Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 347
________________ ७५८ तृतीये काण्डेसामान्यस्य एकत्वात् तद्विवक्षायां यदेव घटादिद्रव्यम् 'स्याद् एकम्' इति प्रथमभङ्गविषयः। तदेव देश-काल-प्रयोजनभेदात् नानात्वं प्रतिपद्यमानं तद्विवक्षया 'स्याद् अनेकम्' इति द्वितीयभङ्गविषयः। तदेव उभयात्मकमेकदा एकशब्देन यदा अभिधातुं न शक्यते तदा 'स्याद् अवक्तव्यम्' इति ५तृतीयभङ्गविषयः। यदेच चावकाशदातृत्वेन असाधारणेन एकमाकाशम् तदेव अवगाह्यावगाहकावगाहनक्रियाभेदाद् अनेकं भवति तद्रूपैर्विना तस्य अवस्तुत्वापत्तेः प्रदेशभेदापेक्षयाऽपि च तद् अनेकम् अन्यथा हिमवत्-विन्ध्ययोरपि एकदेशताप्राप्तेः तस्य च तथाविवक्षायाम् 'स्याद् एकं च अनेकं च' इति चतुर्थभङ्गविषयता। १० यदेव चैकमाकाशं भवतः प्रसिद्धं तद् एकस्मिन् अवयवे विवक्षिते एकम् अवयवस्य अवयवान्तराद् भिन्नत्वात् भिन्नानां च अवयवानां वाचकस्य शब्दस्य अभावात् अवक्तव्यं चेति तथाविवक्षायाम् 'स्याद् एकम् अवक्तव्यं च' इति पञ्चमभङ्गविषयस्तत् । यठेव एकमाकाशं प्रसिद्धं भवतः तत अवगाहाऽवगाहकाऽवगाहनक्रियामेदाद अनेकम एकानेकत्वप्रतिपादकशब्दाभावात् अवक्तव्यं च अतः 'स्याद अनेकम् अवक्तव्यं च' इति पष्ठभङ्गविषयः। १५ यदेव एकमाकाशात्मकतया आकाशं भवतः प्रसिद्धं तदेव तथैकम् अवगाह्याऽवगाहकाऽवगा हनक्रियापेक्षया अनेकं च युगपत्प्रतिपादनापेक्षया अवक्तव्यं चेति 'स्याद् एकम् अनेकम् अवक्तव्यं च' इति सप्तमभङ्गविषयः। ___एवं 'स्यात् सर्वगतः' 'स्याद् असर्वगतो घटादिः' इत्यादिकाऽपि सप्तभङ्गी वक्तव्या। यतः य एव पार्थिवाः परमाणवो घटः त एव विस्रसादिपरिणतिवशात् जलानिलानलावन्यादिरूपतामात्मसात्कु२० र्वाणाः 'स्यात् सर्वगतो घटः' इत्यादिसप्तभङ्गविषयतां यथोक्तन्यायात् कथं नासादयन्ति ? न च घट परमाणूनां पुद्गलरूपतापरित्यागे पूर्वपर्यायापरित्यागे च घटपर्यायापत्तिः क्षणिकाक्षणिकैकान्तयोरर्थक्रियानुपपत्तरसत्त्वापत्तेः परिणामिन एव सुवर्णात्मना व्यवस्थितस्य केयूरात्मना विनाशमनुभवतः कटकाद्यात्मना उत्पद्यमानस्य वस्तुनः सत्त्वात् अन्यथा क्वचित् कस्यचित् कदाचित् अनुपलब्धेः । न च अध्यक्षाद् अन्यद् गरिष्ठं प्रमाणान्तरमस्ति यतस्तद्विपरीतभावाभ्युपगमः क्रियते अन्तर्बहिश्च हर्ष२५ विषादाधनेकाकारवितर्कात्म( विवर्तात्म )कैक चैतन्य-स्थास-कोश-कुशूलाद्यनेकाकारस्वीकृतैकमृत्पि ण्डादेः स्वसंवेदनाक्षजाध्यक्षतः प्रतिपत्तेः । सर्वथोपलभ्यमध्यरूपं पूर्वापरकोट्योरसत् इति वदतः सर्वप्रमाणविरोधात् कुण्डलाऽङ्गदादिषु पर्यायेषु तादृग्भूतसुवर्णद्रव्योपलब्धेः कार्योत्पत्तौ कारणस्य सर्वथा निवृत्त्यनुपलब्धेः। न च सादृश्यविप्रलम्भात् तदध्यवसायकल्पनेति वक्तव्यम् तदेकान्तभेदसा धकप्रमाणस्यापास्तत्वात् । न च कथंचित् स्वभावभेदेऽपि तादात्म्यक्षि(क्ष)तिः ग्राह्यग्राहकाकार३०संविद्वत् विविक्तपरमाणुषु स्थूलैकघटादिप्रतिभासवद्वा ग्राह्यग्राहकाकारविविक्तसंवित्प्रकल्पने अध्य क्षधियोऽपि विवक्षिताकारविवेकानुपलब्धेरध्यक्षेतरस्वभावाभ्यां विरोधस्वरूपासिद्धौ अन्यत्राऽपिका प्रद्वेषः? तथाहि-शक्यमन्यत्रापि एवमभिधातुम्-एकमेव पार्थिवद्रव्यं लोचनादिसामग्रीविशेषात् वर्णादिप्रतिपत्तिभेदेऽपि भिन्नमिव प्रतिभाति प्रत्यासन्नेतररूपताव्यवस्थितैकविषयवत् । न हि स्पष्टा स्पष्टमिर्भासमेदेऽपि तदेकत्वैक्षितिस्तत्र तद्वद् इहापि रूपादिप्रतिभासभेदेऽपि एकत्वं किं न स्यात् ३५प्रतीतेरविशेषात् । एवं च स्याद्वादिनः अग्नेरपि अनुष्णत्वप्रसक्तिरिति असंगतमभिधानम् यतस्तत्रापि स्यात् 'उष्णोऽग्निः' इति स्पर्शविशेषेण उष्णस्य भास्वराकारेण पुनरनुष्णस्य तस्यैकस्य नानास्वभाव शक्तरबाधितप्रमाणविषयस्यैवं वचने दोषासंगासंभवात् । तस्मात् एकस्यैव सामग्रीमेदवशात् तथाप्रतिभासाविरोधः। कारणस्य च कार्यात्मनोत्पत्तौ न किश्चिद् अपेक्षणीयमस्ति यतस्तथोत्पित्सुस्वभा. वता न भवेत् । अत एव मृदादिभावो घटस्वभावेन नश्वरः कपालस्वरूपेण चोत्पत्तौ तिष्ठतीति स्वभा४० वत एव नश्वरः उत्पित्सुः स्थास्तुश्च अन्यतमापाये पदार्थस्यैव असंभवात् त्रितयभावं प्रत्यनपेक्षत्वाच्च न हि उत्पन्नः पदार्थः किश्चित् स्थितिं प्रत्यपेक्षते स्थित्यात्मकत्वात् उत्पादस्य, न च अवस्थित उत्पत्ती १ यदैव ६० आ० हा० वि० । २ तदैव बृ० आ० हा० वि०। ३ विवक्षितं । ऐ-बृ०। ४-त्वमिति तत्र भा० मा०। ५-स्तद्वद्वा० बा० आ० हा० वि०। ६-त् तृतीय-बृ० आ• हा० वि० ।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456