Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 309
________________ तृतीये काण्डे प्रयुक्तः प्रकरणसमः पक्षद्वयेऽपि तस्य समानत्वात् उभयत्रापि अन्वयादिसद्भावात् । तथाहितस्योदाहरणम्-अनित्यः शब्दः नित्यधर्मानुपलब्धेः अनुपलभ्यमाननित्यधर्मकं घटादि अनित्यं दृष्टम् यत् पुनर्नित्यं न तद् अनुपलभ्यमाननित्यधर्मकम् यथा आत्मादि । एवं चिन्तासंबन्धिपुरुषेण तत्त्वानुपलब्धेरेकदेशभूताया अन्यतरानुपलब्धेः अनित्यत्वसिद्धौ साधनत्वेन उपन्यासे सति द्वितीय५श्चिन्तासंबन्धी पुरुष आह-यदि अनेन प्रकारेण अनित्यत्वं साध्यते तर्हि नित्यतासिद्धिरपि अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथाहि-नित्यः शब्दः अनित्यधर्मानुपलब्धः अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टम् आत्मादि यत् पुनर्न नित्यं तत् नानुपलभ्यमानाऽनित्यधर्मकम् यथा घटादि। एवमन्यतरानुपलब्धेरुभयपक्षसाधारणत्वात् प्रकरणानतिवृत्तेर्हेत्वाभासत्वम् न च निश्चितयोः पक्ष-प्रतिपक्षपरिग्रहेऽधिकारात् कथं चिन्तायुक्त एवं साधनोपन्यासं विदध्यात् इति वक्तव्यम् १० यतोऽन्यदा संदेहेऽपि चिन्तासंबन्धी पुरुषः अन्यतरानुपलब्धेः पक्षधर्मान्वय-व्यतिरेकान् अवगच्छन् तद्बलात् स्वसाध्यं यदा निश्चिनोति तदा द्वितीयस्तामेव खसाध्यसाधनाय हेतुत्वेन अभिधत्ते । यदि अतः त्वत्पक्षसिद्धिः अत एव मत्पक्षसिद्धिः किं न भवेत् त्रैरूप्यस्य पक्षद्वयेऽपि अत्र तुल्यत्वात् । अथ नित्यत्वाऽनित्यत्वैकान्तविपर्ययेणापि अस्याः प्रवृत्तेः अनैकान्तिकता उभयवृत्तिर्हि अनैकान्तिकः न प्रकरणसमः, न; यत्र पक्ष-सपक्ष-विपक्षाणां तुल्यो धर्मो हेतुत्वेन उपादीयते तत्र संशयहेतुता १५साधारणत्वेन तस्य विरुद्धविशेषानुस्मारकत्वात् न तु प्रकृत एवंविधः यतः नित्यधर्मानुपलब्धेरनित्य एव भावः न नित्ये एवम् अनित्यधर्मानुपलब्धेर्नित्य एव भावः नाऽनित्ये एवं च एकत्र साध्ये विपक्षव्यावृत्तेः प्रकरणसमता न अनैकान्तिकता पक्षद्वयवृत्तितया तस्याभावात् । ननु यदि अयं पक्षद्वये वर्तते तदा साधारणानैकान्तिकः अथ न प्रवर्तते कथमयं पक्षद्वयसाधकः स्यात् अतद्वत्तेः अतत्सा धकत्वात, न; पक्षद्वये प्रकृतस्य वृत्त्यभ्युपगमात् । तथाहि-साधनकाले अनित्यपक्ष एव नित्यधर्मा२० नुपलब्धिर्वर्तते न नित्ये, यदाऽपि नित्यत्वं साध्यं तदापि नित्यपक्ष एव अनित्यधर्मानुपलब्धिर्वर्तते नाऽनित्ये, ततश्च सपक्षे एव प्रकरणसमस्य वृत्तिः सपक्ष-विपक्षयोश्च अनैकान्तिकस्य; साध्यापेक्षया च