________________
७५८
तृतीये काण्डेसामान्यस्य एकत्वात् तद्विवक्षायां यदेव घटादिद्रव्यम् 'स्याद् एकम्' इति प्रथमभङ्गविषयः।
तदेव देश-काल-प्रयोजनभेदात् नानात्वं प्रतिपद्यमानं तद्विवक्षया 'स्याद् अनेकम्' इति द्वितीयभङ्गविषयः।
तदेव उभयात्मकमेकदा एकशब्देन यदा अभिधातुं न शक्यते तदा 'स्याद् अवक्तव्यम्' इति ५तृतीयभङ्गविषयः।
यदेच चावकाशदातृत्वेन असाधारणेन एकमाकाशम् तदेव अवगाह्यावगाहकावगाहनक्रियाभेदाद् अनेकं भवति तद्रूपैर्विना तस्य अवस्तुत्वापत्तेः प्रदेशभेदापेक्षयाऽपि च तद् अनेकम् अन्यथा हिमवत्-विन्ध्ययोरपि एकदेशताप्राप्तेः तस्य च तथाविवक्षायाम् 'स्याद् एकं च अनेकं च' इति
चतुर्थभङ्गविषयता। १० यदेव चैकमाकाशं भवतः प्रसिद्धं तद् एकस्मिन् अवयवे विवक्षिते एकम् अवयवस्य अवयवान्तराद् भिन्नत्वात् भिन्नानां च अवयवानां वाचकस्य शब्दस्य अभावात् अवक्तव्यं चेति तथाविवक्षायाम् 'स्याद् एकम् अवक्तव्यं च' इति पञ्चमभङ्गविषयस्तत् ।
यठेव एकमाकाशं प्रसिद्धं भवतः तत अवगाहाऽवगाहकाऽवगाहनक्रियामेदाद अनेकम एकानेकत्वप्रतिपादकशब्दाभावात् अवक्तव्यं च अतः 'स्याद अनेकम् अवक्तव्यं च' इति पष्ठभङ्गविषयः। १५ यदेव एकमाकाशात्मकतया आकाशं भवतः प्रसिद्धं तदेव तथैकम् अवगाह्याऽवगाहकाऽवगा
हनक्रियापेक्षया अनेकं च युगपत्प्रतिपादनापेक्षया अवक्तव्यं चेति 'स्याद् एकम् अनेकम् अवक्तव्यं च' इति सप्तमभङ्गविषयः।
___एवं 'स्यात् सर्वगतः' 'स्याद् असर्वगतो घटादिः' इत्यादिकाऽपि सप्तभङ्गी वक्तव्या। यतः य एव पार्थिवाः परमाणवो घटः त एव विस्रसादिपरिणतिवशात् जलानिलानलावन्यादिरूपतामात्मसात्कु२० र्वाणाः 'स्यात् सर्वगतो घटः' इत्यादिसप्तभङ्गविषयतां यथोक्तन्यायात् कथं नासादयन्ति ? न च घट
परमाणूनां पुद्गलरूपतापरित्यागे पूर्वपर्यायापरित्यागे च घटपर्यायापत्तिः क्षणिकाक्षणिकैकान्तयोरर्थक्रियानुपपत्तरसत्त्वापत्तेः परिणामिन एव सुवर्णात्मना व्यवस्थितस्य केयूरात्मना विनाशमनुभवतः कटकाद्यात्मना उत्पद्यमानस्य वस्तुनः सत्त्वात् अन्यथा क्वचित् कस्यचित् कदाचित् अनुपलब्धेः । न
च अध्यक्षाद् अन्यद् गरिष्ठं प्रमाणान्तरमस्ति यतस्तद्विपरीतभावाभ्युपगमः क्रियते अन्तर्बहिश्च हर्ष२५ विषादाधनेकाकारवितर्कात्म( विवर्तात्म )कैक चैतन्य-स्थास-कोश-कुशूलाद्यनेकाकारस्वीकृतैकमृत्पि
ण्डादेः स्वसंवेदनाक्षजाध्यक्षतः प्रतिपत्तेः । सर्वथोपलभ्यमध्यरूपं पूर्वापरकोट्योरसत् इति वदतः सर्वप्रमाणविरोधात् कुण्डलाऽङ्गदादिषु पर्यायेषु तादृग्भूतसुवर्णद्रव्योपलब्धेः कार्योत्पत्तौ कारणस्य सर्वथा निवृत्त्यनुपलब्धेः। न च सादृश्यविप्रलम्भात् तदध्यवसायकल्पनेति वक्तव्यम् तदेकान्तभेदसा
धकप्रमाणस्यापास्तत्वात् । न च कथंचित् स्वभावभेदेऽपि तादात्म्यक्षि(क्ष)तिः ग्राह्यग्राहकाकार३०संविद्वत् विविक्तपरमाणुषु स्थूलैकघटादिप्रतिभासवद्वा ग्राह्यग्राहकाकारविविक्तसंवित्प्रकल्पने अध्य
क्षधियोऽपि विवक्षिताकारविवेकानुपलब्धेरध्यक्षेतरस्वभावाभ्यां विरोधस्वरूपासिद्धौ अन्यत्राऽपिका प्रद्वेषः? तथाहि-शक्यमन्यत्रापि एवमभिधातुम्-एकमेव पार्थिवद्रव्यं लोचनादिसामग्रीविशेषात् वर्णादिप्रतिपत्तिभेदेऽपि भिन्नमिव प्रतिभाति प्रत्यासन्नेतररूपताव्यवस्थितैकविषयवत् । न हि स्पष्टा
स्पष्टमिर्भासमेदेऽपि तदेकत्वैक्षितिस्तत्र तद्वद् इहापि रूपादिप्रतिभासभेदेऽपि एकत्वं किं न स्यात् ३५प्रतीतेरविशेषात् । एवं च स्याद्वादिनः अग्नेरपि अनुष्णत्वप्रसक्तिरिति असंगतमभिधानम् यतस्तत्रापि स्यात् 'उष्णोऽग्निः' इति स्पर्शविशेषेण उष्णस्य भास्वराकारेण पुनरनुष्णस्य तस्यैकस्य नानास्वभाव शक्तरबाधितप्रमाणविषयस्यैवं वचने दोषासंगासंभवात् । तस्मात् एकस्यैव सामग्रीमेदवशात् तथाप्रतिभासाविरोधः। कारणस्य च कार्यात्मनोत्पत्तौ न किश्चिद् अपेक्षणीयमस्ति यतस्तथोत्पित्सुस्वभा. वता न भवेत् । अत एव मृदादिभावो घटस्वभावेन नश्वरः कपालस्वरूपेण चोत्पत्तौ तिष्ठतीति स्वभा४० वत एव नश्वरः उत्पित्सुः स्थास्तुश्च अन्यतमापाये पदार्थस्यैव असंभवात् त्रितयभावं प्रत्यनपेक्षत्वाच्च न हि उत्पन्नः पदार्थः किश्चित् स्थितिं प्रत्यपेक्षते स्थित्यात्मकत्वात् उत्पादस्य, न च अवस्थित उत्पत्ती
१ यदैव ६० आ० हा० वि० । २ तदैव बृ० आ० हा० वि०। ३ विवक्षितं । ऐ-बृ०। ४-त्वमिति तत्र भा० मा०। ५-स्तद्वद्वा० बा० आ० हा० वि०। ६-त् तृतीय-बृ० आ• हा० वि० ।