Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 341
________________ तृतीये काण्डे - ध्यक्षसिद्धा स्वात्मनि अन्यैरनुमानादवसीयतेः ननु सा स्त्रियां तथैव किं नावसीयते येन तत्र तस्याः स्वाग्रहावेशवशादभावः प्रतिपाद्यते । अथ तासां भगवता नैर्ग्रन्थ्यस्य अनभिधानाद् न तत्प्राप्तिः, असदेतत्; तासां तस्य भगवता - ७५२ "णो कप्पइ निग्गंथस्स णिग्गंधीए वा अभिन्नतालपलंबे पडिगाहित्तंए” [ कप्पसु० उ० १ सू० १] ५ इत्याद्यागमेन बहुशः प्रतिपादनात् अयोग्यायाश्च प्रव्रज्याप्रतिपत्तिप्रतिषेधस्य - “अट्ठारस पुरिसेसुं वीसं इत्थीसु" [ 1 इत्याद्यागमेन विधानाच्च । विशेषप्रतिषेधस्य शेषाभ्यनुज्ञापरत्वाच्च न तासां भगवत्प्रतिपादितनैर्ग्रन्थ्यनिमित्ताऽविकलचारित्रप्राप्यनुपपत्तिः । अथ तथाभूतचारित्रवत्त्वेऽपि न तासां तद्भाक्त्वमिति साध्यार्थः तथापि अनुमानबाधितत्वं पक्षस्य दोषः । तथाहि - यद् अविकलकारणं तद् अवश्य१० मुत्पत्तिमत् यथा अन्त्यावस्थाप्राप्तबीजादिसामग्रीकोऽङ्कुरः अविकलकारणश्च तस्यामवस्थायां सीमतिनीमुत्याविर्भावः इति कथं न पक्षस्य अनुमानबाधा ? अथ स्त्रीवेदपरिक्षयाभावात् न अविकलचारित्रप्राप्तिस्तासामिति न मुक्तिभाक्त्वम् तर्हि पुरुषस्यापि पुरुषवेदापरिक्षयात् न अविकलचारित्रप्राप्तिरिति न मुक्तिप्राप्तिर्भवेत् । अथ तत्परिक्षये शैलेश्यवस्थाभाविचारित्रप्राप्तिमतः पुरुषस्य मुक्तिप्राप्तिर्न प्राक् तर्हि सीमन्तिन्या अपि एवं मुक्तिप्राप्तौ न कश्चिद् दोषः संभाव्यते । अथ अस्याः १५ स्त्रीवेदपरिक्षय सामर्थ्यानुपपत्तेर्नायं दोषः ननु तत्परिक्षयसामर्थ्याभावस्तस्याः कुतः सिद्धः ? आगमात् इति चेत्, न तस्य तथाभूतस्य द्वादशाङ्ग्यामनुपलब्धेः । तत्परिक्षय सामर्थ्यप्रतिपादकस्यापि तस्य अनुपलब्धिरिति चेत्, नः " सव्वत्थोवा तित्थयरिसिद्धा तित्थयरितित्थे अतित्थयरिसिद्धा असंखेजगुणा" [ 1 इत्यादिसिद्धप्राभृतागमस्याने कैस्य सामर्थ्यवृत्त्या सीमन्तिनीनां स्त्रीवेदपरिक्षयसामर्थ्यप्रतिपादकस्य २० उपलम्भात् न हि सर्वकर्मानीकनायकरूपमोहनीय कर्माङ्गभूतस्त्रीवेदपरिक्षयमन्तरेण तासां मुक्तिप्राप्तिरिति मुक्तिसद्भावावेदकमेव वचस्तासां सामर्थ्यावेदकं सिद्धम् । अथ स्त्रीत्वादेव न तासां तत्परिक्षयसामर्थ्यम्, नः स्त्रीत्वस्य तत्परिक्षयसामर्थ्येन विरोधासिद्धेः न हि अविकलकारणस्य तत्परिक्षयसामर्थ्यस्य स्त्रीत्वसद्भावादभावः क्वचिदपि निश्चितः येन अग्नि- शीतयोरिव सहानवस्थान - विरोधस्तयोः सिद्धो भवेत् । नापि भावाभावयोरिव अनयोरन्योन्यव्यवच्छेदरूपता अवगता येन २५ परस्पर परिहारस्थितलक्षणविरोधसिद्धिर्भवेत् । न चाविरुद्ध विधिरन्यस्याभावावेदकः अतिप्रसङ्गात् । तन्न स्त्रीत्वादपि तासां तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिः । प्रत्यक्षस्य तु इन्द्रियजस्य अतीन्द्रियपदार्थभावाभावविवेचने अनधिकार एवेति नातोऽपि तत्परिक्षयसामर्थ्यानुपपत्तिसिद्धिस्तासाम् । अतोऽनेकदोषदुष्टत्वान्न प्रकृतपक्षः साधनमर्हति । 'स्त्रीत्वात्' इति हेतुरपि यदि 'उदितस्त्री वेदत्वात्' इति उपात्तस्तदाऽसिद्धः मुक्तिप्राप्तिप्राक्तनसमयादिषु स्त्रीवेदोदयस्य तासामसंभवात् अनिवृत्ति गुणस्थान ३० एव तस्य परिक्षयात् । 'परिक्षीणस्त्री वेदत्वात्' इति च हेतुर्विपर्ययव्याप्तत्वाद् विरुद्धः । न च 'स्त्रीत्वात्' इत्यस्य 'परिक्षीणस्त्री वेदत्वात्' इत्ययमर्थः अत्रार्थे प्रकृतशब्दस्य अरूढत्वात् । अथ 'ख्याकारयोगित्वात् स्त्रीत्वात्' इति हेत्वर्थस्तदा विपर्यये बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिको हेतुः । चतुर्दशपूर्व संवित्संबन्धित्वाभावोऽपि तासां कुतः सिद्धः येन साध्यविकलो ष्टान्तो न स्यात् ? सर्वज्ञप्रणीतागमात् इति चेत्, तत एव मुक्तिभाक्त्वस्यापि तासां सिद्धिरस्तु न ३५ हि एकवाक्यतया व्यवस्थितः दृष्टेष्टादिषु बाधामननुभवन् आप्तागमः क्वचित् प्रमाणं कचिन्नेति अभ्युपगन्तुं प्रेक्षापूर्व कारिणा शक्यः । अथ विवादगोचरापन्नाऽबला अशेषकर्मक्षयनिबन्धनाध्यवसायविकला, अविद्यमानाऽधः सप्तमनरकप्रात्यविकलकारणकर्म बीजभूताध्यवसानत्वात्, यस्तु अशेष १ स्त्रिया त वा० वा० भ० मां० । २ "नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहेत्तए - कप्पसु० पृ० १ ३ वीसुं इ - बृ० सं विना । ४- रित्रयप्रा- वा० बा० भ० मां० । ५- कस्या सा-आ० । विरुद्धवि - वा० वा० आ०हा०वि० । ७- न्यस्य भा-भां० मां० । ८-णधर्म - भां०] मां० । ० १ । ६ - विरुद्ध

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456