पक्ष-सपक्ष-विपक्षव्यवहारः नान्यथा तेन साध्यद्वयवृत्तिः उभयसाध्यसपक्ष-वृत्तिश्च प्रकरणसमः नतु कदाचित् साध्यापेक्षया विपक्षवृत्तिः अनैकान्तिकस्तु विपक्षवृत्तिरपि इत्यस्मात् अस्य भेदः । न च रूपत्रययोगेऽपि अस्य हेतुत्वम् सप्रतिपक्षत्वात् यस्य तु प्रतिबन्धपरिसमाप्ती रूपत्रययोगे तेन २५ प्रकरणसमस्य नाहेतुत्वमुपदर्शयितुं शक्यम् । न चास्य कालात्ययापदिष्टत्वम् अबाधितविषयत्वात् ययोहि प्रकरणचिन्ता तयोरयं हेतुः न च तो संदिग्धत्वात् वाधामस्योपदर्शयितुं क्षमौ । न च हेतुद्वयसंनिपातात् एकत्र धर्मिणि संशयोत्पत्तेस्तजनकत्वेनास्य अनैकान्तिकता यतो न संशयहे. तुत्वेन अनैकान्तिकत्वम् इन्द्रियसंनिकर्षादेरपि तथात्वप्रसक्तेः। न च तत्त्वानुपलब्धिर्विशेषस्मृत्यादि शून्या संशयकारणम् न च तत्सहिताया अस्या हेतुत्वम् केवलाया एव तत्त्वेन उपन्यासात् । न च २०संदिग्धे विषये भ्रान्तपुरुषेण निश्चयार्थमुपादीयमानाया अस्याः संदेहहेतुता युक्ता । भवतु वा कथंचिद् अतस्संशयोत्पत्तिस्तथापि अनैकान्तिकाद् अस्य विशेषः स हि सपक्ष-विपक्षयोः समानः अयं तु तद्विपरीतः साध्यद्वयवृत्तित्वात् तु प्रकरणसमःन चासंभवः अस्यैवंविधसाधनप्रयोगस्य भ्रान्तेः सद्भावात् । अथास्यासिद्ध अन्तर्भावः नित्यवादिनो नित्यधर्मानुपलब्धेः इतरस्य च इतरधर्मानुपलब्धेरसि. द्धत्वात, असदेतत् यतश्चिन्तासंबन्धिपुरुषेण प्रकरणसमस्य हेतुत्वेन उपन्यासः तस्य च तत्संबन्धि३५ नैव कथमितरेण असिद्धतोद्भावनं विधातुं शक्यम् ? यस्य हि अनुपलब्धिनिमित्तसंशयोत्पत्तौ शब्दे नित्यत्वाऽनित्यत्वजिज्ञासा स कथमन्यतरानुपलब्धेहेतुत्वप्रयोगे असिद्धतां ब्रूयात् अत एव सूत्रकारेण “यस्मात् प्रकरणचिन्ता" [ न्यायद० १-२-७] इति असिद्धतादोषपरिहारार्थमुपातम् । एवम् 'अनित्यः शब्दः, पक्ष-सपक्षयोः अन्यतरत्वात्, घटवत्' इति चिन्तासंबन्धिना पुरुषेण उक्ते अपरस्त संवन्धी 'नित्यः शब्दः, पक्ष-सपक्षयोः अन्यतरत्वात्, आकाशवत्' यदाह तदा प्रकरणसम एव । ४० अत्र प्रेरयन्ति-पक्ष-सपक्षयोः अन्यतरः पक्षः सपक्षो वा ? यदि पक्षः तदा न हेतोः सपक्षवृ. त्तिता न हि शब्दस्य धर्म्यन्तरे वृत्तिः संभवतीति असाधारणतैवास्य हेतोः स्यात् । अथ सपक्षः अनकान्तिकत २०संदिग्धेशरणम् न च तत्ससिप तथात्वास १-टादिः ए-आ० हा० वि० विना। २ -वृत्तिःप्र-वा० बा० । ३-शब्दे नित्यत्वजि-वा० बा० आ०। ४ पृ. ७१९ पं० ३७। ५ शब्दः सपक्षपक्षयोरन्य-भां० मा० विना ।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456