________________
ज्ञेयमीमांसा |
७६१
निगृह्यते इत्यभ्युपगमस्तर्हि असद्भूतदोषोद्भावनेनापि निरुत्तरीकरणात् आत्मोत्कर्षसंभवात् प्रतिवादिनो विजयप्राप्तेः वादिनो निर्दोषसाधनाभिधायिनोऽपि पराजयप्रसक्तिः । अथ समर्थस्यापि साधनस्य असमर्थनेन स्वपक्षसिद्धेरभावात् वादिनोऽपराजयो न्यायप्राप्त एव नः उभयत्र पराजयप्रसक्तेः । न हि अभूतदोषपक्षोपनयनिगमनाद्युद्भावनमात्रेण प्रतिवादिना प्रकृतं वस्तुतत्त्वं प्रसाधयन् स्वपक्षसाधनसामर्थ्य विकलेन वादी निगृह्यते इति न्यायोपपन्नम् । अथ प्रतिवादी अपि असाधनाङ्गस्य ५ साधनाङ्गत्वेन उपादानात् स्वपक्षसिद्धिमकुर्वन् मिथ्याभिनिवेशी निगृह्यते इति चेत्, नः उभयोर्निग्रहप्राप्तेरित्युक्तत्वात् । तस्माद्
“असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यद्धि न युक्तमिति नेष्यते " ॥ [ 1 इत्यादिवादन्यायलक्षणमेकान्तवादिनां सर्वमसंगतमुक्तन्यायात् सर्वस्य चैकान्तसाधनाङ्गत्वात् तस्य असत्त्वेन साधयितुमशक्यत्वात् अनेकान्तस्य च निर्दोषत्वेन तत्र दोषोद्भावनस्य अदोषोद्भावन- १० रूपत्वात् दोषानुद्भावनस्य च निर्दोषे पराजयानधिकरणत्वात् तदुद्भावनस्यैव तत्र ग्रा इत्यलं पिष्टपेषणेन इति व्यवस्थितम् मिथ्यादर्शन समूहमयत्वं मयिकत्वं वा । न विद्यते मृतं मरणं यस्मिन् असौ अमृतो मोक्षः तं सारयति गमयति प्रापयतीति वा तस्य अवन्ध्यमोक्षकारणस्वात् मोक्षप्रतिपादकत्वाच्च । 'अमयसायस्स' वा इति पाठे अमृतवत् स्वाद्यते इति अमृतस्वादम् अमृततुल्यमिति यावत् । तथा रागाद्यशेषशत्रु जेतृपुरुषविशेषैरुच्यत इति जिनवचनम् तस्य अनेन १९५ विशिष्ट पुरुषप्रणीतत्वनिबन्धनं प्रामाण्यं निगमयति । क्षीराश्रवाद्यनेक लब्ध्याद्यैश्वर्यादिमतो भगवत इत्यनेनापि विशेषणेन तस्य ऐहिकसंपद्विशेषजनकत्वमाह । संविग्नैः संसारभयोगाविर्भूतमोक्षाभिलाबै: अपकृष्यमाणराग-द्वेषाऽहंकार कालुष्यैः 'इदमेव जिनवचनं तत्त्वम्' इत्येवं सुखेन अवगम्यते यत् तत् संविग्नसुखाभिगम्यम् । एतेनापि विशिष्टयुद्ध्यतिशयसंवित्समन्वितयतिवृषनिषेव्यत्वमस्य प्रतिपादयति । एवंविधगुणाध्यासितस्य जिनवचनस्य सामायिका दिबिन्दुसारपर्यन्तश्रुताम्भोधेः २० कल्याणमस्तु इति प्रकरणसमाप्तौ अन्त्यमङ्गलसंपादनार्थं विशिष्टां स्तुतिमाह ।
॥ इति तत्त्वबोधविधायिन्यां सन्मतिटीकायां तृतीय काण्डं समाप्तम् ॥
इति कतिपयसूत्रव्याख्यया यद् मयाऽऽप्तं कुशलम तुलमस्मात् सैन्मतेर्भ व्यसार्थैः । भवभयमभिभूय प्राप्यतां ज्ञानगर्भ विमलमभयदेवस्थानमानन्दसारम् ॥ पुष्यद्वाग्दानवादिद्विरदधनघटा कुण्ठधी कुम्भपीठ
प्रध्वंसोद्भूतमुक्ताफलविशदयशोराशिभिर्यस्य तूर्णम् । गन्तुं दिग्दन्तिदन्तच्छलनिहितपदं व्योमपर्यन्तभागान् स्वल्पब्रह्माण्डभाण्डोदरनिविडभरोत्पिण्डितैः संप्रतस्थे ॥ प्रद्युम्नसूरेः शिष्येण तत्त्वबोधविधायिनी । तस्यैषाऽभयदेवेन सैन्मतेर्विवृतिः कृता ॥ अङ्कतो ग्रन्थप्रमाणं २५००० ।
प्रवादिमदमर्दनप्रकटसन्मतिव्याजतो निवेशितजगत्रयस्फुरितसान्द्रकीर्तिद्रुमः । समस्तजगतीतले गुणवतां शिरःशेखरो जयत्यतुलवाग (?) भयदेवसूरिः प्रभुः ॥
।
६
१- न्यद्धि यु- बृ० आ० हा ० वि० । २- कान्ते सा वृ० हा० बृ० । ५ - णीततत्त्व - वृ० वा २ बा० ।-णीततत्वतत्व - भ० मां० । आ० हा० वि० । ८ प्रतिक्रमण वा० वा० । ९ सम्मति - वा० बा० । सम्मति-भां० मां० आ० हा ० वि० । १० -- तीयका - बृ० भ० मां० । ११ सम्मते - भ० मां० । १२ - मतिभू - बृ० । १३ सम्म भ० मां० आ० । १४ इदं पद्यं आ० हा ० वि० प्रतिषु नास्ति ।
।
२५
३०
३- पोद्भव - बृ० हा० । ४- निर्दोष प
इत्येव सु- बृ० सं० । ७-गम्यं तेना