SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ तृतीये काण्डेसाधनाङ्गकरणस्य तत एव तत्प्राप्तेः। ततो वादिनमसाधनाङ्गमभिधानम् कुर्वाणं वा स्वपक्षसिदि विदधदेव प्रतिवादी तत्पक्षप्रतिक्षेपेण निगृह्णाति इत्येतदेव न्यायोपेतमुत्पश्यामः । एवं प्रतिवादिनो दोषमनुद्भावयतो न निग्रहस्थानम् तावता स्वपक्षसिद्धिमकुर्वाणस्य वादिनो विजयपाल्ययोगात् तत्साधनस्य सदोषत्वसंभवात् तस्य सदोषत्वेऽपि तदुद्भावनासमर्थत्वात् प्रतिवादिनो निग्रहस्थानं ५ तदिति चेत्, न; दोषवत्साधनाभिधानाद् वादिनोऽपि पराजयाधिकरणत्वात् द्वयोरपि युगपत् पराजयप्राप्तः अत एव प्रतिवादिनो दोषस्यानुद्भावनमपि न निग्रहस्थानम् । यश्च वादिपक्षसिद्धरप्रतिबन्धकं पक्षादिवचनाधिक्योद्भावनं प्रतिवादिपक्षसिद्धौ असाधकतमम् तत् सर्व न वादिनः पराजयाधिकरणम् अन्यथा तत्पादप्रसारिकाद्युद्भावनमपि तस्य पराजयाधिकरणं स्यात् । अथ पक्षादि वचनस्य असाधनाङ्गत्वात् तदुद्भावने वादिनस्तदपरिज्ञाननिबन्धनपराजयाधिकरणता तर्हि 'यत् १० सत् तत् सर्व क्षणिकम्' इति व्याप्तिवचनादेव शब्दस्यापि क्षणिकत्वसिद्धौ 'संश्च शब्दः' इत्यभिधानं तत एव तस्य पराजयाधिकरणं भवेत् । न च शब्दे शब्दविप्रतिपत्तिर्येन तन्निरासाय सत्त्वाभिधानं तत्र अपुनरुक्तं भवेत् तद्विप्रतिपत्तौ वा तत्साधकहेतु(तो)रसिद्धत्वादिदोषत्रयानतिवृत्तेर्भवतैव अभ्युपगमात् तत्साध्यत्वानुपपत्तिः । यदि च संक्षिप्तवचनात् साध्यसिद्धौ तद्विस्तराभिधानं निग्रहस्थानं तर्हि सत्त्वात् क्षणक्षयसिद्धौ कृतकत्वप्रयत्नानन्तरीयकत्वाद्यभिधानं कथं न निग्रहस्थानं स्यात् ! १. कथं वा 'कृतक'-'प्रयत्नानन्तरीयक आदिषु स्वार्थिकस्य तस्योपादानं तत्र स्यात् ? 'यत् सत् तत् सर्व क्षणिकम्' इत्यादिसाधनवाक्यमभिधाय पक्षादिवचनवत् तत्समर्थनमपि निग्रहस्थानं प्रसक्तम् असमर्थितमपि स्वत एव तत्त्वेनोक्तमेव स्वसाध्याविनाभूतस्य हेतोः प्रदर्शनमात्रात् साध्यसिद्धेः सद्भावात् स्वभावकार्याऽनुपलम्भप्रकल्पनया तद्वचनं निग्रहस्थानं परस्य प्रसक्तम् अनुपलब्धौ ‘उप लब्धिलक्षणप्राप्तस्य' इति विशेषणोपादानं निग्रहस्थानम् अदृश्यानामपि व्याधि-भूत-ग्रहादीनां २० कुतश्चिद् व्यावृत्तिसिद्धेः । यदि तु उपलभ्यानुपलब्धेरेव अभावसिद्धिः तदा 'नेदं निरात्मकं जीवच्छ रीरम् प्राणादिमत्त्वात्' इत्यत्र घटादेरात्मनोऽक्षणिकस्यादृश्यानुपलम्भात् अभावासिद्धेः 