Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 321
________________ तृतीये काण्डे - इति, “धर्माधर्मक्षयंकरी दीक्षा" [ ] इत्यादिकमधीत्य 'सूत्रधरा वयम्' इति शब्दमात्र संतुष्टा गर्ववन्तः अविकोविदसामर्थ्याः अविकोविदम् अशं सामर्थ्य येषां ते तथाऽविदितसूत्रव्यापारविषया इति यावत् । किमित्येवं ते ? इत्याह-यथाश्रुतमेव अविभक्ता अविवेकेन प्रतिपत्तिरेषामिति कृत्वा सूत्राभिप्रायव्यतिरिक्तविषयविप्रतिपत्तित्वात् इतरजनवद् अज्ञा इत्यभि५ प्रायः । अथवा स्वयूथ्या एव एकनयदर्शनेन कतिचित् सूत्राणि अधीत्य केचित् 'सूत्रधरा वयम्' इति गर्विता यथावस्थितान्यनयसव्यपेक्षसूत्रार्थापरिज्ञानाद् अविदितात्मविद्वत्स्वरूपा इति गाथाभिप्रायः ॥ ६१ ॥ ७३२ १० [ निरपेक्षैकनयप्रवृत्तानां दोषोद्भावनम् ] अथ एषामेकनयदर्शनेन प्रवृत्तानां यो दोषस्तमुद्भावयितुमाहसम्मर्द्दसणमिणमो सयलसमत्तवयणिज्जणिद्दोसं । अत्तुको विट्ठा सलाहमाणा विणासेंति ॥ ६२ ॥ सम्यग्दर्शनमेतत् परस्परविषयाऽपरित्यागप्रवृत्तानेकनयात्मकम् तच्च 'स्यान्नित्यः' इत्यादि सकलधर्मपरिसमाप्तवचनीयतया निर्दोषम्, एकनयवादिनस्त्वविषये सूत्रव्यवस्थापनेन आत्मोत्कर्षेण विनष्टाः स्याद्वादाभिगमं प्रति अनाद्रियमाणा 'वयं सूत्रधराः' इत्यात्मानं १५श्लाघमानाः सम्यग्दर्शनं विनाशयन्ति - तदात्मनि न व्यवस्थापयन्तीति यावत् ॥ ६२ ॥ २० [न शासनभक्तिमात्रेण नाप्यांशिक ज्ञानमात्रेणानेकान्तप्ररूपण कुशल इति कथनम् ] अथ न ते आगमप्रत्यनीकाः तद्भक्तत्वात् तद्देशपरिज्ञानवन्तश्चेति कथं तद् विनाशयन्तीति ? अत्राह ण हु सासणभत्तीमेत्तएण सिद्धंतजाणओ होइ । ण विजाणओ विणियमा पण्णवणाणिच्छिओ णामं ॥ ६३ ॥ न च शासनभक्तिमात्रेणैव सिद्धान्तज्ञाता भवति-न च तदज्ञानवान् भावसम्यक्त्ववान् भवति अज्ञातस्य अर्थस्य विशिष्टरुचिविषयत्वानुपपत्तेः तद्भक्तिमात्रेण श्रद्धानुसारितया द्रव्यसम्यक्त्वम् । मार्गानुसार्यवबोधमात्रानुषक्तरुचिस्वभावं तु सदपि न भावसम्यक्त्व साध्यफलनिर्वर्तकम् भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वरूपत्वोपपत्तेः । न च जीवादितस्यैकदेशज्ञाताऽपि २५ नियमतोऽनेकान्तात्मकवस्तुस्वरूपप्रज्ञापनायां निश्चितो भवति एकदेशज्ञानवतः सकलधर्मात्मक वस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणाऽसंभवात् । तथाहि - सर्वज्ञो यथावस्थितैकदेशशः जीवादिसकलतत्त्वज्ञता तु आगमविदः सामान्यरूपतया अभिधीयते "मति श्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेषु" [ तत्त्वार्थ० १-२७] इति वचनात् । [तसप्तके निरूप्ये पूर्व जीवाजीवौ निरूप्य तत्र कणादादि संमततच्चानामन्तर्भाव प्रदर्शनम् ] ३० तत्त्वं तु जीवा जीवाव-बन्ध-संवर- निर्जरा-मोक्षाख्याः सप्त पदार्थाः । तत्र चेतनालक्षणोऽर्थो जीवः, तद्विपरीतलक्षणस्तु अजीवः, धर्माधर्माकाशकालपुद्गलभेदेन त्वसौ पञ्चधा व्यवस्थापितः । एतत्पदार्थद्वयान्तर्वर्तिनश्च सर्वेऽपि भावाः न हि रूप-रस- गन्ध-स्पर्शादयः साधारणासाधारणरूपा मूर्त १ - जनपदवज्ञानिन इत्य-भां० मां० । जनपदवदज्ञान इत्य बृ० आ० हा०वि० । 9 २ णाम मु० मू० ३ प्रायो बहुषु आदर्शेषु तत्र च बहुषु स्थलेषु तालव्यशकारस्योपलम्भेऽपि क्वचित् क्वचिद् दन्त्यसकारस्य दर्शनात् तस्यैव च प्रकृते शुद्धतरत्वात् तथैव च प्रन्थान्तर संवाददर्शनात् पाठान्तरवैषम्यपरिहाराय लाघवाय एकविधपाठपरिग्रहाय च सर्वत्र दन्त्यसकार विशिष्टं रूपमङ्गीकृत्य 'आस्रव' पदमेव उपयुक्तमत्रास्माभिः न तु 'आश्रव' पदम् ।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456