________________
ज्ञेयमीमांसा।
७५९
किञ्चिद् अपेक्षते उत्पत्तिस्वभावत्वात् स्थितेः, न च विनष्ट उत्पत्ति प्रति हेत्वन्तरापेक्षः विनाशस्य उत्पत्त्यात्मकत्वात् ततः पूर्वापरखभावपरित्यागावाप्तिलक्षणं परिणाममासादयन् भावो व्यवतिष्ठते इति प्रत्यक्षादिप्रमाणगोचरमेतत् । अतः शब्द-विद्युत्-प्रदीपादेरपि निरन्वयविनाशकल्पना असंगतैन तेपामादौ स्थितिदर्शनात् अन्तेऽपि तत्स्वभावानतिक्रमात् न हि भावः स्वं स्वभावं परित्यजति प्रागपि तत्स्वभावपरित्यागप्रसक्तः अन्ते च क्षयदर्शनात् प्रागपि नश्वरस्वभाववत् आदौ उत्पत्तिसमये ५ स्थितिदर्शनात् अन्ते स्थितिः किं नाभ्युपेयते ? न च विद्युत्-प्रदीपादेस्तैजसरूपपरित्यागात् तामसरू. पस्वीकरणे किञ्चिद् विरुद्धं भवेत् । न च स्वभावभेदस्तदेकत्वविघातकृत् ग्राह्यग्राहकाकारसंवेदनवत् वेद्यवेदकाकारविवेकपरोक्षापरोक्षसंवित्तिवद्वा । यथा च ध्वंसहेतोस्तदतदकरणविरोधात् अकिञ्चिकरत्वम् तथा स्थित्युत्पादहेत्वोर्विशरारुधर्मणः स्थास्नुताकरणाभावात् स्वत एव स्थितिस्वभावस्य स्थितिहेतोरानर्थक्यात् । अथ स्थितिहेतुः अपातं करोतीत्युच्यते तर्हि पातं न करोतीति प्रसक्तम् एवं १० च अकिञ्चित्करत्वमेव तस्य । यदि वा अर्थान्तरं ततोऽपातः तर्हि तस्य करणे विनश्वरस्वभावः किं न विनश्येत् ? अथासौ स्थास्तुस्तथापि स्थितिहेतोरानर्थक्यम् स्वत एव तस्य स्थितेः। तथा उत्पत्तिहेतुरपि यदि भावं करोति तदा तस्य अकिञ्चित्करत्वमेव भावस्य स्वयमेव भावरूपत्वात् । अथ अभावं भावरूपतांनयति तर्हि नाशहेतरपि भावमभावीकरोतीति कथमकिञ्चित्करः स्यात् ? न हि अभावस्य भावीकरणे भावस्य वा अभावीकरणे कश्चिद विशेषः संभवी अत एव तेषामन्यतमस्य सहेतुकत्वमहेतु-१५ कत्वं वा अभ्युपगच्छन् सर्वेषां तद् अभ्युपगन्तुमर्हति अविशेषात्। न च भिन्नयोगक्षेमत्वात् कार्य-कारणयोरेकत्वमनुपपन्नम् स्वभावभेदेऽपि एकत्वप्रतिपत्तेः सर्वसंवित्क्षणानामेकदोत्पत्तिविनाशवतामभिनयोगक्षेमत्वेऽपि च परस्परतः पृथग्भावसिद्धेः। अथ अत्र अभिन्नयोगक्षेमपक्षेऽपि प्रतिभासमेदाद भेदस्तर्हि यत्र प्रतिभासाभेदस्तत्र भिन्नयोगक्षेमत्वेऽपि अभेदः प्रतिभासभेदाभेदयोर्वस्तुभेदाभेदव्यवस्थापकत्वात् समुदायस्यच देश-कालभेदाभावात् सकृदेव संवित्त्यात्मनोत्पत्तरेकत्वंच प्रसज्येत । यदि २० च स्वभावभेदो वस्तुभेदलक्षणम् तदा संतानान्तरयोरिव विषयविषयिरूपायाः संवित्तेरेकत्वेऽपि प्रत्यक्षेतरयोर्वा असौ विद्यत इति नानात्वं भवेत् । यदि पुनः स्वभावभेदाविशेषेऽपि विवक्षितज्ञानक्षणाकारयोरेव तादात्म्यम् न पुनः संतानान्तरसंवित्तीनामिति प्रत्यासत्तेः कुतश्चिद् व्यवस्थाप्यते तर्हि परस्यापि विवक्षितैकार्थोपादानोपादेयभूतयोरेव अवस्थयोस्तादात्म्यं कथंचिद् वदतो न कश्चिद् दोषः प्रसक्तिमान् । निराकृतश्च अनेकश एकान्तवादः तत्प्रसाधकहेतूनां सर्वेषामनेकान्तव्याप्ततया २५ विरुद्धताप्रदर्शनात् तत्प्रदर्शनं च एकान्तवादिनिग्रहस्थानमनेकान्तवादिविजयस्यैवेतरपराजयाधिकरणप्राप्तिलक्षणत्वात्
"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः” [ इत्यस्य वचसो न्यायानुगतत्वात् ।।
[प्रासङ्गिकी निग्रहस्थानस्वरूपपर्यालोचना] यदि पुनः असाधनाङ्गवचनं वादिनः पराजयाधिकरणमभ्युपगम्येत तदा वादाभ्युपगमं विधाय तूष्णींभावमात्रेण असाधनाङ्गस्य अवचनात् वादिनो विजयः किं न स्यात् ? प्रतिवादिनोऽपि स्वपक्षसिद्धिमकुर्वतः कथं न विजयस्तत एव भवेत । अथ साधनाङ्गावचनमपि निग्रहस्थानं तर्हि वादिप्रतिवादिनोयोगपद्येन निग्रहाधिकरणता भवेत् तूष्णीभावाविशेषात् । तूष्णींभावोपलम्मेन इतरो विजयवानिति चेतः नन्वेवमितरजयस्य अन्यतरपराजयाधिकरणतैव प्राप्ता । न च स्वपक्षसिद्धिम ३५ कुर्वत इतरोपलम्भमात्रेण जयप्राप्तिः तदप्राप्तौ च कथं तदितरस्य पराजयः? यदपि 'इष्टस्यार्थस्य सिद्धि(द्धिः) साधनं तस्याङ्गं स्वभाव-कार्याऽनुपलम्भलक्षणं हेतुत्रयं पक्षधर्मत्वादि वा त्रैरूप्यं तस्य अवचनं निग्रहस्थानं वादिनः' इत्युक्तम्, तदपि अचारु, प्रतिवादिनोऽपि पक्षधर्मत्वादेरन्यतमस्य अनुक्ती असमर्थने वा विजयाप्राप्तेः तदप्राप्तौ च वादिनो निग्रहस्थानानुपपत्तेः इतरजयनान्तरीय. कत्वात् इतरपराजयस्य । एवं हेत्वाभासादेरसाधनाङ्गस्य वचनं वादिनो निग्रहस्थानमिति प्रतिक्षिप्त-४० मुक्तन्यायाद् द्रष्टव्यम् । अथ ततः साध्यसिद्धेरभावात् । तस्य निग्रहस्थानमेव न भूविक्षेपादेर
१ स्थाणुता-भा० मा० विना। २-यस्येवे-वा० था. आ० । ३ विजयप्रा-वृ० ।