'यत् सत् तत् सर्व क्षणिकम्' इति सामस्त्येन व्याप्त्यसिद्धितः क्षणक्षयानुमानं नानवद्यं स्यात् । किञ्च, देश-काल-स्वभाव-विप्रकृष्टभावानुपलब्धेरभावासिद्धौ ‘सर्वत्र सर्वदा सर्वो धूमोऽग्निमन्तरेण अनुपपत्तिमान्' इति व्याप्तेरसिद्धर्न ततस्तत्सिद्धिः स्यात् । न च अध्यक्षाऽनुपलम्भौ २५ तत्कार्यकारणभावप्रसाधको अभ्युपगम्यमानौ सन्निहितविषयवलोत्पत्तेरविचारकत्वाच्च इयतो व्यापा रान् विधातुं क्षमौ तत्पृष्ठभाविविकल्पस्य निर्वर्तनसामर्थ्याभ्युपगमे सविकल्पकस्यानिष्टं प्रामाण्यं प्रसज्येत अनधिगतार्थाविगन्तृत्वात् अविसंवादित्वाच्च तस्य अविकल्पकस्य तु हिंसाविरति-दानचेतसां स्वर्गादिफलनिव(निर्व)र्तनसामर्थ्य स्वभावसंवेदनस्येव सर्वात्मना वस्तुसंवेदनेऽपि निर्णयवशादेव प्रामाण्योपपत्तेः अन्यथा 'अनुमानस्य अप्रामाण्यप्रसक्तेः तद्गृहीतग्राहितया' इत्युक्तं प्राक् । ३० अदृश्यानामनुपलम्भात् अभावासिद्धौ अर्थक्रियया सत्ता भावानां व्याप्तेत्येतद् अपि परस्य निग्रहस्थानमेव ततः स्वपक्षसिद्धिः इतरस्य पराजयाधिकरणम् सा च परोपन्यस्तहेतोर्विरुद्धताप्रदर्शनेन स्वतन्त्र निर्दोषहेतुसमर्थनेन वा परोपन्यस्तहेत्वसिद्धतादिदोषप्रतिपादनपुरस्सरा कर्तव्या अन्यथा परपराजयनिबन्धनस्वविजयायोगात् । यदा च विजिगीषुणा खपक्षस्थापनेन परपक्षनिराकरणेन च सभाप्रत्यायनं विधेयम् अन्यथा जयपराजयानुपपत्तेः तदा असिद्धाऽनैकान्तिकत्वसाधनदोषोद्भाव३५ नेऽपि न वादिप्रतिवादिनोर्जय-पराजयौ प्रकृतार्थापरिसमाप्तेः । अथ खपक्षसिद्धेरीवात् हेत्वा. भासात् असाधनाङ्गवचनं वादिनो निग्रहस्थानम्, न; इतरत्रापि तत्प्रसङ्गात् । अथ वादिनः साधनत्वेन अभिमतस्य असाधनत्वप्रदर्शनेन प्रतिवादिकृतेन पराजयः प्रतिवादिनस्तु संभूतदोषोद्भावनाद् जयः, न; यदि स्वपक्षसिद्धिमकुर्वता प्रतिवादिना स्व-परोत्कर्षापकर्षप्रत्यायनमात्रेण वादी १-सिद्धिः य-भां० मा० विना । २ तन्निवर्तन-भां० मां० विना। ३-नस्यैव वा० बा०। ४-माण्याप्रबृ. आ. हा०वि०। ५-भावसि-बृ० आ० हा० वि०। ६ व्याप्ते तदपि आ० हा० वि० । व्याप्तेरित्येतदपि भां. मां०। ७-प्रवादि-बृ. भां• मां। ८-भावात् हेत्वाभावादसाध-बृ. आ० हा० वि० । भावात् हेत्वाभावात् हेत्वाभासादसाध-वा० बा०। ९ सद्भूतासद्भूतदो-बृ० आ० हा वि० । १०-त्कर्षाप्रक
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy