________________
तृतीये काण्डे -
शुद्धं निश्चयश्च तत् शुद्धं च ज्ञान दर्शनोपयोगात्मकं निष्कलङ्कम् न जानन्ति न अनुभवन्ति ज्ञान-दर्शन- चारित्रात्मककारणप्रभवत्वात् तस्य कारणाभावे च कार्यस्य असंभवात् अन्यथा तस्य निर्हेतुकत्वापत्तेः चरण-करणयोश्च चारित्रात्मकत्वात् द्रव्य-पर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात् ।
७५६
अथवा चरण- करणयोः सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति न हि यथावस्थितवस्तुतत्त्वावचो धमन्तरेण तद्रुचिः न च स्वसमय पर समयतात्पर्यार्थानवगमे तदवबोधः बोटिकादेखि संभव । अथ जीवादिद्रव्यार्थ - पर्यायार्थापरिज्ञानेऽपि यद् अर्हद्भिरुक्तं तदेव एकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः
1
" मण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पन्नत्तं" [ १० इत्याद्यागमप्रामाण्यात्, नः स्वसमयपरसमयपरमार्थानभिज्ञैर्निरावरणज्ञान-दर्शनात्मकजिनस्वरूपाऽज्ञानवद्भिस्तदभिहितभावानां सामान्यरूपतयाऽपि अन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वात्; नन्वेवमागमविरोधः सामायिकमात्रपदविदो माष तुषादेर्यथोक्तचारित्रिणस्तत्र मुक्तिप्रतिपादनात् सकलशास्त्रार्थज्ञताविकलव्रतस्य व्रताद्याचरणनैरर्थक्यापत्तिश्च तत्साध्यफलानवाप्तेः । न च यथोपवर्णितचरण-करणसम्यग्दर्शनैवैफल्ये भवतः ज्ञानादित्रितयस्यापि तत्र पाठात् । न, ये यथोदि१५ तचरण-करणप्ररूपणासेवनद्वारेण प्रधानात् आचार्यात् स्वसमयपरसमयमुक्तव्यापारा न भवन्तीतिनञोऽत्र संबन्धात्-ते चरण- करणस्य सारं निश्चयशुद्धं जानन्त्येव गुर्वाज्ञया प्रवृत्तेः चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतया अभ्युपगमात्
५
"तं सव्वणयविसुद्धं जं चरणगुणडिओ साहूँ" [ आवश्यकनि० सामाइअनि० गा० १०२ ] इत्याद्यागमप्रामाण्यात् अगीतार्थस्य तु स्वतन्त्रचरण-करणप्रवृत्तेः व्रताद्यनुष्ठानस्य वैफल्यमभ्युप
२० गम्यत एव ---
“गीयत्थो य विहारो बीओ गीयत्थमीसओ भणिओ ।" [
]
[ ज्ञानक्रिययोरन्यतरवैकल्ये मोक्षफलवन्ध्यत्वकथनम् ]
अत्र च सम्यग्दर्शनस्य सम्यग्ज्ञानादभेदाशा ( दाद् ज्ञा) न - क्रिययोरन्यतरवि कलयोर्नाशेषकर्मक्ष२५ यलक्षणफलनिर्वर्तकत्वं संभवतीति प्रतिपादयन्नाह -
इत्याद्यागमप्रामाण्यात् ॥ ६७ ॥
३५
णाणं किरियारहियं किरियामेत्तं च दो वि एगंता । असमत्था दाएउ जम्म-मरणदुक्ख मा भाईं ॥ ६८ ॥
ज्ञायते यथावद् जीवाजीवादितत्त्वमनेनेति ज्ञानम् क्रियत इति क्रिया यथोक्तानुष्ठानम् तया रहितम् 'जन्म-मरण - दुःखेभ्यो मा भैषीः' इति दर्शयितुं दातुं वा असमर्थम् न हि ३० ज्ञानमात्रेणैव पुरुषो भयेभ्यो मुच्यते क्रियारहितत्वात् दृष्टप्रदीपनकपलायन मार्गपङ्गवत् । क्रियामात्रं वा ज्ञानरहितम् न 'तेभ्यो मा भैषीः' इति दर्शयितुम् दातुं वा समर्थम् न हि क्रियामात्रात् पुरुषो भयेभ्यो मुच्यते संज्ज्ञानविकलत्वात् प्रदीपनकभयप्रपलायमानान्धवत् । तथा चागमः - "हयं णाणं कियाहीणं हया अण्णाणओ किया । पासंतो पंगुलो डड्डो धावमाणो य अंधओ” ॥
[ आवश्यकनि० पढमाव० गा० २२ ]
१ स्वसमयपरमा-वा० बा० भ० मां० आ० । २- रणे नै मां० । ३- नवैकल्ये भां० मां० । नविकल्पे भ वा० बा० । ४ " सव्वेसि पि नयाणं बहुविहवत्तव्त्रयं निसामित्ता" । इति पूर्वार्धम् । - आवश्यकनि० पृ० १९७ । ५ " तो तइयविहारो णाणुण्णाओ जिणवरेहिं” इत्युत्तरार्ध हरिभद्रीयानुयोगद्वारवृत्ती पृ० १२६ ।
६ अस्मदीयायां मूलप्रतौ इतोऽनन्तरमेका गाथा अधिका विद्यते । सा चेयम्
जेण विणा लोगस्सवि ववहारो सव्वहा न निव्वडर । तस्स भुवणेक्कगुरुणो नमो अणेगंतवायस्स ॥
इयं च गाथा टीकाप्रतिषु न क्वापि उपलभ्यते ।
७ सज्ञान बृ० सं० विना । ८ आवश्यकनि० पृ० १५ ।