________________
तृतीये काण्डे -
पूर्वापरैकवाक्यत्व- दृष्टादृष्टाबाधितार्थत्वादेरविशेषात् । अथ स्त्रीणां घातिकर्मक्षयनिमित्ताद्यशुक्लध्यानद्वयस्यासंभवाद् न निर्वाणप्राप्तिः संभविनी; ननु कुतस्तद्वयस्य तत्राभावगतिः ? पूर्वधरस्यैव तयोः सद्भावात् “आद्ये पूर्वविदः” [ तत्त्वार्थ० ९ ३९ ] इति वचनप्रामाण्यात् । न च पूर्वधरत्वं तासां तदनधिकारित्वादिति चेत् तर्हि प्राक्तनभवानधीतपूर्वाणां वर्तमानतीर्थाधिपत्यादीनामपि ५ न तद् भवेत् तदध्ययनासंभवात् आद्यशुक्लध्यानद्वयासंभवतः तन्निमित्तघातिकर्मक्षयसमुद्भूताशेषतत्वावबोधस्वभावकेवलज्ञानाभावे न मुक्तिश्रीसंगतिः स्यादिति अनिष्टापत्तिः । अथ शास्त्रयोगागम्यसामर्थ्ययोगावसेयभावेषु अतिसूक्ष्मेष्वपि तेषां विशिष्टक्षयोपशम-वीर्यविशेषप्रभवप्रभावयोगात् पूर्वधरस्येव बोधातिरेकसद्भावाद् आद्यशुक्लध्यानद्वयप्राप्तेः कैवल्यावाप्तिक्रमेण मुख्यवाप्तिरिति न दोषः तदध्ययनमन्तरेणापि विशिष्टक्षयोपशमसमुद्भूतज्ञानात् पूर्ववित्त्वसंभवात् तर्हि १० निर्ग्रन्थीनामपि एवं द्वितयसंभवे न कञ्चिद् दोषमुत्पश्यामः अभ्युपगमनीयं चैतत् अन्यथा मरुदेवीस्वामिनीप्रभृतीनां जन्मान्तरेऽपि अनधीतपूर्वाणां न मुक्तिप्राप्तिर्भवेत् । न चासौ तेषामसिद्धा सिद्धप्राभृतादिग्रन्थेषु गृहिलिङ्गसिद्धानां प्रतिपादनात् । न च ते अप्रमाणम् सर्वज्ञप्रणीतत्वेन तेषां प्रामाण्यस्य साधितत्वात् । अथ मायागारवादिभूयस्त्वाद् अबलानां न मुक्तिप्राप्तिः, न; तदा तासां तद्भूयस्त्वासंभवात् प्राक् तु पुरुषाणामपि तत्संभवोऽविरुद्धः । अथ अल्पसत्त्वाः क्रूरा१५ ध्यवसायाश्च ताः इति न मुक्तिभाजः, न सत्त्वस्य कार्य गम्यत्वात् तस्य च तासु दर्शनात् अल्पसत्वत्वासिद्धिः । दृश्यन्ते हि असदभियोगादौ तृणवत् ताः प्राणपरीत्यागं कुर्वाणाः परीषहोपसर्गाभिभवं चाङ्गीकृतमहाव्रता विदधानाः क्रूराध्यवसायत्वं दृढप्रहारिप्रभृतीनां प्रागवस्थायां तद्भवे विद्यमानमपि न मुक्तिप्राप्तिप्रतिबन्धकम् तदवस्थायां तु तस्य तावपि अभाव एव ।
७५४
अथ लोकवद् लोकोत्तरेऽपि धर्मे पुरुषस्य उत्तमत्वात् मुक्तिप्राप्तिः न स्त्रीणाम् अनुत्तमत्वात्, २० न; अन्यगुणापेक्षाऽनुत्तमत्वस्य मुक्तिप्रायप्रतिबन्धकत्वात् अन्यथा तीर्थकगुणापेक्षया गणधरादेरपि अनुत्तमत्वात् मुक्तिप्रात्यभावो भवेत् । अथ अशेषकर्मक्षयनिबन्धनस्य अध्यवसायस्य गणधरादिषु तीर्थकृदपेक्षया तुल्यत्वात् अयमदोषः, समानमेतद् अबलाखपि तथाविधयोग्यतामापन्नासु । अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिस्तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् । अथ
“तित्थपणामं काउं” [ आवश्यकनि० समवस० गा० ४५
इत्याद्यागमप्रामाण्यात् प्रथमगणधरस्य 'तीर्थ' शब्दाभिधेयत्वात् तदवन्द्यत्वं तस्यासिद्धं तर्हि चातुवर्ण्यश्रमणसंघस्यापि 'तीर्थ' शब्दवाच्यत्वात् तत्र तु तासामन्तर्भावात् महाव्रतस्थपुरुषावन्द्यत्वं तासामपि असिद्धम् । तन्न युक्तयागमाभ्यां तासां मुक्तिप्राप्त्यभावः प्रतिपत्तुं शक्यः । तत्सद्भावस्तु प्रदर्शितागमात् युक्तितश्च प्रतीयत एव । तथाहि - विमत्यधिकरणभावापन्नाः स्त्रियो मुक्तिभाजः, ३० अवाप्ताशेषकर्मक्षयनिबन्धनाध्यवसायत्वात्, उभयाभिमतगणधरादिपुरुषवत् इत्याद्यागम-युक्तिगर्भमनुमानं निर्दोषं युक्तिशब्दवाच्यं समस्त्येव ।
२५
[ प्रतिमाभूषाया आगमविहितत्वसमर्थनम् ]
यदपि 'भगवत्प्रतिमाया न भूषा आभरणादिभिर्विधेया' इति स्वाग्रहावष्टब्धचेतोभिर्दिगंम्बरैरुच्यते तदपि अर्हत्प्रणीतागमापरिज्ञानस्य विजृम्भितमुपलक्ष्यते तत्करणस्य शुभभावनिमित्ततया ३५ कर्मक्षयाऽवन्ध्यकारणत्वात् । तथाहि - भगवत्प्रतिमाया भूषणाद्यारोपणं कर्मक्षयकारणम्, कर्तुर्मनःप्रसादजनकत्वात्, कुङ्कुमाद्यालेपनवत् । न च व्रतावस्थायां भगवता भूषणादेरनङ्गीकृतत्वात् न तत्प्रतिकृतौ तद् विधेयम् संमज्जनाङ्गरागपुष्पादिधारणस्यापि तदवस्थायां भगवताऽनाश्रितत्वात् न तत्
१ पूर्ण सूत्रं तु " शुक्ले चाद्यं पूर्वविदः" इत्येव । २ द्वितीय - भां० मां० ।
३ " कहेइ साहारणेण सद्देण । सव्वेसिं संनीणं जोअणनीहारिणा भयवं” ॥ - आवश्यकनि० पृ० १०६ । ४ तत्कार-भां० ।