Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 330
________________ ज्ञेयमीमांसा | ७४१ तत्र विधेर्निवर्तकत्वम् प्रवर्तकत्वं वेष्यते एवमिहापि अभिप्रेतफलार्थी अध्येषणादेः इच्छातो वा प्रवर्तेत । न च अध्येषणादेर्व्यभिचारात् प्रवर्तकत्वमयुक्तम् यथासंभवं प्रवर्तकत्वोपपत्तेः यदा अध्ये षणा तदा तस्या एव प्रवर्तकत्वम् यदा तु प्रेषणा तदा तस्या एव । न हि रक्ततन्त्वभावेऽपि शुक्लेभ्यस्तेभ्यः पटोत्पत्तौ रक्ततन्तवो न खोत्पाद्यपटोत्पत्तौ परिणामिकारणतां प्रतिपद्यन्ते न च तद्व्यतिरिक्तोऽन्यः कश्चित् तत्र परिणामिकारणत्वमासादयति । किञ्च धात्वर्थोऽपि यदि धातुना परिनिष्पन्नोऽभिधीयते ५ तदा न विधेः पुरुषप्रेरकत्वमभ्युपगन्तव्यम् धात्वर्थस्य निष्पन्नत्वात् । सामान्यपदार्थवादिनां तु धात्वभिधेयस्य कथं पुरुषव्यापारसाध्यत्वम् सामान्यस्य नित्यतया साध्यत्वानुपपत्तेः ? न च विशेष उत्पाद्यो धातुवाच्यः तेन सह नित्यतया संबन्धायोगात् न हि अनित्येन नित्यः संबन्धो घटते अभ्युपेयते वा वाच्यवाचकतत्संबन्धानां परेण नित्यत्वाभ्युपगमात् । अपि च, विधेः प्रवर्तकत्वे कारकत्वं स्यात् न प्रामाण्यम् इच्छा प्रयत्नादेरिव तथात्वे तदनुपपत्तेः प्रवर्तकत्वं च १० यथोक्तन्यायाद् अनुपपन्नम् । एवं 'ब्राह्मणं न हन्यात्' इति प्रतिषेधविधिरपि प्रतिक्षिप्तो द्रष्टव्यः । तथाहि - अयं पुरुषं क्व प्रेरयतीति वक्तव्यम् नञर्थे, भावनायाम्, धात्वर्थे वा ? तत्र यदि नञर्थे विधिः पुरुषं प्रवर्तयति, तदयुक्तम्; नञर्थस्य अभावरूपत्वात् तत्र विधेः प्रेरकत्वासंभवात् । न हि क्रियात्मके नञर्थे कस्यचित् प्रेरकत्वमुपपत्तिमत् । अथ वधप्रवृत्तं पुरुषं निवर्तयति प्रतिषेधविधिः, अयुक्तमेतत् प्रतिषेधेनैव निवर्तित्वाद् विधेस्तत्र नैरर्थक्यात् । अथ प्रतिषेधनिषिद्धस्य अनिवृत्तेस्तत्र १५ विधीयते विधिनिषिद्धोऽपि यदि न निवर्तते तदा किमाश्रयणीयम् ? अथ भावनायां विधेः प्रवर्तकत्वम्, अयुक्तमेतत्; रागत एव तस्यामस्य प्रवृत्तेः विधेर्वैयर्थ्यात् । न च धात्वर्थेऽपि तमसौ प्रवर्तयति, तत्रापि रागादेवास्य प्रवृत्तेः । विधिर्हि अप्रवृत्तप्रवर्तकः रागात् प्रवृत्तस्य च प्रवर्तने विधित्वायोगात् । अथ नञ्संबद्धभावनायां विधिः प्रवर्तयति, नः नञर्थसंबद्धायास्तस्या अभावरूप• त्वेन प्रवृत्तिविषयत्वानुपपत्तेः । अथ नञर्थविशिष्टधात्वर्थे प्रतिषेधविधिना पुरुषः प्रवर्त्यते, नैतत् २० सारम् ; तस्यापि नञर्थविशिष्टस्य अभावरूपत्वात् प्रवृत्तिविषयत्वायोगात् । न च भावनायां हनन - विशिष्टायां रागात् प्रवर्तमानः पुरुषः प्रतिषेधपर्युदस्तायां विधिना नियुज्यते, अभावविशिष्टाया भावनाया विधिविषयत्वायोगात् । न चासौ हननाभावविशिष्टा विधिविषयतां प्रतिपद्यते, अभावस्य अव्यापाररूपतया भावनां प्रति व्यवच्छेदकत्वायोगात् । न च हन्तिर्नत्रुपहितः । अभक्ष्याऽस्पर्शनीयन्यायेन हननव्यतिरिक्तधात्वर्थान्तराभिधायकत्वात् तदवच्छिन्नां भावनां प्रकाशयति सा च विधेर्गो - २५ चरतां प्रतिपद्यते इति वक्तव्यम्, यतो भावनायां हननव्यतिरिक्तधात्वर्थमात्रविशिष्टायां विधेः प्रवर्तकत्वमेव न निवर्तकत्वम् प्रवर्तकत्वैकरूपत्वेन तस्याऽभ्युपगमात् तच्च यथा तस्य न संभवति तथा प्रतिपादितमेव । तन्न मीमांसकाभिप्रायेण विधेः प्रवर्तकत्वम् निवर्तकत्वं वा संभवति । तेन"साधने पुरुषार्थस्य संगिरन्ते त्रयीविदः । बोधविधौ समायत्तम्” ] इत्याद्यसंगतार्थाभिधानम् । ३० ये तु भावनां वाक्यार्थत्वेन प्रतिपादयन्ति भावना हि भाव्येऽर्थे स्वर्गादिके पुरुषस्य व्यापारः "भाव्यनिष्ठो भावकव्यापारो भावना" [ [] इति वचनात् सा च 'किं केन कथम् ' इति त्र्यंशपरिपूर्णा - किम् इति स्वर्गम्, केन इति दर्श- पूर्णमास्यादिना भावयन् कथम् इति इतिकर्तव्यतां दर्शयति प्रयोगादिव्यापाररूपाम् - इयमित्थंभूता भावना पदार्थप्रतिपाद्या पदानां वाक्यार्थप्र तिपादने सामर्थ्याभावात् तानि हि स्वार्थप्रतिपादनमात्रेण निवृत्तव्यापाराणि न वाक्यार्थबोधक्षमाणि ३५ आकाङ्क्षासन्निधियोग्यतावच्छिन्नानां पदार्थानामेव अन्वय-व्यतिरेकाभ्यां वाक्यार्थवेदकत्वप्रतिपत्तेः । तथाहि - पदश्रवणाभावेऽपि यदा श्वेतगुणं द्रव्यं पश्यति अश्वजातिं च 'हेषा' शब्दाद् अनुमिनोति क्रियां च खुरविक्षेपादिशब्देन च बुध्यते तदा'श्वेतोऽश्वो धावति' इति अवगच्छति । उक्तं च"पश्यतः श्वेतमारूपं 'हेषा' शब्दं च शृण्वतः । पदविक्षेपशब्दं च श्वेताश्वो धावतीति धीः” ॥ [ श्लो० वा० वाक्याधि० श्लो० ३५८ ] १ अत्र 'निवर्तितत्वाद विधेस्तत्र' इति पाठः संभाव्यते । २ विधेवि - (-घेर्वि ) - बृ०। ३ अत्र 'श्वेतता' इत्यपि संभाव्येत । “श्वेतिमा " - छो० वा० । ४०

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456