Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 339
________________ ७५० तृतीये काण्डेइत्याचागमप्रामाण्यात् । स्तुतिकृताऽपि उक्तम् ___ “बाह्यं तपः परमदुश्चरमाचर त्वमाध्यात्मिकस्य तपसः परिबृंहणार्थम्” [ स्वयंभूस्तो० ८३] इति । तन्न वस्त्र-पात्रादिविकलस्येदानींतनयतेः सर्वसावद्ययोगप्रत्याख्यानं संभवतीति कथं न तस्य धर्मोपकरणत्वम् ? एवं 'यः स्वीकृतग्रन्थः' इत्यादिप्रयोगेऽपि वस्त्रादिधर्मोपकरणस्याग्रन्थ. ५त्वप्रतिपादनात् 'स्वीकृतग्रन्थश्च मोक्षाध्वनि संचरन् वस्त्राद्युपकरणवान्' इति हेतुरसिद्धः । न च तथाविधवस्त्राद्यपकरणधारिणां चौरादिभ्य उपद्रवः संभवति, तद्वत्रादेरशोभनत्वाऽल्पमूल्यत्वाभ्यां चौराग्राह्यत्वात् । अथ अधमचौरास्तथाभूतमपि गृह्णन्तीति तदग्राह्यत्वं तस्यासिद्धम्, नन्वेवं पुस्तकाद्यपि मोक्षाध्वसंचारिणा न ग्राह्यं स्यात् तत्रापि अस्य दोषस्य समानत्वात् । अथ तदपि भगवता प्रतिषिद्धम्, न; तत्प्रतिषिद्धपुस्तकादिग्राहिणामिदानींतनऋषीणां तदाज्ञाविलोपकारित्वेन १० अयतित्वप्रसक्तेः । ज्ञानाद्युपष्टम्भहेतुत्वेन तद्हणे पात्रादावपि तत एव ग्रहणप्रसक्तिः । न च पाथेयाधुपकरणरहितस्य अध्वगस्यापि अभीष्टस्थानप्राप्तिः संभविनी इति दृष्टान्तोऽपि असंगत एव सर्वस्य विशिष्टफलारम्भिणस्तदुपकरणरहितस्य तत्फलाऽप्रसाधकत्वात् । तथाहि-यो यत्रोपायविकलो नासौ तत् साधयति, यथा कृष्याधुपायविकलः तत्फलम् , अशेषकर्मविगमखभावमुक्तिफलवस्त्रादिधर्मोपकरणोपायविकलश्च मुनिर्भवद्भिरभ्युपगम्यत इति । न च क्षायिकज्ञान-दर्शन१५ चारित्राण्येव तदुपाय इति वक्तव्यम् , 'वस्त्रादिधर्मापकरणविकलस्य क्षायिकज्ञानादेरेव असंभवात् त्वात । 'यो यद्रिनेयः' इत्यादिकोऽपि प्रयोगोऽनपपन्नः, 'सर्वथा परित्यक्तवस्त्रतीर्थकृद्विनेयत्वात्' इत्यस्य हेतोरसिद्धत्वात् भगवत एव परित्यक्तवस्त्रत्वानुपपत्तेः “सव्वे वि एगदूसेण णिग्गया जिणवरा" [आवश्यकसू० गा० २२७] इत्याद्यागमप्रामाण्यात् । न च अस्यान्यार्थत्वम्, आचाराद्यङ्गेषु तैस्तैः सूत्रैर्भगवत्येकवस्त्रग्रहणस्य २० श्रामण्यप्रतिपत्तिसमये प्रतिपादितत्वात् । न चैवं तदा सर्ववस्त्रपरित्यागावेदकस्तत्र कश्चिदागमः श्रूयते । योऽपि-. "वोसट्टचत्तदेहो विहरइ गामाणुगामं तु" [ इत्यागमः सोऽपि न श्रामण्यप्रतिपत्तिसमयभाविभगवन्नग्नत्वावेदकः किन्तु तदुत्तरकालं रागादिविप्रमुक्तत्वं भगवति आवेदयति न हि अनेन आगमेन भगवतो वस्त्रवैकल्यमावेद्यते। किञ्च, यदि यो यद्विनेयः स तल्लिङ्गधारी तदा भवतामिव भगवतोऽपि कमण्डलु-टट्टिकादिलिगधारित्वप्रसक्तिः। अथ ने देवचरितमाचरितुं शक्यत इति तदगृहीतटट्टिकादिग्रहः अस्माभिः तद्व्यतिरेकेण महाव्रतधारणं कर्तुमशक्तकैराश्रीयते तर्हि “जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण होयवं" [ इत्याद्यभिनिवेशस्त्यज्यताम् । यदपि न च वस्त्राद्युपकरणाग्रहवत्सु प्रव्रज्यापरिणामः संभवति' इत्या३० द्यभिधानम् तदपि असंगतम् ; परिग्रहाग्रहवत्सु प्रव्रज्यापरिणामस्य अस्माभिरपि अनिष्टेः । न च सर्व सावद्ययोगविरतिप्रतिज्ञानिर्वाहनिमित्तवस्त्रादिधर्मोपकरणयोगिषु परिग्रहाग्रहवत्त्वम् अन्यथा शरीरयोगिष्वपि परिग्रहाग्रहवत्त्वं स्यात् । अथ तन्न परित्यक्तुं शक्यत इति, अविधानेन तत्परित्यागे अनेकभवानुबन्धितदनुषक्तिप्रसक्तिः विधानपरित्यागस्तु तस्य प्रस्तुतविधिनैव तर्हि वस्त्राद्युपकरणत्यागेऽपि अयमेव विधिः अन्यथा प्रव्रज्यापरिणामस्य प्रकृष्टफलनिर्वर्तकस्य वस्त्राद्युपादानमन्तरेण ३५ असंभवात् तत्संभवे च शरीरत्यागवद् वस्त्रादित्यागस्यापि स्वतः सिद्धत्वात् उत्तीर्णमहार्णवपुरुषया. नपरित्यागस्येव प्राक् तु तत्परित्यागो महार्णवयानमध्यासीनयानपरित्यागवद अपायहेतुरेव । तेन 'श्वेतभिक्षवो महाव्रतपरिणामवन्तो न भवन्ति' इत्यादिप्रयोगे 'परिग्रहाग्रहयोगित्वात्' इत्यस्य १-चार (चरे) स्त्व-भां० मां० ।-चरस्त्व-बृ० वा. बा० । २“चउव्वीसं । न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा"-आवश्यकसू. पृ. १३७ । विशेषाव. टी. पृ० १०२२, १०३२।। ३ न देव-भा० मां। ४"न हि होइ बुद्धसीसो सेयवडो नग्गखवणो वा" ॥ इत्युत्तरार्धम् ।-विशेषा व.टी. पृ० १०३२ । ५-यानमध्यमध्यासीन-आ. हा. वि. विना।

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456