Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 322
________________ ज्ञेयमीमांसा। ऽमूर्तचेतनाऽचेतनद्रव्यगुणाः, उत्क्षेपणाऽपक्षेपणादीनि च कर्माणि, सामान्य-विशेष-समवायाश्च जीवाऽजीवव्यतिरेकेण आत्मस्थितिं लभन्ते तद्भेदेन एकान्ततस्तेपामनुपलम्भात् तेषां तदात्मकत्वेन प्रतिपत्तेः अन्यथा तदसत्त्वप्रसक्तेः । ततो जीवाजीवाभ्यां पृथक जात्यन्तरत्वेन द्रव्य-गुण-कर्मसामान्य-विशेष-समवायो न वाच्याः। एवम् प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानौनि च न पृथर अभिधानी-५ यानि । तथा, "प्रकृतेर्महान् महतोऽहंकारस्तस्माद् गणश्च षोडशकः। तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि" ॥ [ सांख्यका० का० २२] इति चतुर्विशतिः पदार्थाः पुरुषश्चेति न वक्तव्यम् । तथा, दुःख-समुदा(द)य-मार्ग-निरोधाश्चत्वारि आर्यसत्यानि इति न वक्तव्यम् । तथा पृथिवी आपः तेजः वायुः इति तत्वानि इति न वक्तव्यम् । तत्प्रभेद १० रूपतया अभिधानेऽपि न दोषः जात्यन्तरकल्पनाया एव अघटमानत्वात् राशिद्वयेन सकलस्य जगतो व्याप्तत्वात् तदव्याप्तस्य शशशृङ्गतुल्यत्वात् । शब्दब्रह्माद्यकान्तस्य च प्राक प्रतिषिद्धत्वात् अबाधित. रूपोभयप्रतिभासस्य तथाभूतवस्तुव्यवस्थापकस्य प्रसाधितत्वात् विद्याऽविद्याद्वयभेदाद् द्वैतकल्पनायामपि त्रित्वप्रसक्तेः । बाह्यालम्बनभूतभावापेक्षया विद्यात्वोपपत्तेः अन्यथा निर्विषयत्वेन उभयोरविशेषात् तत्प्रतिभागस्य अघटमानत्वात् न हि द्वयोर्निरालम्बनत्वे विपर्यस्ताऽविपर्यस्तज्ञानयोरिव १५ विद्याविद्यात्वमेदः ततो नाद्वयं वस्तु, नापि तद्व्यतिरिक्तमस्ति । ___अथ आस्रवादीनामपि अनुपपत्तिः राशिद्वयेन सकलस्य व्याप्तत्वात्, न; ततस्तेषां कथंचिद् मेदप्रतिपादनार्थत्वात् अनयोरेव तथापरिणतयोः सकारणसंसार-मुक्तिप्रतिपादनपरत्वात् तथाभिधानस्य अनेन वा क्रमेण तज्ज्ञानस्य मुक्तिहेतुत्वप्रदर्शनार्थत्वात् विप्रतिपत्तिनिरासार्थत्वाद् वा तदभिधानस्य अदुष्टता । तथाहि-आँस्रवति कर्म यतः स आस्रवः काय-वार-मनोव्यापारः स च २० जीवाजीवाभ्यां कथंचिद् भिन्नः तथैव प्रतीतिविषयत्वात् । अथ बन्धाभावे कथं तस्योपपत्तिः! प्राक् तत्सद्भावे वा न तस्य बन्धहेतुता न हि यद यद्धेतुकं तत् तदभावेऽपि भवति अतिप्रसङ्गात्, असदे तत् पूर्वोत्तरापेक्षया अन्योन्य कार्यकारणभावनियमात् । न च इतरेतराश्रयदोषः प्रवाहापेक्षया अनादित्वात् । पुण्यापुण्यबन्धहेतुतया चासौ द्विविधः उत्कर्षाऽपकर्षभेदेन अनेकप्रकारोऽपि दण्डगुप्त्यादित्रित्वादिसंख्याभेदमासादयन् फलानुबन्ध्यननुवन्धिभेदतः अनेकशब्दविशेषवाच्यतामनु-२५ भवति एकान्तवादिनां च नायं संभवतीति कम्मं जोगनिमित्तं [प्र० का० गा० १९] इति गाथार्थ प्रदर्शयद्भिः प्राक प्रतिपादितत्वात् । तन्निमित्तः सकषायस्य आत्मनः कर्मवर्गणापुद्गलैः संश्लेषविशेषो बन्धः स च सामान्येन एकविधोऽपि प्रकृति-स्थित्यनुभाग-प्रदेशभेदेन चतुर्धा पुनः एकैको ज्ञानावरणीयादि-मूलप्रकृतिभेदादष्टविधः पुनरपि मत्यावरणाद्युत्तरप्रकृतिभेदाद् अनेकविधः अयं च कश्चित् तीर्थकरत्वादिफलनिर्वर्तकत्वात प्रशस्तः अपरश्च नारकादिफलनिर्वर्तकत्वाद३० अप्रशस्तः प्रशस्ताऽप्रशस्तात्मपरिणामोद्भूतस्य कर्मणः सुख-दुःखसंवेदनीयफलनिर्वर्तकत्वात् । १ कणादमतमेतत् , अस्य स्थापन-निरसने पूर्व समायाते द्रष्टव्ये । २ अक्षपादमतमेतत् । ३ न्यायद० १-१-१। ४ “प्रकृतेर्महान् ततोहंकार"-सांख्यका० । ५ बौद्धमते दुःखकारणभूतद्वितीयार्यसत्यपरत्वं समुदयपदस्य प्रसिद्धम् । तद्यथा“समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयभावाख्यः समुदयः स उदाहृतः" ॥६॥-पइद० स० । ६ आश्रव-बृ. विना। अत्र आस्रवस्य निरूपणीयखेन तत्र च मनोदण्डादित्रिविधदण्डस्य समावेशेऽपि त्रिविधाया गुप्तेः संवररूपलेन आस्रवविरोधितया आस्रवे समावेशाभावात् 'दण्डागुप्त्यादि' इति पाठं कल्पयिखा अर्थसंगतिः कर्तुमुचिता। ८पृ. ४१८ गा० १९ । ९ "ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः"-सांख्यका० ४४ । “ज्ञानस्य विपर्ययोऽज्ञानं तेनाज्ञानेन x x x मात्मानं निबध्नाति-न मोक्षं गच्छतीत्यर्थः x x x स च बन्धस्त्रिविधः प्रकृतिबन्धः वैकारिकबन्धः दक्षिणाबन्धश्चति । तत्र प्रकृतिबन्धो नाम अष्टासु प्रकृतिषु परखेनाभिमानः" [का० ४४ माठरवृ० पृ. ६२] इत्यादिना सांख्या अपि बन्धं प्रतिपन्नाः।

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456