Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा। तत्र विधेयं स्यात् । अथ मेरुमस्तकादिषु तदभिषेकादौ इन्द्रादिभिस्तस्य विहितत्वात् अस्मदादिभिरपि कृतानुकरणादिभिः प्रयोजनैस्तत् तत्र विधीयते तर्हि तत एव आभरणादिभिर्विभूषादिकमपि विधेयम् कृतानुकरणादेः समानत्वात् । एवमन्यदपि आगमबाह्यं स्वमनीषिकया परपरिकल्पितमागम-युक्तिप्रदर्शनेन प्रतिषेद्धव्यम् न्यायदिशः प्रदर्शितत्वात् । तदेवम् अनधीताऽश्रुतयथावदपरिभावितागमतात्पर्या दिग्वासस इव आप्ताज्ञां विगोपयन्तीति व्यवस्थितम ॥६५॥ [बहुश्रुतत्वादिदर्पात् तात्पर्यापरिज्ञानाचानिश्चितशास्त्रार्थस्य सिद्धान्तप्रत्यनीकत्वकथनम् ] यत एवं ततः
जह जह बहुस्सुओ संमओ य सिस्सगणसंपरिवुडो य ।
अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ ॥६६॥ यथा यथा बहुश्रुतः सम्यगपरिभावितार्थानेकशास्त्रश्रवणमात्रतः तथाविधाऽपराऽविदित-१० शास्त्राभिप्रायजनसंमतश्च शास्त्रज्ञत्वेन अत एव श्रुतविशेषानभिज्ञैः शिष्यगणैः समंतात् परिवृतश्च अविनिश्चितश्च समये तथाविधपरिवारदीत् समयपर्यालोचनेऽनाहतत्वात् तथा तथा सिद्धान्तप्रत्यनीकः यथावस्थितवस्तुस्वरूपप्रकाशकाहदागमप्रतिपक्षः निस्सारप्ररूपणया अन्यागमेभ्योऽपि भगवदागममधः करोतीति यावत् ॥६६॥
[क्रियाप्रधानानां ज्ञानयोगमसाधयतां क्रियाफलानुभवाभावकथनम्] १५ तस्मात् शास्त्रमधीत्य तदर्थावधारणं विधेयम् अवधृतश्च तदर्थो नय-प्रमाणाभिप्रायतो यथावत् परिभावनीयः अन्यथा तत्फलपरिज्ञानविकलताप्रसक्तिरित्याह
चरण-करणप्पहाणा ससमय-परसमयमुकवावारा।
चरण-करणस्स सारं णिच्छयसुद्धं ण याणंति ॥ ६७॥ चरणं श्रमणधर्म:
"वय-समणधम्म-संजम-वेयावञ्च बंभगत्तीओ।
णाणाइतियं तव-कोहणिग्गहाई चरणमेयं ॥ [ओघनि० गा०२] इति वचनात् । व्रतानि हिंसाविरमणादीनि पञ्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पञ्चानवविरमणादिः सप्तदशभेदः, वैयावृत्त्यं दशधा आचार्याराधनादि, ब्रह्मगुप्तयो नव वसत्यादयः, शानादित्रितयं ज्ञान-दर्शन-चारित्राणि, तपो द्वादशधा अनशनादि, क्रोधादिकषायषोडशकस्य २५ निग्रहश्च इति अष्टधा चरणम् । करणं पिण्डविशुद्ध्यादिः
"पिंडविसोही समिई भावण-पडिमाइ-इंदियनिरोहो।
पडिलेहण-गुत्तीओ अभिग्गहा चेव करणं तु" ॥ [ ओघनि० गा०३] इति वचनात् । तत्र पिण्डविशुद्धिः त्रिकोटिपरिशुद्धिराहारस्य
"संसट्टमसंसट्ठा उद्धड तह अप्पलेविया चेव ।
उग्गहिया पग्गहिया उज्झियहम्माय सत्तमिया"॥ इति सप्तधा वा, समितिः ईर्यासमित्यादिः पञ्चधा, भावना अनित्यत्वादिका द्वादश, प्रतिमा मासादिका द्वादश भिक्षूणाम् दर्शनादिका एकादश उपासकानाम्, इन्द्रियनिरोधः चक्षुरादिकरणपञ्चकसंयमः प्रतिलेखनं मुखवस्त्रिकाद्युपकरणप्रत्युपेक्षणमनेकविधम्, गुप्तिः मनो-वाक्-कायसंवरणलक्षणा विधा, अभिग्रहा वसतिप्रमार्जनादयोऽनेकविधाः-एतयोश्चरण-करणयोः प्रधानास्तदनुष्ठान-३५ तत्पराः खसमय-परसमयमुक्तव्यापारा: अयं खसमयः अनेकान्तात्मकवस्तुप्ररूपणात् अयं च परसमयः केवलनयाभिप्रायप्रतिपादनात् इत्येतस्मिन् परिशानेऽनादृता अनेकान्तात्मकवस्तुतत्त्वं यथावत् अनवबुद्ध्यमानाः तदितरव्यवच्छेदेन इति यावत् । चरणकरणयोः सारं फलम् निश्च
१-म्यकप-भां० मां० । २ ओघनि० पृ० ५। ३ ओघनि० पृ०६। ४ उव्वड आ. हा. वि.। ५ पञ्चाशकटी० पृ. २७९ द्वि. पं. ४ । ६ भिक्षुणां द्वादशानामपि प्रतिमानां स्वरूपनिरूपणं पञ्चाशकमूलतोऽवगन्तव्यम्पृ० २७७-२९१ गा० १--५०।
९७स०प्र०
Loading... Page Navigation 1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456