Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
नेयमीमांसा।
७२३
स्तत्राप्रवृत्तिः सा च त्रैरूप्याभ्युपगमे विरोधाद् अयुक्ता भावाऽभावयोः परस्परपरिहार-स्थितलक्षणतया एकत्रायोगात् । अथ द्वयोरन्योन्यव्यवच्छेदरूपयोः एकत्रायोगाद् अनित्यधर्मानुपलब्धेर्नित्यधमानुपलब्धेर्वा वाधा, न; अनुमानस्यानुमानान्तरेण वाधाऽयोगात् । तथाहि-तुल्यवलयोर्वा तयोर्बाध्यवाधकभावः अतुल्यबलयोर्वा ? न तावत् आद्यः पक्षः द्वयोस्तुल्यत्वे एकस्य बाधकत्वम् अपरस्य च वाध्यत्वमिति विशेषानुपपत्तेः । न च पक्षधर्मत्वाद्यभावादिरेकस्य विशेषः तस्यानभ्युपगमात्५ अभ्युपगमे वा तत एव एकस्य दुष्टत्वान्न किञ्चिद् अनुमानवाधया । तन्न पूर्वः पक्षः । नापि द्वितीयः यतः अतुल्यबलत्वं तयोः पक्षधर्मत्वादिभावाभावकृतम्, अनुमानवाधाजनितं वा? न तावत् आद्यः पक्षा तस्यानभ्युपगमात् अभ्युपगमे वाऽनुमानबाधावैयर्थ्यप्रसक्तेः । नापि द्वितीयः तस्याद्यापि विचारास्पदत्वात् न हि द्वयोस्त्रैरूप्यात् तुल्यत्वे एकस्य वाध्यत्वम् अपरस्य च बाधकत्वम् इति व्यवस्थापयितुं शक्यम् । तन्न अनुमानवाधाकृतमपि अतुल्यवलत्वम् इतरेतराश्रयदोषापत्तेः परिस्फुटत्वात् । एतेन १० पक्ष-सपक्षान्यतरत्वादेरपि प्रकरणसमस्य व्युदासः कृतो द्रष्टव्यः न्यायस्य समानत्वात् । यदपि 'अत्र असाधारणत्वाऽसिद्धत्वदोषद्वयनिरासार्थमन्यतरशब्दाभिधेयत्वं पक्ष-सपक्षयोः साधारणं हेतुत्वेन विवक्षितम् अन्यतरशब्दात् तथाविधार्थप्रतिपत्तेः तस्य तत्र योग्यत्वात्' इत्यभिधानम्, तदपि असंगतम् । यतः यत्रानियमेन फलसंवन्धो विवक्षितो भवति तत्रैव लोके 'अन्यतर'शब्दप्रयोगो दृष्टः यथा 'देवदत्त-यज्ञदत्तयोरन्यतरं भोजय' इत्यत्र अनियमेन देवदत्तः यज्ञदत्तो वा भोजनक्रियया संबध्यते १५ इति अन्यतर'शब्दप्रयोगः न चैवं शब्दः पक्ष-सपक्षयोरन्यतरः तस्य पक्षत्वेन 'अन्यतर'शब्दवाच्यत्वाऽयोगात् । यदपि 'यदा पक्षधर्मत्वं प्रयोक्ता विवक्षति तदा 'अन्यतर'शब्दवाच्यः पक्षः' इत्याद्यभिधानम्, तदपि असंगतम् एवंविवक्षायामस्य कल्पनासमारोपितत्वे अनर्थरूपतया लिङ्गत्वानुपपत्तेः न हि कल्पनाविरचितस्यार्थत्वम् त्रैरूप्यं वा उपपत्तिमत् अतिप्रसङ्गात् तत्त्वे वा अन्यस्य गमकतानिबन्धनस्याभावात् सम्यग्धेतुत्वं स्यात् इति उक्तं प्राक् । कालात्ययापदिष्टस्य तु लक्षणमसंगतमेव न हि २० प्रमाणप्रसिद्धत्रैरूप्यसद्भावे हेतोर्विषयबाधा संभविनी तयोर्विरोधात् साध्यसद्भाव एव हेतोधर्मिणि