________________
ज्ञेयमीमांसा। उभयसद्भावस्तु तेभ्यो मा भैषीः' इति दर्शयितुं समर्थः । तथाहि-सम्यग्ज्ञान-क्रियावान् भयेभ्यो मुच्यते उभयसंयोगवत्त्वात् प्रदीपनकभयान्धस्कन्धारूढपङ्गुवत् । उक्तं च
__ "संजोगसिद्धीए. फलं वयंति" [ आवश्यकनि० पढमाव० गा० २३] इत्यादि । तस्मात् सम्यग्ज्ञानादित्रितयनयसमूहाद् मुक्तिः नयसमूहविषयं च सम्यग्ज्ञानम् श्रद्धानं च तद्विषयं सम्यग्दर्शनम् तत्पूर्व च अशेषपापक्रियानिवृत्तिलक्षणं चारित्रम्-प्रधानोपसर्जनभावेन मुख्यवृत्त्या ५ वा-तत त्रितयप्रदर्शकं च वाक्यमागमः नान्यः एकान्तप्रतिपादकस्य असदर्थत्वेन विसंवादकतया तस्य प्राधान्यानुपपत्तेः जिनवचनस्य तु तद्विपर्ययेण दृष्टवद् अदृष्टार्थेऽपि प्रामाण्यसंगतेः॥ ६८ ॥
[अनेकान्तमयत्वेन जिनवचनस्य स्तवनं पार्यन्तिकमङ्गलविधानं च] तस्य तथाभूतस्य स्तुतिप्रतिपादनाय मङ्गलार्थत्वात् प्रकरणपरिसमाप्तौ गाथासूत्रमाहभई मिच्छादसणसमूहमइयरस अमयसारस्स।
१० जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ ६९॥ भद्रं कल्याणम् जिनवचनस्य अस्तु इति संबन्धः मिथ्यादर्शनसमूहमयस्य; ननु यद् मिथ्यादर्शनसमूहमयं तत् कथं सम्यग्रूपतामासादयति ? न हि विषकणिकासमूहमयस्य अमृतरूपतापत्तिःप्रसिद्धा, नः परस्परनिरपेक्षसंग्रहादिनयरूपापन्नसांख्यादिमिथ्यादर्शनानां परस्परसव्यपेक्षतासमासादितानेकान्तरूपाणां विषकणिकासमूहविशेषमयस्य अमृतसंदोहस्येव सम्यक्त्वापत्तेः।१५ दृश्यन्ते हि विषादयोऽपि भावाः परस्परसंयोगविशेषसमासादितपरिणत्यन्तरा अगदरूपतामात्मसास्कुर्वाणाः मध्वाज्यप्रभृतयस्तु विशिष्टसंयोगावाप्तद्रव्यान्तरस्वभावा मृतिप्राप्तिनिमित्तविषयरूपतामासादयन्तः। न च अध्यक्षप्रसिद्धार्थस्य पर्यनुयोगविषयता अन्यथा अग्न्यादेरपि दाह्यदहनशक्त्यादिपर्यनुयोगोपपत्तेः । अत एव निरपेक्षा नैगमादयो दुर्नयाः सापेक्षास्तु सुनया उच्यन्ते । अभिहितार्थसंवादि चेदं वादिवृषभस्तुतिकृत्सिद्धसेनाचार्यवचनम् -
२० "नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः।
__ भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः" ॥[ ] इति । अथवा सांख्यायेकान्तवादिदर्शनसमूहमयैकस्य चूर्णनस्वभावस्य मिथ्यादृष्टिपुरुषसमूहविघटनसमर्थस्य वा यद्वा मिथ्यादर्शनसमूहा नैगमादयः-एकैकस्य नैगमादेर्नयस्य शतविधत्वात्___"एकेको वि सयविहो” [आवश्यकनि० उवग्घायनि० गा० ३६]
२५ इत्याद्यागमप्रामाण्यात्-अवयवा यस्य तद् मिथ्यादर्शनसमूहमयम् जिनवचनस्य मैगमादयः सापेक्षाः सप्त अवयवाः तेषामपि एकैकः शतधा व्यवस्थितः इत्यभिप्रायः।
[सप्तभङ्गयादिप्रदर्शनेनानेकान्तसमर्थनम् ] समूहरूपसप्तनयावयवोदाहरणापेक्षया च सप्तभङ्गीप्रदर्शनमागमज्ञा विद्धति सामान्यविशेषात्मकत्वाद् वस्तुतत्त्वस्य
१"न हु एगचक्केण रहो पयाइ । अंधो अपंगू अ वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ॥” इति संपूर्णा गाथा आवश्यकनि० पृ० १५।
२ सिद्धसेनीयत्वेन प्रसिद्धायां लभ्यायां च क्वापि स्तुतौ नेदं पद्यमुपलभ्यते । समन्तभद्रकृतित्वेन प्रसिद्ध स्वयंभूस्तोत्रे पञ्चषष्टितमत्वेन इदं पद्यं 'नयास्तव स्यात्पदसत्यलाञ्छिता' इति भवन्त्यभिप्रेतगुणा यतस्ततो' इति च पाठान्तरेण सहितं दृश्यते । हरिभद्रेण अनुयोगद्वारवृत्तौ “तदुक्तं च” इति निर्दिश्य 'भवन्त्यभिप्रेतगुणा' इति पाठसहितं पद्यमिदं समुद्धृतम् पृ० ११८ । आचाराङ्गटीकायां शीलाङ्काचार्येण एतादृशमेव एतत् पद्यं "खयूथ्यैरत्र बहु विजृम्भितम्" इति कृला उद्धृतम् पृ० ८५। हेमचन्द्रेण पुनः खोपज्ञशब्दानुशासनबृहद्वृत्तौ "स्तुतिकारोप्याह" इत्युक्त्वा इदं पद्यं उद्धृतम् खकीये च न्यासे विशेषनामग्रहणं विनैव "परोक्तेनापि द्रढयति" इत्युक्त्वा व्याख्यातम् १-१-२।।
३-मयिक-वा० बा० विना । ४ “सत्त नयसया हवंति एवं तु । अन्नो वि य आएसो पञ्चसया हुँति उ नयाणं" - आवश्यकनि० पृ. १३६ । विशेषाव. गा० २२६४ ।