिद् अप्रामाण्ये सर्वस्यापि आगमस्य अप्रामाण्यप्रसक्तेः अङ्गदुष्टत्वे तदात्मकाङ्गिनोपि दुष्टत्वापत्तेः । न च प्रदर्शितवाक्यात्मकः सर्वज्ञप्रणीतागमत्वेन अस्मान् प्रति असिद्ध इति वक्तव्यम् नास्तिक-मीमांसकान् प्रति पुरुषनिर्वाणावेदकस्यापि ४० तत्प्रणीतत्वेन असिद्धेः । या च तान् प्रति तस्य तत्प्रणीतत्वावेदिका युक्तिः सा इतरत्रापि समाना