Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 314
________________ ज्ञेयमीमांसा ७२५ व्यत्यन्तरे वृत्त्यनुपपत्तेस्तदनुरूपप्रत्ययस्य तत्रासंभवात् असाधारणता च हेतोः स्यात् । यदि च असाधारणरूपा व्यक्तयः स्वरूपतः तदा परसामान्ययोगादपि न साधारणतां प्रतिपद्यन्त इति व्यर्था सामान्यप्रकल्पना स्वतः असाधारणस्य अन्ययोगादपि साधारणरूपत्वानुपपत्तेः स्वतस्तद्रपत्वेऽपि निष्फला सामान्यकल्पना इति व्यक्तिव्यतिरिक्तस्य सामान्यस्य अभावात् असिद्धस्तल्लक्षणो हेतुः इति कथं ततः साध्यसिद्धिः? अथ व्यक्त्यव्यतिरिक्तं सामान्यं हेतुः तदपि असंगतमेव व्यक्त्यव्यतिरिक्तस्य५ व्यक्तिस्वरूपवद् व्यक्त्यन्तराननुगमात् सामान्यरूपतानुपपत्तेः व्यत्तयन्तरसाधारणस्यैव वस्तुनः सामान्यम्' इत्यभिधानात् तत्साधारणत्वे वा न तस्य व्यक्तिस्वरूपाऽव्यतिरिच्यमानमूर्तिता सामान्यरूपतया भेदाव्यतिरिच्यमानस्वरूपस्य विरोधात् । तन्न व्यत्त्यव्यतिरिक्तमपि सामान्यं हेतुः व्यक्तिस्वरूपवत् असाधारणत्वेन गमकत्वायोगात् अत एव न व्यक्तिरूपमपि हेतुः । न चोभयं परस्पराननुविद्धं हेतुः उभयदोषप्रसङ्गात् । न अनुभयम् अन्योन्यव्यवच्छेदरूपाणामेकाभावे द्वितीयविधानात् अनुभयस्य १० असत्त्वेन हेतुत्वायोगात् बुद्धिप्रकल्पितं च सामान्यम् अवस्तुरूपत्वात् साध्येन अप्रतिबद्धत्वात् असिद्धत्वाच्च न हेतुः । तस्मात् पदार्थान्तरानुवृत्तव्यावृत्तरूपमात्मानं बिभ्रद् एकमेव पदार्थस्वरूपं प्रतिपत्तुर्भेदाभेदप्रत्ययप्रसूतिनिबन्धनं हेतुत्वेन उपादीयमानं तथाभूतसाध्यसिद्धिनिवन्धनमभ्युपगन्तव्यम् । न च यदेव रूपं रूपान्तराद् व्यावर्तते तदेव कथमनुवृत्तिमासादयति, यच्च अनुवर्तते तत् कथं व्यावृत्तिरूपतामात्मसात्करोति इति वक्तव्यम् भेदाभेदरूपतया अध्यक्षतः प्रतीयमाने वस्तु-१५ स्वरूपे विरोधासिद्धेरिति असकृद् आवेदितत्वात् । किञ्च, एकान्तवाद्युपन्यस्तहेतोः किं सामान्य साध्यम्, आहोविद विशेषः, उत उभयं परस्परविविक्तम्, उतस्विद् अनुभयमिति विकल्पाः । तत्र न तावत् सामान्यम् केवलस्य तस्य असंभवात् अर्थक्रियाकारित्वविकलत्वाच्च । नापि विशेपः तस्य अननुयायित्वेन साधयितुमशक्यत्वात् । नापि उभयम् उभयदोषानतिवृत्तेः । नापि अनुभयम् तस्य असतो हेत्वव्यापकत्वेन साध्यत्वायोगात् ।२० एतदेव आह गाथापश्चार्धेन अन्योन्यप्रतिक्रष्टौ प्रतिक्षिप्तौ द्वावपि एती सामान्य-विशेषैकान्तौ असद्वादाविति । इतरविनिर्मुक्तस्य एकस्य शशशृङ्गादेरिव साधयितुमशक्यत्वात् ॥ ५६ ॥ [ परस्परभिन्न सामान्य-विशेषयोः स्वरूपमनूद्य तस्य निराकरणम् ] सामान्य-विशेषयोः स्वरूपं परस्परविविक्तमनूद्य निराकुर्वन् आह वट्टियवत्तव्वं सामण्णं पजवस्स य विसेसो। एए समोवणीआ विभजवायं विसेसेंति ॥ ५७ ॥ द्रव्यास्तिकस्य वक्तव्यं वाच्यम् विशेषनिरपेक्षं सामान्यमात्रम्, पर्यायास्तिकस्य पुनः अनुस्यूताकारविविक्तो विशेष एव वाच्यः एतौ च सामान्यविशेषौ अन्योन्यनिरपेक्षौ एकैकरूपतया परस्परप्राधान्येन वा एकत्र उपनीती प्रदर्शितौ विभज्यवादम् अनेकान्तवादं सत्यवादस्वरूपम् अतिशयाते असत्यरूपतया ततः तौ अतिशयं लभेते इति यावत्-विशेषे साध्ये अनुगमाभा-३० वतः, सामान्ये साध्ये सिद्धसाधनतया साधनवैफल्यतः, प्रधानोभयरूपे साध्ये उभयदोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतः साध्यत्वायोगात् । तस्माद् विवादास्पदीभूतसामान्य विशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिणि अन्योन्यानुविद्धसाधर्म्यवैधर्म्यस्वभावद्वयात्मकैकहेतुप्रदर्शनतो नैकान्तवादपक्षोक्तदोपावकाशः संभवी, अत एव गाथापश्चाधन-एती सामान्य-विशेषौ समुपनीती परस्परसव्यपेक्षतया 'स्यात्'पदप्रयोगतो धर्मिणि अवस्थापितो विभज्यवादम् एकान्तवादम् ३५ विशेषयतः निराकुरुतः एवमेव तयोरात्मलाभात् अन्यथा अनुमानविषयस्य उक्तन्यायतः असत्त्वात् इत्यपि दर्शयति ॥५७॥ [अनेकान्तरूपतया वस्तु साधयतो वादिनोजेयत्वाभिधानम् ] यत्र अनुमानविषयतया अभ्युपगम्यमाने साध्ये दूषणवादिनः अवकाश एव न भवति तदेव । साध्यं हेतुविषयतया अभ्युपगन्तव्यमिति दर्शयन्नाह १-सेसंति भां० मा० आ० हा० वि० । ४०

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456