Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 324
________________ ज्ञेयमीमांसा । श्रेयस्कारिणी' इत्यादिरागहेतुविरोधानुचिन्तनं वैराग्यविचयम् । प्रेत्य स्वकृतकर्मफलोपभोगार्थ पुनः प्रादुर्भावो भवः स च अरघट्टघटीयन्त्रवद् मूत्र-पुरीषाऽन्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटरादिषु अजस्रमावर्तनम् न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतः चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यते' इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम् । 'भवन-नग-सरित्-समुद्रभूरुहादयः पृथिवीव्यवस्थिताः साऽपि घनोदधि-घनवात-तनुवातप्रतिष्ठा तेऽपि आकाशप्रतिष्ठाः५ तदपि खात्मप्रतिष्ठम् तत्र अधोमुखमल्लकसंस्थानं वर्णयन्ति अधोलोकम्' इत्यादि च संस्थानानुचिन्तनं संस्थानविचयम् । अतीन्द्रियत्वाद् हेतूदाहरणादिसद्भावेऽपि बुद्ध्यतिशयशक्तिविकलैः परलोक-बन्ध-मोक्ष-धर्माऽधर्मादिभावेषु अत्यन्त दुःखबोधेषु आप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेति आशाविचयम् । आगमविषयविप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकागमस्य कष-च्छेदतापशुद्धितः समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । एतच्च सर्व धर्मध्यानम् श्रेयोहेतुत्वात् १० एतच्च संवररूपम् अशुभास्रवप्रत्यनीकत्वात् "आस्रवनिरोधः संवरः" [ तस्वार्थ० ९-१] इति वचनात् । गुप्ति-समिति-धर्मानुप्रेक्षादीनां चास्रवप्रतिबन्धकारित्वात् । अयमपि जीवाऽजीवाभ्यां कथंचिदभिन्नः भेदाभेदैकान्ते दोषोपपत्तेः । न चायमेकान्तवादिनां घटते मिथ्याशानाद् मिथ्याज्ञानस्य निरोधानुपपत्तेः । संवरश्च द्विविधः सर्व-देशभेदात् । पीत-पद्मलेश्याबलाधानमप्रमत्तसंयतस्य अन्तर्मुहूर्तकालप्रमाणं स्वर्गसुखनिवन्धनमेतद् धर्मध्यानं प्रतिपत्तव्यम् । __ कषायदोषमलापगमात् शुचित्वम् तदनुषङ्गात् शुक्लं ध्यानम् । तच्च द्विविधम्-शुक्ल-परमशुक्लभेदात् । तत्र पृथक्त्ववितर्कवीचारम् एकत्ववितर्कावीचारं चेति शुक्लं द्विधा । परमशुक्लमपि सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिर्ति चेति द्विधा । बाह्याध्यात्मिकभेदाच्च एतदपि द्विविधम्-गात्र-दृष्टिपरिस्पन्दाभावः जृम्भोद्गारक्षवथुविरहः अनभिव्यक्तप्राणाऽपानप्रचारत्वमित्यादिगुणयोगि बाह्यम् परेषामनुमेयम् आत्मनश्च स्वसंवेद्यम्-आध्यात्मिकं तु पृथग्भावः पृथक्त्वम्-नानात्वम्, वितर्कः-श्रुत-२० ज्ञानम्-द्वादशाङ्गम् , वीचारः-अर्थ-व्यञ्जन-योगसंक्रान्तिः-व्यञ्जनम्-अभिधानम् तद्विषयोऽर्थः मनोवाक्-कायलक्षणो योगः संक्रान्तिः परस्परतः परिवर्तनम् पृथक्त्वेन वितर्कस्य अर्थ-व्यञ्जन-योगेषु संक्रान्तिर्वीचारः यस्मिन् अस्ति तत् पृथक्त्ववितर्कवीचारम् । तथाहि-असावुत्तमसंहननो भावयति विजृम्भितपुरुषकारवीर्यसामर्थ्यः संहृताशेषचित्तव्याक्षेपः कर्मप्रकृतीः स्थित्यनुभागादिभिर्हासयन् महासंवरसामर्थ्यतो मोहनीयमचिन्त्यसामर्थ्यमशेषमुपशमयन् क्षपयन् वा द्रव्यपरमाणुम् भावपर-२५ माणुं चैकमवलम्ब्य द्रव्य-पर्यायार्थाद् व्यञ्जनम् व्यञ्जनाद् वा अर्थम् योगाद् योगान्तरम् व्यञ्जनाद् व्यञ्जनान्तरं च संक्रामन् पृथक्त्ववितर्कवीचारं शुक्लतरलेश्यमुपशमक-क्षपकगुणस्थानभूमिकमन्तमुहूर्ता(द्धं) क्षायोपशमिकभूमिकं प्रायः पूर्वधरनिषेव्यमाश्रितार्थ व्यञ्जनयोगसंक्रमणं श्रेणिभेदात् स्वर्गापवर्गफलप्रदमाद्यं शुक्लध्यानमवलम्बते एतच्च निर्जरात्मकम् आत्मस्थितकर्मक्षयकारणत्वात् तस्याः “तपसा निर्जरा च" [ तत्त्वार्थ० ९-३] इति वचनात् ध्यानस्य चान्तरोत्कृष्टतपोरूपत्वाद् ३० जीवाजीवाभ्यां कथंचिदसावभिन्ना व्यङ्गुलवियोगवत् वियुक्तात्मनो वियोगस्य कथंचिद् अभेदात् एकान्तवादे तु पूर्ववत् पश्चादपि अवियोगः अतद्धर्मत्वात् वियोगे वा पूर्वमपि तत्स्वभावत्वाद् अयु. क्तस्य वियोगाभाव एव न हि बन्धाभावे तद्विनाशः संभवी तस्य वस्तुधर्मत्वात् न हि अङ्गुल्योः संयोगाभावे तद्वियोग इति व्यवहारः । तस्माद् निर्जराया अपि एकान्तवादे अनुपपत्तिः । एकत्वेन वितर्को यस्मिन् तद् एकत्ववितर्कम् विगतार्थ-व्यञ्जन-योगसंक्रमत्वाद् अवीचारं द्वितीयं शुक्लध्यानम् । ३५ तथाहि-एकपरमाणौ एकमेव पर्यायमालम्ब्यत्वेन आदाय अन्यतरैकयोगबलाधानमाश्रितव्यतिरि ताशेषार्थव्यञ्जनयोगसंक्रमविषयचिन्ताविक्षेपरहितं बहुतरकर्मनिर्जरारूपं निश्शेषमोहनीयक्षयानन्तरं । युगपद्भाविघातिकर्मत्रयध्वंसनसमर्थमकषायच्छद्मस्थवीतरागगुणस्थानभूमिकं क्षपको द्वितीयं शुक्ल १पीत-पद्मादिकानां षण्णां लेश्यानां सविस्तर वरूपं प्रज्ञापनासूत्रीयलेश्यापदतोऽवगन्तव्यम्-प. १७ पृ०३३०३७३। २ अत्र मूलतत्त्वार्थे तदीये भाष्ये च 'क्रियानिवृत्ति' इत्येव पाठो मुद्रितो दृश्यते-अ० ९-४१। सर्वार्थसिद्धि-राजबार्तिक-श्लोकवार्तिकेषु तु 'क्रियानिवर्ति' इत्येव पाठो मुद्रितो वर्तते परन्तु सर्वार्थसिद्धौ तालपत्रगतपाठान्तरलेन 'क्रियानिवृत्ति' इति पाठोऽधस्तादुपन्यस्तः-अ० ९-३९ ।

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456