सद्भावस्त्रैरूप्यम् तदभाव एव च तत्र तत्सद्भावो वाधा भावाभावयोश्च एकत्र एकस्य विरोधः। किञ्च, अध्यक्षाऽऽगमयोः कुतो हेतुविषयबाधकत्वमिति वक्तव्यम् , स्वार्थासंभवे तयोरभावात् इति चेत् हेतावपि सति त्रैरूप्ये तत् समानमित्यसावपि तयोर्विपये बाधकः स्यात् दृश्यते हि चन्द्रार्कादिस्थैर्यग्राहि अध्यक्षं देशान्तरप्राप्तिलिङ्गप्रभवतद्गत्यनुमानेन बाध्यमानम् । अथ तत्स्थैर्यग्राह्यध्यक्षस्य तदा-२५ ऽऽभासत्वाद बाध्यत्वं तर्हि एकशाखाप्रभवत्वानुमानस्यापि तदाभासत्वाद् बाध्यत्वमित्यभ्युपगन्तव्यम् । न चैवमस्त्विति वक्तव्यम् यतस्तस्य तदाभासत्वं कि मध्यक्षबाध्यत्वात् , उत त्रैरूप्यवैकल्यात्? न तावत् आद्यः पक्षः इतरेतराश्रयदोषसद्भावात्-तदाभासत्वे अध्यक्षबाध्यत्वम् ततश्च तदाभासत्वमिति एकाऽसिद्धौ अन्यतराऽप्रसिद्धेः । नापि द्वितीयः त्रैरूप्यसद्भावस्य तत्र परेणाभ्युपगमात् अनभ्युपगमे वा तत एव तस्यागमकतोपपत्तेरध्यक्षबाधाभ्युपगमवैयर्थ्यात् । न चाबाधितविषयत्वं ३० हेतुलक्षणमुपपन्नम् त्रैरूप्यवनिश्चितस्यैव तस्य गमकाङ्गतोपपत्तेः । न च तस्य निश्चयः संभवति, खसंबन्धिनोऽबाधितत्वनिश्चयस्य तत्कालभाविनः असम्यगनुमानेऽपि सद्भावात् उत्तरकालभाविनः असिद्धत्वात् , सर्वसंबन्धिनस्तादात्विकस्य उत्तरकालभाविनश्चासिद्धत्वात् । न हि अर्वाग्हशा 'सर्वत्र सर्वदा सर्वेषामत्र वाधकस्याभावः' इति निश्चेतुं शक्यम्, तन्निश्चयनिवन्धनस्याभावात् नानुपलम्भस्तनिवन्धनः सर्वसंबन्धिनस्तस्यासिद्धत्वात् , आन्मसंवन्धिनः अनैकान्तिकत्वान्न संवादस्तन्निब-३५ न्धनः प्राग अनुमानप्रवृत्तेस्तस्यासिद्धेः अनुमानोत्तरकालं तन्सिङ्ख्यभ्युपगमे इतरेतराश्रयदोषप्रसक्तः। तथाहि-अनुमानात् प्रवृत्तौ संवादनिश्चयः ततश्चावाधितत्वावगमे अनुमानप्रवृत्तिरिति परिस्फुटमितरेतराश्रयत्वम् । न चाविनाभावनिश्चयादपि अवाधितविषयत्वनिश्चयः, पञ्चलक्षणयोग्यविनाभावपरिसमाप्तिवादिनामबाधितविषयत्वानिश्चये अविनाभावनिश्चयस्यैव असंभवात् । यदि च प्रत्यक्षाऽऽगमबाधितकर्मनिर्देशानन्तरप्रयुक्तस्यैव कालात्ययापदिष्टत्वम् तर्हि 'मूोऽयं देवदत्तः, त्वत्पुत्र-४० त्वात् , उभयाभिमतत्वत्पुत्रवत्' इत्यस्यापि गमकता स्यात् । न हि सकलशास्त्रव्याख्यातृत्वलिङ्गजनितानुमानबाधितविषयत्वमन्तरेण अन्यद अध्यक्षवाधितविपयत्वम् आगमवाधितविषयत्वं वा अगम
१-प्यातु-भां० मां० विना।
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456